सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

८५६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
विमुक्तिमार्गोऽपीत्यपरे । सोऽपि हि तां क्लेशप्राप्तिं¹ दूरीकरोति ।
विदूषणप्रतिपक्षो येन मार्गेण तं धातुं दोषतो दर्शनाद् विदूषयति । अपि
त्वियमानुपूर्वी² साध्वी भवेत् ।
विदूषणप्रतिपक्षो दुःखसमुद्यालम्बनः प्रयोगमार्गः । प्रहाणप्रतिपक्षः सर्व
आनन्तर्यमार्गः । आधारप्रतिपक्षो विमुक्तिमार्गः । दूरीभाव प्रतिपक्षो विशेषमार्ग
इति ।
प्रहीयमाणः क्लेशः कुतः प्रहातव्यः ?
प्रहातव्यः क्लेश आलम्बनात् मतः ॥ ६१ ॥
न हि सम्प्रयोगात् क्लेशो विवेचयितुं शक्यते । आलम्बनाच्च शक्यते;
यस्मान्न पुनस्तदालम्ब्योत्पद्यते । अनागतस्तावच्छक्येतालम्बनाद् विवेचयितुम्,
अतीतस्तु कथम् ? अथालम्बनपरिज्ञानात् प्रहातव्य इत्ययमस्यार्थः ? एषोऽपि
इति । योऽसौ विमुक्तिमार्गः—दुःखे धर्मज्ञानम्, तस्मात् परेण यो मार्गो
दुःखेऽन्वयज्ञानक्षान्त्यादिः, स दूरीभावप्रतिपक्ष इति दर्शयति ।
विमुक्तिमार्गोऽपीत्यपर इति । स चाप्याद्यो विमुक्तिमार्गो दूरीभावप्रतिपक्ष
इत्युच्यते । सोऽपि हि तां क्लेशप्राप्ति दूरीकरोति । एवं च सति विमुक्तिमार्ग
आधारप्रतिपक्षो दूरीभावप्रतिपक्ष इति वचनमद्वयं लभत इत्युक्तं भवति । तं
धातुं दोषतो दर्शनात् विदूषयतीति । अनित्यादिभिराकारैर्यैन तं धातुं विदूषय-
तीत्यर्थः । तदेवं सति योऽपि दुःखसमुदयालम्बनः प्रहाणप्रतिपक्षः, स चापि
विदूषणप्रतिपक्ष इति दर्शितं भवति । अपि त्वियमानुपूर्वी साध्वी भवेदित्याचार्यः ।
सोपानन्यायसमाश्रयात्, लक्षणासाङ्कर्याच्चेयमानुपूर्वी साध्वीति दर्शयति ।
दुःखसमुद्यालम्बनः प्रयोगमार्ग इति । प्रयोगमार्ग एवोष्मगतादि गृह्यते,
नानन्तर्यमार्गादि ; प्रहाणप्रतिपक्षादित्वेन तद्व्यवस्थापनात् । सर्वानन्तर्यमार्ग
इति । पश्चात्कालीनोऽपि योऽन्यः । विमुक्तिमार्गः सर्व इत्येव चाधिक्रियते ।
विशेषमार्गस्तु य एतत्त्रयव्यतिरिक्तः, स इह गृह्यते ।
न हि सम्प्रयोगात् क्लेशो विवेचयितुं शक्यते इति । स्वकलापाद् विवेचना-
शक्यत्वात् । अनागतस्तावच्छक्यत आलम्बनाद् विवेचयितुम् । विवेचितस्य तस्य
न पुनस्तद् वस्त्वालम्ब्योत्पत्तिरित्यतः कारणात् । अतीतस्तु कथम् । यद्वस्त्वा-
लम्ब्योत्पन्नः, न ह्यालम्बितं वस्त्वालम्बनीकर्तुं शक्यते । एषोऽपि नैकान्त इति ।
१. प्राप्ति—का० । २. त्वेषामिय०—का० ।

निर्देशः ] पञ्चमं कोशस्थानम् ८५७
नैकान्तः। तस्माद् वक्तव्यमेतत्—कियता क्लेशः प्रहीणो वक्तव्यः ? स्वासान्तानिकः
प्राप्तिच्छेदात् । पारसान्तानिकस्तु क्लेशः सर्वं च रूपमक्लिष्टश्च धर्मः; तदालम्बन-
स्वासान्तानिकक्लेशप्रहाणात् ॥ ६१ ॥
चतुर्भिः प्रकारैः क्लेशानां क्षय इष्यते—
आलम्बनपरिज्ञानात् तदालम्बनसंक्षयात् ।
आलम्बनप्रहाणाच्च प्रतिपक्षोदयात् क्षयः ॥ (अभि० को० ५.६०)
इति । तस्मात् आलम्बनपरिज्ञानादिति नायमेकान्तः । तस्माद् वक्तव्यमेतदिति ।
प्रतिज्ञातमुच्यत इत्यर्थः ।
अत्राचार्यसङ्घभद्रः परिहरति—आलम्बनात् क्लेशाः प्रहातव्याः । आलम्बन-
परिज्ञानबलेन हि क्लेशाः प्रहीयन्ते । द्विविधं चानुशयालम्बनम्—संयोगवस्तु,
असंयोगवस्तु च । तत्र संयोगवस्तुविषयाणामनुशयानां तदनुशयबलोत्पादिताना-
मतद्विषयाणामपि पुद्गलस्य सन्ताने प्राप्तिः अक्लिष्टचित्तेष्वप्यविच्छेदेन
प्रवृत्तः अनागतातीतक्लेशहेतुफलभूता । एवम् असंयोगवस्तुविषयाणाम्, अत-
द्विषयाणामपि च तद्विषयक्लेशपृष्ठसमुदाचारिणां क्लेशानां प्राप्तिर्वेदितव्या । स
ह्यनागतानामुत्पत्तौ प्रत्ययगमाद्धेतुभूता भवति । अतीतानां च निष्यन्दभावात्
फलभूता । सा च तत्प्रहाणप्रतिपक्षनिष्यन्दप्राप्तिसमवधानविरुद्धा; तदाधारित्वात्
क्लेशानाम् । अतो येनालम्बनेनोत्पन्नाः क्लेशा अन्यालम्बनानपि क्लेशान्
प्रवर्त्तयन्ति, तदालम्बनप्रहाणप्रतिपक्षनिष्यन्दोत्पत्तौ तत्प्राप्तिविगमे ते क्लेशा-
न्तराणि अपि सन्तो हेतुफलापक्रान्ता प्रहीणा इत्युच्यन्ते । तद् यस्मात्-
पश्चात्ते कस्मिंश्चित् क्लेशविषयेऽतद्विषयाणामपि क्लेशानां तद्विषयक्लेशबले-
नाप्ताः सन्तोऽनागतातीतक्लेशहेतुफलभूता सन्ततौ प्रवर्त्तन्ते यथावस्तु । तस्माद्
आलम्बनात् क्लेशाः प्रहातव्या इत्यभिमतमिति ।
ननु च तदालम्बनप्रहाणादिभिरपि क्लेशाः प्रहीयन्त इत्यभिप्रेतम्,
किमिदमुक्तम्—आलम्बनपरिज्ञानबलेन क्लेशाः प्रहीयन्त इति ? तेऽपि
दुःखसत्यादिपरिज्ञानबलेनैव प्रहीयन्ते । तद्भावाभावयोगे तद्भावाभावयोगात् ।
येषामपि हि प्रतिपक्षोदयात् प्रहाणमुच्यते, तेऽपि भावनाहेयाः । क्लेशा
आलम्बनदुःखसत्यादिपरिज्ञानबलेनैव प्रहीयन्ते—इत्यवगन्तव्यम् । व्यवस्था-
मात्रं तु तद्, यदुक्तम् । तदालम्बनप्रहाणादिभिरपि क्लेशाः प्रहीयन्ते—
ऽभिप्रायो लक्ष्यते ।
स्वासान्तानिकः प्राप्तिच्छेदादिति । विस्तरः—स्वसन्तानक्लेशाः प्राप्तिविगमात्
प्रहीणो वक्तव्यः । परसन्तानक्लेशास्तु न प्राप्तिच्छेदात् ; स्वसन्ताने तत्प्राप्त्य-
भावात् । किं तर्हि ? तदालम्बनस्वासान्तानिकक्लेशप्रहाणात् । पारसान्तानिक-

