आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 265, कुल 399 में से
संदर्भ में पढ़ें२६४ आपस्तम्बधर्मसूत्रे [ (प.७.) क. १७.
(१)मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।
दौहित्रं(२) विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥' इति॥६॥
अथाप्युदाहरन्ति ॥ ७ ॥
सम्बन्धिनो न भोज्या इत्यस्मिन्नर्थे धर्मज्ञा वचनमुदाहरन्ति ॥ ७ ॥
सम्भोजनी नाम पिशाचभिक्षा नैषा पितॄन् गच्छति
नोऽथ देवान् । इहैव सा चरति क्षीणपुण्या
शालान्तरे गौरिव नष्टवत्सा ॥ ८ ॥
परस्परं भुञ्जतेऽस्यामिति सम्भोजनी । अधिकरणे ल्युट् । नामेदमस्याः
पिशाचभिक्षायाः । नैषा पितॄन् गच्छति नाऽपि देवान् । किं तु क्षीणपुण्या परलो-
कप्रयोजनरहिता सती इहैव चरति लोके यथा गौर्मृतवत्सा गृहाभ्यन्तर
एव चरति न बहिर्गच्छति तद्वदेतत् ॥ ८ ॥
तद्व्याचष्टे—
इहैव सम्भुञ्जतीति दक्षिणा कुलात्कुलं विनश्यतीति ॥ ९॥
सम्भुञ्जती परस्परभोजनस्य निमित्तभूता दक्षिणा श्राद्धे दानक्रिया
गृहात् गृहं गत्वा इहैव लोके नश्यतीत्यर्थः ॥ ९ ॥
अथ बहुषु तुल्यगुणेषूपस्थितेषु कः परैर्ग्राह्यः ?
तुल्यगुणेषु वयोवृद्धः श्रेयान्द्रव्यकृशश्चेप्सन् ॥ १० ॥
यो वयसा वृद्धस्स तावद्ग्राह्यः । तत्रापि यो द्रव्येण कृशः ईप्सन् लि-
प्समानश्च भवति स ग्राह्यः(३) । अद्रव्यकृशोऽपि अवृद्धोऽपि, द्वयोस्तु
समवाये यथारुचीति ॥ १० ॥
पूर्वेद्युर्निवेदनम् ॥ ११ ॥
श्राद्धदिनात्पूर्वेद्युरेव ब्राह्मणेभ्यो निवेदयितव्यम्—श्वः श्राद्धं भविता
तत्र भवताऽऽहवनीयार्थे प्रसादः कर्तव्य इति ॥ ११ ॥
अपरेद्युर्द्वितीयम् ॥ १२ ॥
अपरेद्युः श्राद्धदिने द्वितीयं निवेदनं कर्तव्यमद्य श्राद्धमिति ॥ १२ ॥
१. म स्मृ. ३. १४८. २. विट्पतिर्जामाता ।
३. यद्वा वयो वृद्धो ग्राह्योऽद्रव्यकृशोऽपि । द्रव्यकृशोऽप्यवृद्धोऽपीति । इति पाठः च. पु. ।