सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 255, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 255

२४४ आपस्तम्बधर्मसूत्रे [ (प्र.६.)क.१५.
द्रव्यपरिग्रहेषु च ॥ १९ ॥
द्रव्यपरिग्रहेषु च द्रव्यार्जनेष्वपि तथा सहत्वमेव । तत्र पतिरा-
र्जयति, जाया गृहे निर्वहतीति योगक्षेमावुभयायत्ताविति द्रव्यपरिग्रहे-
ऽपि सहत्वम् ॥ १९ ॥
एतदेवोपपादयति—
न हि भर्तुर्विप्रवासे नैमित्तिके दानं स्तेयमुपदिशन्ति॥२०॥
हि यस्मात् भर्तुर्विप्रवासे सति नैमित्तिके 'छिन्दत्पाणि दद्यादि'त्यादिके
दाने कृते भार्याया न स्तेयमुपदिशन्ति धर्मज्ञाः । यदि भर्तुरेव द्रव्यं स्यात्
स्यादेव स्तेयम् ।, नैमित्तिके दान इति वचनात् द्रव्यान्तरे स्तेयं भव-
त्येव । एतदेव द्रव्यसाधारण्येऽपि दम्पत्योर्वैषम्यं—यत् पतिर्यथेष्टं वि-
नियुङ्क्ते जाया त्वेतावदेवेति । न च पत्युस्स्वयमर्जितस्य विनियोगे
जायाया अनुमत्यपेक्षा, स्वतन्त्रत्वात् । स्वतन्त्रो ह्यसौ गृहे, यथा राजा
राष्ट्रे । अत एव भार्यायास्तेयशङ्का, न भर्तुः ॥ २० ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने चतुर्दशी काण्डिका ॥ १४ ॥
एतेन देशकुलधर्मा व्याख्याताः ॥ १ ॥
'ज्येष्ठो दायाद' (२. १४. १६.) इत्यादिकं शास्त्रविप्रतिषेधादप्रमाण-
मित्युकम् । एतेन देशधर्माः कुलधर्माश्च व्याख्याताः । शास्त्रविप्रतिषिद्धा मातु-
लसुतापरिणयनादयोऽप्रमाणं विपरीताः प्रमाणमिति ।
गौतमोऽप्याह—
(१)'देशकुलधर्माश्चाऽऽम्नायैरविरुद्धाः प्रमाण'मिति ॥ १ ॥
मातुश्च योनिसम्बन्धेभ्यः पितुश्चाऽऽसप्तमाद्यावता वा
सम्बन्धो ज्ञायते तेषां प्रेतेषूदकोपस्पर्शनं गर्भान्
परिहाप्याऽऽपरिसंवत्सरान् ॥ २ ॥
मातुर्योनिसम्बन्धा मातुलादयः । पितुश्चासप्तमात् पुरुषात् सम्बन्धास्सपि-
ण्डादयः पैतृष्वस्रेयादयश्च तेभ्य आरभ्याऽऽसप्तमादित्यन्वयः । यावता वा-
न्तरेण सम्बन्धो ज्ञायते स्मर्यते जन्मना नाम्ना वाऽमुष्याऽयमस्मत्कूटस्थस्य
१. गौ. ध. ११. २०.