८५८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
दूरीभाव इत्युच्यते, कतिविधो दूरीभावः ? चतुर्विधा किल दूरता ।
वैलक्षण्याद् विपक्षत्वाद् देशविच्छेदकालतः ।
भूतशीलप्रदेशाध्वद्वयानामिव दूरता ॥ ६२ ॥
१. विलक्षणदूरता, यथा महाभूतानाम् । वैलक्षण्यात् सहजानामपि
दूरता ।
२. विपक्षदूरता, यथा शीलस्य दौःशील्यम् ।
३. देशविच्छेददूरता, यथा विप्रकृष्टदेशानां देशविच्छेदात् पूर्वपश्चिम-
समुद्रवत् ।
४. कालदूरता, यथा अतीतानागतदूरमुच्यते । कुतस्तद् दूरम् ?
वर्तमानात् ।
यदनन्तरातीतमुत्पद्यमानं च¹ तत् कथं दूरम् ? अध्वनानात्वेन तद् दूरं न
चिरभूतभावित्वेन । वर्तमानमप्येवं दूरं प्राप्नोति ? अकारित्रात् तर्हि तद् दूरम् ।
क्लेशालम्बनस्वासान्तानिकप्राप्तिच्छेदादित्यर्थः । सर्वं रूपं कुशलाकुशलाव्या-
कृतम् । अक्लिष्टाश्च धर्मा इत्यरूपी कुशलास्रवम्, अनिवृताव्याकृतश्च सः ।
तथैव तदालम्बनस्वासान्तानिकक्लेशप्रहाणात् प्रहीणो वक्तव्य इति ॥ ६१ ॥
"भूतशीलप्रदेशाध्वद्वयानामिव² दूरता" इति । इवशब्दाेऽत्रोदाहरणम् ।
तद्यथार्थे द्रष्टव्यः । वैलक्षण्यात् लक्ष्णदूरता । तद्यथा—भूतानाम् । भिन्नलक्षणो
हि पृथिवीधातोरब्धातुः, तस्मात् पृथिवीधातोरब्धातुर्दूरे भवति । विपक्षत्वाद्
विपक्षदूरंता । तद्यथा—शीलस्य दौःशील्यम् । देशविच्छेदाद् देशदूरता । तद्यथा—
प्रदेशस्य पश्चिमसमुद्रस्य पूर्वसमुद्रात् । कालतः कालदूरता । तद्यथा—अध्वद्वय-
स्यातीतानागतलक्षणस्य । तद्धि अतीतानागतं दूरमुच्यते । क्वोच्यते ? अभि-
धर्मे । एवं ह्याह—"दूरेधर्मा कतमे ? अतीतानागता धर्माः । सन्तिकेधर्माः
कतमे ? प्रत्युत्पन्नाः धर्माः, असंस्कृतं च" इति । तद् दूरमिति । अतीतानागतम् ।
उत्पद्यमानं चेति । उत्पादाभिमुखम्, अनागतं चेत्यर्थः । न चिरभूतभावि-
त्वेनेति । न चिरभूतत्वेनातीसम्, नापि चिरभावित्वेनागतं दूरमित्यर्थः ।
वर्तमानमप्येवं दूरं प्राप्नोति । अध्वनानात्वेन प्रत्युत्पन्नाख्यतया³ वर्तमानमपि
एवं दूरं प्राप्नोति । यथा अतीतानागतमतीतानागताध्वतया । अकारित्रात् तर्हि
१. वा—का० । २. भूत्वा शील०—जा० । ३. ०ख्याऽध्व०—जा० ।

