सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 262, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 262

श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। २५१
पुमास एव भवन्ति, (१) बहवश्च भवन्ति, न चाऽनपत्यः प्रमीयते जीव-
त्स्वेव पुत्रेषु सन्निहितेषु च स्वयं म्रियते । न तेषु मृतेषु, न देशान्तर
गतेषु, नाऽपि स्वयं देशान्तरं गत इति ॥ ११ ॥
षष्ठेऽध्वशीलोऽक्षशीलश्च ॥ १२ ॥
अध्वशील. पान्थः । अक्षशीलः कितवः ॥ १२ ॥
सप्तमे कर्षे राद्धिः ॥ १३ ॥
कर्षः कृषिः । राद्धि. सिद्धिः ॥ १३ ॥
अष्टमे पुष्टिः ॥ १४ ॥
स्पष्टम् ॥ १४ ॥
नवम एकखुराः ॥ १५ ॥
अश्वादयः ॥ १५ ॥
दशमे व्यवहारे राद्धिः ॥ १६ ॥
व्यवहारो वाणिज्यम्, शास्त्रपरिज्ञानं वा ॥ १६ ॥
एकादशे कृष्णायसं त्रपुसीसम् ॥ १७ ॥
कृष्णमयः कृष्णायसम् । त्रपुसीसे लोहविशेषौ ॥ १७ ॥
द्वादशे पशुमान् ॥ १८ ॥
द्वादश्यां बहवः पशवो भवन्ति ॥ १८ ॥
त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यो
युवमारिणस्तु भवन्ति ॥ १९ ॥
त्रयोदश्यां बहवः पुत्रा मित्राणि च भवन्ति । अपत्यानि च दर्शनी
यानि भवन्ति । किं तु ते पुत्रा युवमारिण युवान एव म्रियन्ते(२) ॥ १९ ॥
चतुर्दश आयुष्ये राद्धिः ॥ २० ॥
संग्रामे जय. ॥ २० ॥
पञ्चदशे पुष्टिः ॥ २१ ॥
१. बहवश्च भवन्ति, भव्याः रूपविद्यादिभिशोभमाना भवन्ति, इति घ. ढ. पु ।
२. 'अयुवमारिण' इत्यन्ये इत्याधिक ख. ङ पु. ।