सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 261, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 261

२६० आपस्तम्बधर्मसूत्रे [ (प.७.)क.१६.
अपरपक्षस्याऽपराह्नः श्रेयान् ॥ ४ ॥
अपरपक्षस्य यान्यहानि तेष्वपराह्नः प्रशस्ततरः ॥ ४ ॥
तथाऽपरपक्षस्य जघन्यान्‍यहानि ॥ ५ ॥
यस्यैव पक्षस्य यान्यहानि पञ्चदश(१) तेषामुत्तरमुत्तरं प्रशस्त-
तरम् ॥ ५ ॥
सर्वेष्वेवाऽपरपक्षस्याऽहस्सु क्रियमाणे पितॄन् प्रीणाति ।
कर्तुस्तु कालाभिनियमात्फलविशेषः ॥ ६ ॥
सर्वेष्वेवाहस्सु पितॄणां तृप्तिरविशिष्टा । यस्तु कर्ता प्रतिपदादिके काले
नियमेन श्राद्धं करोति सर्वेषु मासेषु प्रतिपद्येव द्वितीयायामेवेत्यादि
तस्य कर्तुस्तस्मात्कालाभिनियमात् फलविशेषो भवति ॥ ६ ॥
कोऽसावित्याह—
प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ॥ ७ ॥
यः प्रतिपदि नियमेन श्राद्धं करोति तस्यापत्ये प्रजासन्ताने स्त्री-
प्रायं जायते । प्रायेण स्त्रियो जायन्ते ॥ ७ ॥
द्वितीये स्तेनाः ॥ ८ ॥
जायन्ते चोराः पुत्राः ॥ ८ ॥
(२)तृतीये ब्रह्मवर्चसिनः ॥ ९ ॥
(३)व्रताध्ययनसम्पत्तिर्ब्रह्मवर्चसम् ॥ ९ ॥
चतुर्थे क्षुद्रपशुमान् ॥ १० ॥
क्षुद्राः पशवोऽजाव्यादयः तद्वान् कर्ता भवति । उत्तरत्राप्येकवचने(४)
कर्तुर्वाचो द्रष्टव्यः ॥ १० ॥
पञ्चमे पुमांसो बह्वपत्यो न चाऽनपत्यः प्रमीयते ॥११॥


१. तेषां यथोत्तरं श्रेयस्त्वम् ' इति ड. च. पु.
२. तृतीये क्षुद्रपशुमान् कर्ता भवति ॥ चतुर्थे ब्रह्मवर्चसिनः ।
३. व्रताध्ययनसम्पत्तिर्ब्रह्मवर्चसम् । आपस्तम्बस्तु तृतीयचतुर्थयोर्विपरीतफलमाह—
तृतीये ब्रह्मवर्चसिनः । चतुर्थे क्षुद्रपशुमान् ॥ इति पाठो घ पुस्तके ।
४ कर्तुंनुवाद०, इति घ. पु ।