असंस्कृतस्य कथमन्तिकत्वं सिध्यति ? सर्वत्र तत्प्राप्तेः । अतीतानागतेऽपि
प्रसङ्गः¹ । आकाशं च कथम् ? एवं तर्ह्यतीतानागतमन्योन्यं वर्त्तमानव्यवहित-
त्वाद् दूरम् । वर्त्तमानमुभयोरासन्नत्वादन्तिकम् । असंस्कृतं चाप्यव्यवहितत्वा-
दिति । एवमप्यतीतानागतं वर्त्तमानस्यान्तिकत्वादुभयं प्राप्नोति ?
एवं तु युक्तं स्यात्—धर्मस्वलक्षणादनागतं दूरमसम्प्राप्तत्वात्, अतीतं च
प्रच्युतत्वादिति ॥ ६२ ॥
किं मार्गविशेषगमनात् क्लेशानां पुनः प्रहाणविशेषो भवति ? नैतदस्ति ।
सर्वेषां हि क्लेशानाम्—
तद् दूरमिति । उपरतकारित्रमतीतम्, अप्राप्तकारित्रमनागतमिति तदतीतानागतं
दूरमुच्यते ।
असंस्कृतस्य कथमन्तिकत्वमिति । तस्य कारित्राभावादन्तिकत्वं न स्यात्,
तच्चेष्यते “अन्तिकेधर्माः कतमे ? प्रत्युत्पन्ना धर्माः, असंस्कृतं च” इति शास्त्र-
पाठात् । सर्वत्र तत्प्राप्तेरिति । सर्वत्र देशे तस्यासंस्कृतस्य प्रतिसंख्यानिरोधस्य
प्राप्युत्पादात् । अतीतानागतेऽपि प्रसङ्ग इति । कुशलादेरतीतानागतस्य
सर्वत्र देशे प्राप्तिः संभवतीति अतीतानागतेऽपि अन्तिकत्वप्रसङ्गः ।
आकाशं च कथमिति । आकाशं च कथमन्तिकम्, न हि तस्य प्राप्तिरस्तीति ?
अतीतानागतमन्योन्यमिति । अतीतादनागतं दूरम् । अनागताच्चातीतं दूर-
मित्यर्थः । असंस्कृतं चाव्यवहितत्वादिति । न केनचिद् व्यवहितम् । यथा
वर्त्तमानेनातीतानागतमिति, एवं तस्यान्तिकत्वम् ।
एवमपीति । अस्यामपि कल्पनायाम् । यदनन्तरमतीतानागतम्, तद्ध्यतीतम्,
वर्त्तमानान्तरितत्वाद् अनागताद् दूरम् । वर्त्तमानाच्चाव्यवहितत्वादन्तिकमिति
प्राप्नोति । इत्येवमनागतमपि नेयम् ।
एवं तु युक्तं स्यादिति । स्वमतमाचार्यस्य । धर्मस्वलक्षणादनागतं दूरम् ।
कस्मात् ? असम्प्राप्तत्वात् । यस्मादनागतेन स्वलक्षणं न सम्प्राप्तमिति । अथवा—
यस्मात् तत् स्वलक्षणमसम्प्राप्तम् = अनुपस्थितमिति । अतीतं च । किं धर्मस्व-
लक्षणाद् दूरम्, तत्प्रच्युतत्वात् । यस्मात् तद्धर्मस्वलक्षणं तस्मादतीतात्
प्रच्युतम् । तद्ध्यतीतं यद् धर्मस्वलक्षणात् प्रच्युतमिति ॥ ६२ ॥
“प्रतिपक्षोदयात् क्षयः” (अभि० को० ५.६०) इत्युक्तम्, अथ पृच्छति—
किं मार्गविशेषगमनादिति । विस्तरः—प्रहाणविशेष इति । विशिष्यते प्रहाण-
मित्यर्थः ।
१. तत्प्रसङ्गः—का० ।

सकृत् क्षयः,
यस्य यः प्रहाणमार्गस्तेनैव तस्य क्षयः ।
विसंयोगलाभस्तेषां पुनः पुनः ।
कतिषु कालेषु ? इत्याह—षट्सु कालेषु !
प्रतिपक्षोदयफलप्राप्तीन्द्रियविवृद्धिषु ॥ ६३ ॥
प्रतिपक्षो विमुक्तिमार्ग एतस्मिन्नभिप्रेतः, फलानि चत्वारि श्रामण्यफलानि,
इन्द्रियविवृद्धिरिन्द्रियसंचारः—एतेषु कालेषु क्लेशस्य विसंयोगलाभः ।
स पुनरेष यथायोगं द्रष्टव्यः । केषाञ्चित् षट्सु कालेषु, केषाञ्चिद्
यावद् द्वयोः ॥ ६३ ॥
प्रतिपक्षो विमुक्तिमार्गे एतस्मिन्नभिप्रेत इति । तस्य विसंयोगप्राप्ति-
सहोत्पादानन्तर्यमार्गे हि न तावत् विसंयोगप्राप्तिरस्ति ; उत्पादाभिमुख्यत्वात् ।
विमुक्तिमार्गोऽपि हि प्रतिपक्ष इति शक्यते व्यवस्थापयितुम् । मुख्यप्रतिपक्षेणा-
नन्तर्यमार्गेण सहैककार्यत्वात् । तथा ह्युक्तम्—'उभयाभ्यां हि तस्य प्राप्तिर्वि-
संयोगप्राप्तेरावाहकसंनिश्रयत्वाद्' इति । फलानि चत्वारीति । चतुर्ग्रहण-
मेकाभवतिफलप्रतिपत्तिनिरासार्थम् । पुरुषकारादिपञ्चफलप्रतिपत्तिनिरासार्थे
वा । फलप्राप्तिरपि विमुक्तिमार्गावस्थायामेव गृह्यते, विसंयोगलाभास्तित्वयोगात्
इन्द्रियविवृद्धिरिन्द्रियसञ्चार इति । इन्द्रियाधिक्यप्रतिपत्तिनिरासार्थमेतदर्थ-
प्रदर्शनम् 'इन्द्रियविवृद्धिः' इत्युच्यते ।
फलप्राप्तिवचनेनैव सिद्धिः—इत्याचार्यसङ्घभद्रः । अत्र ब्रूमः—सत्यं फलप्राप्ति-
रेवेन्द्रियविवृद्धिः, फलप्राप्तिविशेषस्तु प्रदर्शयितव्यो यत्र पुनर्बिसंयोगफललाभो
भवति । अन्यथा हि फलप्राप्तिवचनमपि न कर्तव्यं स्यात् ; प्रतिपक्षोदयवचनेनैव
तत्सिद्धेः । इत्यलमनया खण्डिकया ।
केषाञ्चित् यावद् द्वयोरिति । केषाञ्चित् क्लेशानां षट्सु, केषाञ्चित्
त्रिषु, केषाञ्चिद् द्वयोरिति । 'केषाञ्चिदेकस्मिन् काले' इति नोक्तम्; पुनः-
प्राप्तस्य विसंयोगस्याधिकृतत्वात् । सम्भवति हि भावाग्रिक

