आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 266, कुल 399 में से
संदर्भ में पढ़ेंश्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६५
तृतीयमामन्त्रणम् ॥ १३ ॥
आमन्त्रणमाह्वानं भोजनकाले सिद्धमागम्यतामिति तत्तृतीयं भवति॥१३॥
त्रिःप्रायमेके श्राद्धमुपदिशन्ति ॥ १४ ॥
न केवलं निवेदनमेव त्रिर्भवति । किं तर्हि यच्च यावच्च श्राद्धे त
त्सर्वं त्रिरावर्त्यमित्येके मन्यन्ते । अत्र पक्षे होमभोजनपिण्डानामध्य्आ
वृत्तिस्तस्मिन्नेवापराह्णे ॥ १४ ॥
यथाप्रथममेवं द्वितीयं तृतीयं च ॥ १५ ॥
येन प्रकारेण प्रथमश्राद्धं तथैव द्वितीयं तृतीयं च कर्तव्यम् ॥ १५ ॥
सर्वेषु वृत्तेषु सर्वतस्समवदाय शेषस्य ग्रास
वराध्यं प्राश्नीयाद्यथोक्तम् ॥ १६ ॥
सर्वेषु श्राद्धेषु त्रिष्वपि वृत्तेषु समाप्तेषु सर्वतस्त्रयाणां श्राद्धानां य ओद-
नशेषस्ततस्समवदाय ग्रासवराध्यं प्राश्नीयात् यथोक्तं गृह्ये(१) 'उत्तरेण यजुषा
शेषस्य ग्रासवराध्यं प्राश्नीया'दिति । तत्र प्रयोगः(२)पूर्वेद्युर्निवेदनम् ।
तद्वत् परेद्युः प्रातर्भोजनकाले आमन्त्रणं-सिद्धमागम्यतामिति । ततो
होमादिपिण्डनिधानान्तमेकैकमपवृज्य ततः सर्वतस्समवदाय ग्रासाव-
राध्यंस्य(३)'प्राणे निविष्टे'ति प्राशनमिति ॥ १६ ॥
उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् ॥१७॥
प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा ।
विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती ॥'
इति वैयाकरणाः । तस्याः शरावत्या उदक्तीरवर्तिन उदीच्याः ।
तेषां वृत्तिराचार आसनेषूपविष्टानां ब्राह्मणानां हस्तेषूदपात्रादर्घ्य
पात्रादादायाऽर्घ्यदानमिति । (४)पितरिदं तेऽर्घ्यम्, पितामहेदं तेऽर्घ्यं,
प्रपितामहेदं तेऽर्घ्यमिति मन्त्रा आश्वलायनके(५) । यद्यप्युदी
१. आ. प. गृ. २१. ९. २. पूर्वेद्युर्नवावरेभ्यो निवेदन, इति च. पु. ।
३. 'प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म आत्माऽमृतत्वाय' इति मन्त्रः ।
४. 'अमुष्मै स्वधा नम इति गृह्योक्तेन प्रकारेणार्घ्यं दद्यात्' ततस्तिलान् श्राद्धभूमौ
विकिरेत्, इति अधिक पाठो घ. ङ पुस्तकयो. ।
५. आश्व. गृ. ४ ८ ३. ।