सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 252, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 252

दायभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४१
याज्ञवल्क्यः—
(१)संसृष्टिनस्तु संसृष्टी सोदर्यस्य तु सोदरः ।
दद्याच्चाऽपहरेच्चांशं जातस्य च मृतस्य च ॥
अन्योदर्यस्तु संसृष्टी नाऽन्योदर्यधनं हरेत् ।
असंसृष्ट्यपि चाऽऽदद्यात्सोदर्यो नान्यमातृजः ॥' इति ।
अत्र सोदर्य इति विशेषवचनात् 'पत्नी दुहितरश्चे'त्यत्र भ्रातृग्रहणं
भिन्नोदरविषयमिति । प्रत्यासत्त्यतिशयात्(२) पितैवेत्याचार्यस्य पक्षः।
तदभावे सोदर्यः, तदभावे तत्पुत्रः, तदभावे भिन्नोदराः, तदभावे पितृव्य
इत्यादि द्रष्टव्यम् । मात्रादयोऽपि स्त्रियो जीवनमात्रं लभेरन्निति ॥ २ ॥
तदभाव आचार्य आचार्याभावेऽन्तेवासी हृत्वा
तदर्थेषु धर्मकृत्येषु वोपयोजयेत् ॥ ३ ॥
सपिण्डाभावे आचार्यो दायं हरेत् । तस्याऽप्यभावे अन्तेवासी हरेत ।
हृत्वा तदर्थेषु धर्मकृत्येषु तडाकखननादिषूपयोजयेत् । वाशब्दात् स्वयं वा
उपयुञ्जीत ॥ ३ ॥
दुहिता वा ॥ ४ ॥
दुहिता वा दायं हरेत् । पुत्राभाव इत्येके। अनन्तरोक्ते विषय इत्यन्ये ॥४॥
सर्वाभावे राजा दायं हरेत् ॥ ५ ॥
सर्वग्रहणात् बन्धूनां सगोत्राणां चाऽप्यभावे ॥ ५ ॥
ज्येष्ठो दायाद इत्येके ॥ ६ ॥
एके मन्यन्ते ज्येष्ठ एव पुत्रो दायहरः । इतरे तु तमुपजीवेयुः ।
सोऽपि तान् पितेव परिपालयेदिति । तथा च गौतमः(३) 'सर्वं वा
पूर्वजस्येतरान् बिभृयात्पितृव'दिति ॥ ६ ॥
देशविशेषे सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ॥७॥
क्वचिद्देशे सुवर्णादि ज्येष्ठस्य भाग इत्याहुः । भूमौ जात भौमं धान्यं कृष्णं
माषादि कृष्णायसमित्यन्ये ॥ ७ ॥
रथः पितुः परिभाण्डं च गृहे ॥ ८ ॥
१ या. स्मृ. २. १३८, १३९. २. पितैवेति वयम् इति च. पु. ३. गौ. ध.२८.३.
आप० ध० ३१