आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 256, कुल 399 में से
संदर्भ में पढ़ेंप्रेतोदकदानम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४५
वंश्य एवंनामेति । तथा च मनुः-
(१)'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस्तु जन्मनाम्नोरवेदने ॥' इति ।
य एवंभूताः पुरुषास्तेषां प्रेतेषु मृतेषु उदकोपस्पर्शन मरणनिमित्तं
स्नानं कर्तव्यम् । गर्भान् बालान् अपरिसंवत्सरानपरिपूर्णसंवत्सरान् परि
हाय्य वर्जयित्वा । बालेषु मृतेषु स्नानं न कर्तव्यमिति ॥ २ ॥
मातापितरावेव तेषु ॥ ३ ॥
बालेषु मृतेषु मातापितरावेवोदकस्पर्शन कुर्याताम् ॥ ३ ॥
हतारश्च ॥ ४ ॥
ये च तान् बालान् मृतान् हरन्ति तेऽप्युदकोपस्पर्शनं कुर्युरीति ।
एवमाचार्यस्य पक्षः ॥ ४ ॥
भार्यायां परमगुरुसंस्थायां चाकालभोजनम् ॥ ५ ॥
भार्या पत्नी । परमगुरव आचार्यमातापितरः । संस्था मरणम् । भार्या-
यां संस्थितायां परमगुरूणां च संस्थायां सत्यां न केवलमुदकोपस्पर्शन,
किं तर्हि ? अपरेद्युः आ तस्मात्कालात् अभोजन च ॥ ५ ॥
किं च-
आतुरव्यञ्जनानि कुर्वीरन् ॥ ६ ॥
आतुरत्वं व्यज्यते यैस्तानि च कुर्वीरन् भार्यादिमरणे ॥ ६ ॥
कानि पुनस्तानि ?
केशान्प्रकीर्य पांसुनोप्यैकवाससो दक्षिणामुखास्स-
कृदुपमज्ज्योत्तीर्योपविशन्त्येवं त्रिः ॥ ७ ॥
प्रकीर्य केशान् पांसूनावपन्ति । ओप्य एकवासस अनुत्तरीयाः । दक्षिणामुखाः
दक्षिणां दिशं निरीक्षमाणाः सकृदुपमज्ज्य उदकादुत्तीर्य तीर उपविशन्ति
दक्षिणामुखा एव ॥ ७ ॥
एवं त्रिः ॥ ८ ॥
एवमुक्तप्रकारेण त्रिरुपमज्ज्योपविशेयुः ॥ ८ ॥
१. म. ५. ६०.