आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 249, कुल 399 में से
संदर्भ में पढ़ें२३८ आपस्तम्बधर्मसूत्रे [ (प. ६.) क. १४.
विष्णुः-'यत्र क्वचनोत्पादितस्तु द्वादशः, इति ।
याज्ञवल्क्यः-
(१)'पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः ।' इति
मनुः-
(२)'श्रेयसः श्रेयसोऽभावे पापीयान् रिक्थमर्हति ।' इति ।
'क्रमादेते प्रवर्तन्ते मृते पितरि तद्धने ।
नारदः-
(३) ज्यायसो ज्यायसोऽभावे जघन्यस्तदवाप्नुयात् ॥' इति ।
देवलः-
'सर्वे ह्यनौरसस्यैते पुत्रा दायहराः स्मृताः ।
औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं न तिष्ठति ।
तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः ।
शेषास्तमुपजीवेयुर्ग्रासाच्छादनसम्भृताः ॥' इति ।
मनुः-
(४)'षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ॥' इति ।
बृहस्पतिः-
'क्षेत्रजाद्यास्सुतास्त्वन्ये पञ्चषट्सप्तभागिनः' इति ।
हारीतः-
'विभजिष्यमाण एकविंशं कानीनाय दद्याद्विंशं पौनर्भवायैकोन-
विंशं द्वामुष्यायणायाऽष्टादशं क्षेत्रजाय सप्तदशं पुत्रिकापुत्रायेतरानौर-
साये'ति ।
वसिष्ठः-
(५)“पुत्रं प्रतिग्रहीष्य'न्निति प्रक्रम्य 'तस्मिंश्चेत्प्रतिगृहीते औरस
उत्पद्यते चतुर्थभागभाग्'ति ।
एवमतेषु शास्त्रेषु विद्यमानेषु यदाचार्येण पूर्वमुक्तं 'तेषां कर्मभि-
स्सम्बन्धो दायेनाऽव्यतिक्रमश्चोभयो'रिति तद्धर्मपत्नीजे पुत्रे सति क्षे-
त्रजादीनां समांशहरत्वप्रतिषेधपरं वेदितव्यम् ।
अथाविभाज्यम् ।
अत्र मनुः-
(६)'अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जयेत् ।
१. या. स्मृ. २. १३२. २. म स्मृ. ९. १६४. ३. ना. स्मृ. १३. ४९.
४ म. स्मृ ९. १३४. ५. व. ध. १५. ६. ९. ६. म. स्मृ. ९. २०८.