निर्देशः ] पञ्चमं कोशस्थानम् ८६१
स एव विसंयोगास्तासु तास्ववस्थासु परिज्ञासंज्ञां लभते । द्वे हि परिज्ञे—
ज्ञानपरिज्ञा, प्रहाणपरिज्ञा च । तत्र ज्ञानपरिज्ञा सास्रवं ज्ञानम् । प्रहाणपरिज्ञा तु
प्रहाणमेव । फले हेतूपचारात् ।
किमेकैव परिज्ञा सर्वप्रहाणम् ? नेत्याह । किं तर्हि ?
न हि मृद्विन्द्रियोऽवश्यासेन्द्रियाणि सञ्चरति । तस्यैव मृद्विन्द्रियस्य रूपारूप्या-
वचराणां मार्गदर्शनहेयाना मार्गान्वयज्ञानकाले प्रतिपक्षोदयकाल इति वा,
फलप्राप्तिकाल इति वा गृह्यते प्रथमो विसंयोगलाभः । पुनः सकृदागामिफल-
प्राप्तिकाले यावद् इन्द्रियसञ्चारकाले इति पञ्चसु फलेषु । भावनाहेयानामपि
तस्यैव कामावचराणां पञ्च प्रकाराणामधिमात्राधिमात्रस्य यावन्मध्यस्य तेष्वेव
स्रोतआपत्तिफलकालवर्ज्येषु पञ्चसु कालेषु विसंयोगलाभः । मध्यमेदस्तु षष्ठस्य
प्रकारस्य तस्यैव चतुर्षु कालेषु प्रतिपक्षोदयफलप्राप्तिकालयोरेकत्वात् । तस्मिन्
अन्यतरस्मिन् । अनागामिफलकाले, अर्हत्त्वफलप्राप्तिकाले, इन्द्रियसञ्चारकाले
चेति । तस्यैव मृद्वधिमात्रस्य मृदुमध्यस्य च सप्तमाष्टमयोः प्रकारयोः प्रति-
पक्षोदयकाले, अनागामिफलकाले यावद् इन्द्रियसञ्चारकाले वेति चतुर्षु
एव कालेषु विसंयोगलाभः । तस्यैव मृदुमृदोरन्त्यस्य प्रकारस्य प्रतिपक्षोदयकाल
इति वा फलप्राप्तिकाल इति वैकतरस्मिन् अर्हत्त्वफलकाले इन्द्रियसञ्चारकाले
चेति त्रिषु कालेषु विसंयोगलाभः । तस्यैवार्हत्त्वफलं प्राप्नुवतो ये नवप्रकारा
रूपारूप्यावचराः क्लेशा भावनाप्रहातव्याः प्रहीणा अधिमात्राधिमात्रो याव-
न्मृदुमृदुरिति । तेषां भावाग्रिकं मृदुमृदुप्रकारमन्त्यं हित्वा सर्वेषां त्रिष्वेव कालेषु
विसंयोगलाभः—प्रतिपक्षोदयकाले, अर्हत्त्वफलकाले, इन्द्रियसंचारकाले चेति ।
यस्त्वस्यैवारूप्यावचरो मृदुमृदुरन्त्यः क्लेशप्रकारः, तस्य प्रतिपक्षोद्यार्हत्त्वफल-
प्राप्तिकालैकत्वात् प्रतिपक्षोदयकाल इति वा अर्हत्त्वफलकाल इति वा, अन्य-
तरस्मिन् इन्द्रियसञ्चारकाले चेति द्वयोः कालयोर्विसंयोगलाभ इति । एवं
तावन् मृद्विन्द्रियस्योक्तम् ।
तीक्ष्णेन्द्रियस्य पुनः केषाञ्चित् क्लेशानां पञ्चसु कालेषु । केषाञ्चित्
यावद् द्वयोरिति वक्तव्यम् । इन्द्रियसञ्चारकालमेकमपास्य । तस्य हि सर्वत्रे-
न्द्रियसञ्चारो नास्ति । तस्यैकस्मिन् एव काले क्लेशानां विसंयोगलाभोऽस्ति ।
भावाग्रिकस्य भावनाहेयस्य मृदुमृदोः प्रकारस्य । स तु पुनर्लाभो न भवतीति न
वक्तव्यः—इति पश्यामः ॥ ६३ ॥
फले हेतूपचारादिति । प्रहाणं फलं परिज्ञा ज्ञानस्वभावो हेतुः, तस्मिन्
प्रहाणे फले हेतूपचारः—प्रहाणं परिज्ञेति । तद्यथा—"षडिमानि स्पर्शायतनानि
पूर्वमभिसंस्कृतानि अभिसञ्चेतितानि पौराणं कर्म वेदितव्यम्" ( ) इति ।

" ( ) इति विस्तरः ।
“कामाद्यप्रकारद्वयसंक्षयः” इति ।
“अनास्रववियोगाप्तेर्भवा!प्रविकलीकृतेः ।
हेतुद्वयसमुद्घातान् परिज्ञा धात्वतिक्रमात्” । (अभि० को० ५.६८)
इत्यत्र परिज्ञाव्यवस्थापने कारणं वक्ष्यते ।
१. इत आरभ्य षट्षष्टितमकारिकायाः तृतीयपादपर्यन्तं स्फुटार्था संस्कृत-
भाषायां नोपलब्धा इति मन्ध्येल्लिखित एव—सं० ।

Looks very accurate and complete.८६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [अनुशय-
परिज्ञा नव,
तत्र तावत् ,
कामाद्यप्रकारद्वयसंक्षयः ।
एका,
कामधातावाद्यस्य प्रकारद्वयस्य दुःखसमुदयदर्शनहेयस्य प्रहाणमेका
परिज्ञा ।
द्वयोः क्षये द्वे ते,
कामधातावेव निरोधदर्शनहेयस्य प्रकारस्य प्रहाणमेका परिज्ञा । मार्गदर्शन-
[L1

