सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 260, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 260

अथ सप्तमः पटलः ॥
सह देवमनुष्या अस्मिँल्लोके पुरा बभूवुः । अथ देवाः
कर्मभिर्दिवं जग्मुरहीयन्त मनुष्याः । तेषां ये तथा क-
र्माण्यारहन्ते सह देवैर्ब्रह्मणा चाऽमुष्मिन् लोके भव-
न्ति । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच । (१)प्रजानि-
श्चेयसाय च ॥ १ ॥
(२)श्राद्धविधित्सया तस्य प्ररोचनार्थोऽयमर्थवादः । पुरा किल
देवाश्च मनुष्याश्चाऽस्मिन्नेव लोके सहैव बभूवुः । अथ त सहभावमसहमना देवा.
कर्मभिः श्रौतैस्स्मार्तैर्गा‌र्ह्यैश्च यथावदनुष्ठितैर्दिवं जग्मुः मनुष्यास्तु तथा क-
र्तुमसमर्था अहीयन्त हीना अभवन् इहैव लोके स्थिताः । यत एवं कर्म-
णां सामर्थ्यम् अत इदानीमपि तेषां मनुष्याणां मध्ये ये तथा कर्माण्यारहन्ते
कुर्वन्ति यथारभन्त देवाः, ते देवै ब्रह्मणा च सहामुष्मिन् लोक भवन्ति त्रिवि
ष्टपे मोदन्ते(३) । अथैवहीनान्मनुष्यान् दृष्ट्वा मनुर्वैवस्वतः श्राद्धशब्दं श्रा-
द्धमिति शब्दमानमेतत्कर्म प्रोवाच । किमर्थम् ? प्रजानिःश्रेयसाय, तादर्थ्ये च-
तुर्थी । प्रजानां निःश्रेयसार्थम् । निश्रेयसाचेति पाठे छान्दसो यकारस्य
चकारः।
अपर आह—छान्दसो लिङ्गव्यत्ययः । प्रजानिश्रेयसं चाऽस्य कर्मणः
फलमिति ॥ १ ॥
तत्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ॥ २ ॥
तत्र श्राद्धकर्मणि पितर पितृपितामहप्रपितामहाः देवताः । ब्राह्मणा-
स्तु भुञ्जाना आहवनीयार्थे आहवनीयकृत्ये वेदितव्याः । त्रीणि श्राद्धे क-
रणानि—होमो, ब्राह्मणभोजनं, पिण्डदानं चेति । अत्र भोजनस्य(४)प्र-
धानत्वख्यापनार्थोऽयमर्थवादः ॥ २ ॥
मासि मासि कार्यम् ॥ ३ ॥
तदिदं कर्म मासे मासे कर्तव्यम् । वीप्सावचनाद्यावज्जीविकोऽभ्यासः।
१. प्रजानिश्रेयसाय च इति पृथक्सूत्र च . पु. २. मासि श्राद्धविधित्सया इति ड. पु.
३. एवंविधान् इति ख. पुस्तके टिप्पणीपाठः । एव हीयमानान् इति च. पु.
४. 'प्रधानतत्व' इति च पु.
आप० ध० ३२