। निर्देशः ] पञ्चमं कोशस्थानम् ८६३
कस्माद् रूपारूप्यावचराणां भावनाहेयानां प्रहाणं पृथक् परिज्ञा, न दर्शनहेया-
नाम् ? भावनाहेयानामतुल्यप्रतिपक्षत्वात् । इत्येता नव परिज्ञाः ।
आसां पूर्विकाः
षट् क्षान्तिफलम्,
या एवं दर्शनहेयप्रहाणस्वभावाः ।
ज्ञानस्य शेषिताः ॥ ६५ ॥
अवरभागीयप्रहाणादिपरिज्ञा भावनामार्गत्वात् ॥ ६५ ॥
कथं क्षान्तिफलं परिज्ञा भवन्ति ? क्षान्तीनां ज्ञानपरिवारत्वात् । राज-
परिवारे राजोपचारवत् । ज्ञानैकफलत्वाच्च ।
अनागम्यफलं सर्वा ध्यानानां पञ्च वाथ वा ।
अष्टौ,
वैभाषिकमतेन मौलध्यानफलं पञ्च परिज्ञा या रूपारूप्यावचरक्लेश-
प्रहाणस्वभावाः; कामावचरक्लेशप्रहाणस्यानागम्यफलत्वात् ।
भदन्तघोषकस्य मतेनाष्टौ । स हि वीतरागस्यापि कामावचराणां दर्शन-
हेयानां प्रहाणं दर्शनमार्गफलमिच्छति, अनास्रवविसंयोगप्राप्तिलाभात् ।
अवरभागीयप्रहाणपरिज्ञा त्वनागम्यफलमेव । ध्यानान्तरं ध्यानवद् द्रष्टव्यम् ।
आरूप्याणां तु
सामन्तकस्यैका,
आकाशानन्त्यायतनसामन्तकस्यैका रूपरागक्षयपरिज्ञा फलम् ।
अवरभागीयप्रहाणमिति कामधात्वास्रवप्रहाणमित्यर्थः । इयमेव चास्य
संज्ञा । रूपास्रवप्रहाणमिति । रूपधात्वास्रवप्रहाणमित्यर्थः । रूपरागक्षयपरिज्ञेति
अस्य नाम । यद्यपि अन्येषां क्लेशोपक्लेशानां मानादीनां रूपावचराणां
प्रहाणम्—इयं परिज्ञा व्यवस्थाप्यते । रागस्य तु तत्र प्राधान्याद् ऊर्ध्वभागी-
यस्य संयोजनस्य प्रहाणं रूपरागक्षयपरिज्ञेत्युक्तम् । सर्वसंयोजनपर्यादान···
···ध्यानान्तरं भवतीति । आकाशानन्त्यायतनसामन्तकस्येति । लौकिकस्यापि
तस्य परिज्ञा फलं व्यवस्थाप्यते; आर्यस्यैवानास्रवविसंयोगप्राप्तिसम्भवात् ।

८६४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
मौलारूप्यत्रयस्य च ॥ ६६ ॥
मौलानां च त्रयाणामारूप्याणामेकैव सर्वसंयोजनपर्यादानपरिज्ञा फलम् ॥ ६६ ॥
आर्यमार्गस्य सर्वाः,
नव परिज्ञाः फलम् ।
द्वे लौकिकस्य,
लौकिकस्य मार्गस्य द्वे अवरभागीयस्रूपरागक्षयपरिज्ञे फलम् ।
अन्वयस्य च ।
अन्वयज्ञानस्यापि द्वे परिज्ञे फलं पश्चिमे ।
धर्मज्ञानस्थ तिस्रस्तु,
पश्चिमा एव त्रैधातुकभावनाहेयप्रतिपक्षत्वात् ।
षट् तत्पक्षस्य पञ्च वा ॥ ६७ ॥
धर्मज्ञानस्य षट् परिज्ञाः फलम् , या एव धर्मज्ञानक्षान्तिज्ञानानाम् । अन्वय-
“मौलारूप्यत्रयस्य च” इति। अनास्रवस्य ॥ ६६ ॥
लौकिकस्य मार्गस्य द्वे इति। आर्यस्य लौकिकेन मार्गेण काम-रूपधातु-
वैराग्य ।
अन्वयज्ञानस्यापि द्वे इति। भावनामार्गसंगृहीतस्य । पश्चिमे रूपरागक्षय-
सर्वसंयोजनपर्यादानपरिज्ञे ।
“धर्मज्ञानस्य तिस्रः” इति । भावनामार्गसंगृहीतस्य ।
“धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथे ।
त्रिधातुप्रतिपक्षस्तद्” (अभि० को० ७.६९) इति ।
तस्य पश्चिमास्तिस्रः फलम् । अवरभागीयप्रहाणरूपरागक्षयसर्वसंयोजन-
पर्यादानपरिज्ञाः । कस्माद् ? इत्याह—त्रैधातुकभावनाहेयप्रतिपक्षत्वादिति ।
“षट् तत्पक्षस्य पञ्च वा” इति । तयोर्धर्मज्ञानान्वयज्ञानयोः पक्षस्य । षट्
पञ्च च यथायोगम् । पक्षग्रहणेन क्षान्ति-ज्ञानयोर्ग्रहणम् ।
या एव धर्मज्ञान-क्षान्तिज्ञानानामिति । धर्मज्ञानक्षान्तीनां धर्मज्ञानानां
चेति समासः । धर्मज्ञानक्षान्तीनां कामावचरदर्शनहेयप्रहाणस्वभावा
यथोक्तास्तिस्रः परिज्ञाः फलम् । धर्मज्ञानानामिति भावनामार्गे ।
दुःखसमुदयज्ञानसंगृहीतानामेका अवरभागीयप्रहाणपरिज्ञा । निरोधमार्ग-
संगृहीतानां तु तिस्रोऽप्यवरभागीयप्रहाणरूपरागक्षयसर्वसंयोजनपर्यादान-

निर्देशः ] पञ्चमं कोशस्थानम् ८६५
ज्ञानपक्षस्य पञ्च, या एवान्वयक्षान्तिज्ञानानाम् । पक्षग्रहणेन हि क्षान्तिज्ञानानि
गृह्यन्ते ॥ ६७ ॥
कस्मान्नैकैकं प्रहाणं परिज्ञा व्यवस्थाप्यते ? यस्मात् क्षान्तिफलं तावत्
प्रहाणं व्यवस्थाप्यते ।
अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः ।
हेतुद्वयसमुद्घातात् परिज्ञा,
यत्रैतानि त्रीणि कारणानि भवन्ति तत् प्रहाणं परिज्ञोच्यते । पृथग्जनस्य
तावदनास्रवा विसंयोगप्राप्तिर्नास्ति भवाग्रविकलीकरणं चेति नास्य प्रहाणं
परिज्ञाख्यां लभते । आर्यस्यापि यत् क्षान्तिफलं तावत् प्रहाणम् । तत्र तावद्
दुःखेऽन्वयज्ञानक्षान्तावनास्रवा विसंयोगप्राप्तिरस्ति, न तु भवाग्रविकलीकृतम् ।
दुःखेऽन्वयज्ञाने उभयमस्ति, न तु हेतुद्वयसमुद्घातः । समुदयदर्शनप्रहातव्यस्य
सर्वत्रगहेतोरप्रहीणत्वात् । अन्येषु धर्मान्वयज्ञानेषु सर्वं त्रयमस्ति । अतस्तास्व-
वस्थासु प्रहाणं परिज्ञाख्यां लभते । ज्ञानफलं तु प्रहाणम् । अतश्च कारणत्रयात्
परिज्ञाख्यां लभते । चतुर्थाच्च—
पर्यादानपरिज्ञाः । या एवान्वयक्षांन्तिज्ञानानामिति । अन्वयज्ञानक्षान्तीनाम्,
अन्वयज्ञानानां च । ताश्च रूपारूप्यावचरदर्शनहेयप्रहाणस्वभावा यथोक्तास्तिस्रः
परिज्ञाः, द्वे च पश्चिमे इति ॥ ६७ ॥
कस्मान्नैकैकं प्रहाणमिति । दुःखदर्शनहेयप्रहाण-समुदयदर्शनहेयप्रहाणं
विस्तरेण यावद् भावाग्रिकस्य मृदुमृदोः प्रकारस्य प्रहाणमिति कस्मान्न गृह्यते ?
“अनास्रववियोगाप्तेः” इति । अनास्रवविसंयोगप्राप्तेरित्यर्थः ।
“भवाग्रविकलीकृतेः” इति । भवाग्रप्रदेशप्रहाणादित्यर्थः ।
“हेतुद्वयसमुद्घाताद्” इति । दुःखसमुदय-दर्शनहेयसर्वत्रगहेतुद्वयप्रहाणा-
दित्यर्थः ।
तत्प्रहाणं परिज्ञेति । एभिः कारणैः प्रकृष्टं तत्प्रहाणमित्यत्र परिज्ञेति
व्यवस्थाप्यत इत्यभिप्रायः । अन्येषु धर्मान्वयज्ञानेष्विति । समुदयधर्मज्ञानमारभ्य
यावत् क्षयज्ञानमित्येतेषु धर्मज्ञानान्वयज्ञानेषु । ज्ञानफलं तु प्रहाणमिति ।
भावनामार्गे । तद्धि न क्षान्तिफलमिति ।
१. च—का० ।

८६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
धात्वतिक्रमात् ।। ६८ ।।
यदा धातुं समतिक्रामति । कृत्स्नधातुवैराग्यात् उभयसंयोगविसंयोगपञ्चमं¹
कारणमाहुराभिधर्मिकाः² । यः प्रकारः प्रहीणो यदि तत्रान्येन तदालम्बनेन
क्लेशेन विसंयुक्तो भवतीति ।
स तु नान्यत्³ उभयहेतुसमुद्घातात् धातुसमतिक्रमाच्चेति न ब्रूमः ।। ६८ ।।
कः कतिभिः परिज्ञाभिः समन्वागतः ?
नैकया पञ्चभिर्यावद् दर्शनस्थः समन्वितः ।
पृथग्जनस्तावन्नैव समन्वागतः । आर्योऽपि दर्शनमार्गस्थो यावत्समुदय-
“धात्वतिक्रमात्” इति। च-शब्दो लुप्तनिर्देशः। धात्वतिक्रमाच्चेति।
अत एव विव्रियते—चतुर्थाच्चेति । यदा धातुं समतिक्रामति । कामधातुं
वा समतिक्रामति, तदा परिज्ञाख्यां लभते—इति वाक्यशेषः । कस्मात् ?
कृत्स्नधातुवैराग्यात् । कृत्स्नस्य धातोर्वैराग्यात्, न विकलीकरणमात्रत्वात् ।
तदा हि सुष्ठु प्रहाणमित्यभिप्रायः ।
उभयसंयोगविसंयोगमिति । आलम्ब्यालम्बकक्लेशलक्षणः संयोगः =
उभयसंयोगः । तस्माद् विसंयोगः = उभयसंयोगविसंयोगः । तत्पञ्चमं कारण-
माहुराभिधर्मिकाः । अनेन च कारणेन प्रहाणं परिज्ञेत्युच्यते इति ।
यः प्रकारः प्रहीण इति । दुःखदर्शनप्रहातव्यो यावन् मार्गदर्शनप्रहातव्यो
भावनाप्रहातव्यश्च । यदि तत्र प्रहीणे प्रकारे, अन्येन तदालम्बनेन क्लेशेन
दर्शनप्रहातव्येन भावनाप्रहातव्येन विसंयुक्तो भवति । एवमिदमपि पञ्चमं
कारणं प्रहाणस्य परिज्ञाविधाने आहुरपरे ।
स तु नान्यदिति विस्तरः । स तूभयसंयोग उभयहेतुसमुद्घातात् दुःखदर्शन-
प्रहातव्यस्य समुदयदर्शनप्रहातव्यस्य च सर्वत्रगहेतोः समुद्घाताद् धातुसमति-
क्रमाच्च नान्यः । तथा हि दुःखदर्शनप्रहातव्येषु प्रहीणेष्वपि न तावदस्ति हेतु-
द्वयसमुद्घातो यावत्तदालम्बनः समुदयदर्शनप्रहातव्यः सर्वत्रगहेतुरप्रहीणो
भवति । भावनाप्रहातव्येषु च प्रहीणेष्वपि यावदष्टासु प्रकारेषु न तावद्
धात्वतिक्रमोऽस्ति, यावन्न नवमस्यापि प्रकारस्य प्रहाणमित्यतो न
पुनर्ब्रूमः ॥ ६८ ॥
नैकयेति । विस्तरः—पृथग्जनस्तावन्नैव समन्वागतः । अनास्रवं विसंयोग-
१. °वियोगं-का० । २. ॰माहुरपरे—का० । ३. नान्यस्य—का० ।

निर्देशः ] पञ्चमं कोशस्थानम् ८६७
धर्मज्ञानक्षान्तौ¹ नैव समन्वगतः । समुदयधर्मज्ञान एकया समन्वगतः ।
समुदयान्वयज्ञाने द्वाभ्याम्, निरोधधर्मज्ञाने² तिसृभिः, निरोधान्वयज्ञाने चतसृभिः,
मार्गधर्मज्ञाने पञ्चभिः ।
भावनास्थः पुनः षड्भिरेकया वा द्वयेन वा ॥ ६९ ॥
भावनामार्गस्थः पुनरार्यपुद्गलो मार्गान्वयज्ञाने षड्भिः परिज्ञाभिः समन्वगतो
यावत् कामवैराग्यं न प्राप्तः । परिहीणोऽपि ततः कामवैराग्यं प्राप्तः पूर्वं
पश्चाद् वा एकया अवरभागीयप्रहाणपरिज्ञया । अर्हत्त्वप्राप्तौ⁴, एकयैव सर्व-
प्राप्त्यभावात् । आर्योऽपि दर्शनमार्गस्थो यावत् समुदयधर्मज्ञानक्षान्तौ ।
यावच्छब्देन दुःखमन्वयज्ञानक्षान्तिज्ञानेषु समुदयधर्मज्ञानक्षान्तौ च नैव
समन्वगतः । हेतुद्वयस्याप्रहीणत्वात् । समुदयधर्मज्ञान एकया समन्वगतः ।
समुदयान्वयज्ञानक्षान्तावप्येकयैव समन्वगत इत्यवगन्तव्यम् । समुदयान्वयज्ञाने
द्वाभ्याम् । पूर्वोक्तया एकया कामावचरदुःखसमुदयदर्शनहेयप्रहाणपरिज्ञया,
रूपारूप्यावचरदुःखसमुदयदर्शनप्रहाणपरिज्ञया च । निरोधधर्मज्ञानक्षान्तावपि
द्वाभ्यामेव । निरोधधर्मज्ञाने तिसृभिरिति नेयम्, यावत् पञ्चभिः । दर्शनस्थः
समन्वगतो न षड्भिः, षोडशस्य क्षणस्य भावनामार्गसंगृहीतत्वात् ।
मार्गान्वयज्ञाने षड्भिरिति । पूर्वोक्ताभिश्च रूपारूप्यावचरमार्गदर्शनप्रहाण-
परिज्ञया च ।
ननु च पश्चाद् वक्ष्यति—
“चतुःफलव्यवस्था तु पञ्चकारणसम्भवात् ।
पूर्वत्यागोऽन्यमार्गोप्तिः क्षयसंकलनं फले ॥
ज्ञानाष्टकस्य लाभोऽथ षोडशाकारभावना ।” (अभि० को० ६.५३)
इति ? भवति प्रहाणसङ्कलनम्, न तु परिज्ञासंकलनम् — इत्यविरोधः । यावत्
कामवैराग्यं न प्राप्त इति । यावच्छब्देन भावनाहेयक्लेशप्रथमप्रकारप्रहाणे
यावद् अष्टमप्रकारप्रहाणेऽपि षड्भिरेव समन्वगतः । परिहीणोऽपि तत इति ।
कामवैराग्यपरिहाण्या हि तत्संकलनविगतः । कामवैराग्यं प्राप्तः पूर्वं पश्चाद्
वेति । अभिसमयात् पूर्वं पश्चाद् वा । कथम् ? लौकिकेन मार्गेण कामवीतरागो
भूत्वा नियममवक्रान्तो मार्गान्वयज्ञाने एकया अवरभागीयप्रहाणपरिज्ञया
१. °क्षान्ति-का० । २. समुदयेऽ°-का० ।
३. निरोधे- का० । ४. अर्हत्त्वं°-का० ।

८६८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
संयोजनपर्यवदानपरिज्ञया। परिहीणोऽपि रूपावचरेण पर्यवस्थानेनैकया अवर-
भागीयप्रहाणपरिज्ञया। रूपवैराग्यं प्राप्तो द्वाभ्यामवरभागीयप्रहाण-रूपरागक्षय-
परिज्ञाभ्याम्। परिहीणोऽप्यारूप्यावचरेण१ पर्यवस्थानेनाभ्यामेव ॥ ६९ ॥
किं पुनः कारणमनागाम्यर्हतोरेकैव परिज्ञा व्यवस्थाप्यते, न भूयस्यः ?
यस्मात्
तासां संकलनं धातुवैराग्यफललाभतः ।
द्वाभ्यां कारणाभ्यां परिज्ञानां संकलनं भवति, एकत्वेन व्यवस्थापनम् —
समन्वागतः । यस्मादसावार्यः षोडशक्षणं प्राप्तोऽनागामी एव भवति, न
स्रोतआपन्नः सकृदागामी वा। पञ्चावरभागीयप्रहाणाच्चानागामीति पठ्यते।
तस्माद् दर्शनहेयप्रहाणानां पञ्चावरभागीयप्रहाणस्य च संकलनाद् एकयैवावर-
भागीयप्रहाणपरिज्ञया समन्वागतः । पश्चाद् वा अभिसमयाद् आनुपूर्विकः
कामवैराग्यप्राप्तः एकयैवावरभागीयप्रहाणपरिज्ञया समन्वागतः । अर्हत्त्वप्राप्त
एकयैवेति । तदा परिज्ञासंकलनात् । परिहीणोऽपि रूपावचरेणेति विशेषणं
कामावचरेण परिहाणौ षट्परिज्ञासमन्वागमपरिहारार्थम्, आरूप्यावचरेण च
परिहाणौ द्विपरिज्ञासमन्वागमपरिहारार्थमिति । रूपवैराग्यं प्राप्तो द्वाभ्यामिति ।
अनागामी रूपवीतराग इत्यर्थः ।
धातुवैराग्येण कस्मान्न संकलनं भवति ? फलप्राप्त्यभावात् । धातुवैराग्य-
फलप्राप्तिभ्यां समस्ताभ्यां कारणाभ्यां परिज्ञासंकलनमिष्यते, न केवलेन
परिहीणोऽपि । आरूप्यावचरेणेति । अर्हत्त्वप्राप्तिसंकलितयोरवरभागीयप्रहाण-
रूपरागक्षयपरिज्ञयोरारूप्यावचरेण क्लेशेनाईत्त्वात् परिहाणौ पुनर्लाभात् ।
रूपावचरेण तु परिहाणावेकया समन्वागतः स्यात्, कामावचरेण च षड्भिः
समन्वागतः स्याद् इत्यारूप्यावचरपर्यवस्थानग्रहणम् ॥ ६९॥
अनागाम्यर्हतोरिति । कामवीतरागानागामी इह विवक्षितः, रूपवीतरागा-
नागामिनः परिज्ञाद्वयसमन्वागमवचनात् । न भूयस्य इति । न बहुतराः । आनु-
पूर्विकस्रोतआपन्नतत्वादित्यभिप्रायः । द्वाभ्यां कारणाभ्यामिति । व्याख्यातम् ।
सङ्कलनमिति कोऽर्थः ? एकत्वेन व्यवस्थापनमिति योऽर्थः । तयोश्चावस्थयोरिति ।
कामवीतरागानागाम्यर्हत्त्वावस्थयोरेतदुभयम्—धातुवैराग्यं फलप्राप्तिश्चेति ।
एकपरिज्ञोच्यत इति । रूपावीतरागस्यानागामिन एकावरभागीयप्रहाणपरिज्ञा
अर्हतोऽप्येका सर्वसंयोजनपर्यवदानपरिज्ञेति ।
१. प्रहीणो०-का० ।

निर्देशः ] पञ्चमं कोशस्थानम् ८६१
धातुवैराग्यात्, फलप्राप्तितश्च । तयोश्चावस्थयोरेतदुभयं भवति । अतः सर्वं प्रहाणं
संकलय्यैकपरिज्ञोच्यते¹ ।
अथ कः कति परिज्ञास्त्यजति ? लभते वा ?
एकां द्वे पञ्च षट् कश्चिज्जहात्याप्नोति पञ्च न ॥६७॥
एकां त्यजति अर्हत्त्वात् कामवैराग्याद् वा परिहीयमाणः । द्वे परिज्ञे
त्यजति अनागामी रूपवीतरागः कामवैराग्यात् परिहीयमाणः । पञ्च त्यजति
वीतरागपूर्वी मार्गान्वयज्ञाने । स ह्यवरभागीयप्रहाणपरिज्ञालाभे पूर्विकाः पञ्च
परिज्ञास्त्यजति । षट् परिज्ञास्त्यजत्यानुपूर्वीकः कामवैराग्यात् ।
लाभोऽप्येवमेव² । कश्चिदेकां³ लभते, यः कश्चिदपूर्वं⁴ लभते ।
“एकां द्वे” इति विस्तरः । एकां कश्चित् जहाति, त्यजतीत्यर्थः । कश्चित्
द्वे, कश्चित् पञ्च । कश्चित् षट् जहाति आप्नोति वा । ‘कश्चिदेकम्, कश्चिद् द्वे,
कश्चित् षट्, कश्चित् पञ्च आप्नोति’ इत्येतन्नास्ति, अत आह—पञ्च नेति ।
पञ्च नैव कश्चिदाप्नोति इति सूत्रार्थनयः ।
वृत्तिस्तु विव्रियते—अर्हत्त्वात् परिहीयमाणो येन केनचित् चित्तेन सर्व-
संयोजनपर्य्यादानपरिज्ञामेकां त्यजति, सङ्कलने तस्या एकैकस्या अर्हत्त्वावस्थाया-
मस्तित्वात् । एवं कामवैराग्यात् परिहीयमाणो रूपवीतरागोऽनागामी एकामे-
वावरभागीयप्रहाणपरिज्ञाम् । द्वे परिज्ञे त्यजतीति । अवरभागीयप्रहाणपरिज्ञाम्,
रूपरागक्षयपरिज्ञां च । कोऽसौ ? इत्याह—अनागामी रूपवीतरागः काम-
वैराग्यात् परिहीयमाण इति । पञ्च त्यजति वीतरागपूर्वी मार्गान्वयज्ञान इति ।
अभिसमयचित्ते षोडशे । स ह्यवरभागीयप्रहाणपरिज्ञालाभे । लौकिकमार्ग-
प्राप्तस्य तस्यानास्रवविसंयोगप्राप्त्या पूर्विकाः पञ्च परिज्ञाः पञ्चदशक्षण-
लाभास्त्यजति । षष्ठीं तु रूपारूप्यावचरमार्गदर्शनहेयप्रहाणपरिज्ञां न त्यजति ।
किन्तु धातुवैराग्यफललाभतोऽत्रावरभागीयप्रहाणपरिज्ञायां सङ्कलितेति तद्रूपेण
सा नोपन्यस्यते । आनुपूर्वीको यो न वीतरागपूर्वो कामवैराग्यात् कारणात्
षट् त्यजति यस्त्रैधातुकान दर्शनप्रहातव्यानां प्रहाणपरिज्ञाः ।
लाभोऽप्येवमिति । कश्चिदेकं लभते पञ्च मुक्त्वा । यावत् षट् लभते ।
यः कश्चिदपूर्वं लभत इति । दर्शनमार्गस्थो भावनामार्गस्थो वा नवानां
१. एका परिज्ञो°-का० । २. लाभे०-का० ।
३. °परिज्ञां-का० । ४. °दपूर्वां-का० ।
अभि० को० ३:८

कश्चिद् द्वे, यः केवलादारूप्यवैराग्यात्¹ परिहीयते । कश्चित् षट्, योऽना-
गामिफलात् परिहीयते । पञ्च तु नैव कश्चिल्लभते ॥ ७० ॥
समाप्तः परिज्ञाप्रसङ्गः ॥
अभिधर्मकोशभाष्येऽनुशयनिर्देशो नाम
पञ्चमं कोशस्थानं समाप्तमिति² ॥
परिज्ञानां योऽप्रतिलब्धपूर्वां प्रतिलभते प्रथमतः, स तामेकां लभते । भावना-
मार्गेऽपि हि वीतरागपूर्वी दर्शनमार्गान्तेऽवरभागीयप्रहाणपरिज्ञामेकां लभते ।
आनुपूर्वीकोऽपि कामवैराग्ये नवमे विमुक्तिमार्गे तामेव लभते । अर्हत्त्वेऽन्या-
मेकां लभत इति । केवलादारूप्यवैराग्यात् परिहीयत इति । नान्यवैराग्यादिति
दर्शयति । स ह्यवरभागीयप्रहाणपरिज्ञाम्, रूपरागक्षयपरिज्ञां च लभते ।
कश्चित् षड् योऽनागामिफलात् परिहीयत इति । आनुपूर्वीकोऽनागामी । न हि
वीतरागपूर्विणः परिहाणिरस्ति; तद्वैराग्यस्य द्विमार्गप्रापणात् । अत एव च
नैव कश्चित् पञ्च लभते । वीतरागपूर्विणो हि यदि परिहाणिरभविष्यत्, स एव
युगपत् पञ्च परिज्ञा अलप्स्यतेति ॥ ७० ॥
आचार्ययशोमित्रकृतायाम् अभिधर्मकोशव्याख्यायाम्
अनुशयनिर्देशो नाम पञ्चमं कोशस्थानं
समाप्तम्
१. ०आरूप्यधातुवैराग्यात्-का० । २. श्रीलामावाक्यस्य यदत्र पुण्यम्-का० ।

  • नमो बुद्धाय *
    षष्ठं कोशस्थानम्
    (मार्गपुद्गलनिर्देशः)
    उक्तं यथा प्रहाणं परिज्ञां¹ लभते । तदपि च—
    क्लेशप्रहाणमाख्यातं सत्यदर्शनभावनातू ।
    दर्शनहेया भावनाहेयाश्च क्लेशा इति विस्तरेणोक्तम्² । ताविदानीं
    दर्शनभावनामार्गौ किमनास्रवौ ? सास्रवौ ? इति वक्तव्यम् । अत इदमुच्यते—
    द्विविधो भावनामार्गो दर्शनाख्यस्त्वनास्रवः ॥१॥
    द्विविधो भावनामार्गः—लौकिकः, लोकोत्तरश्च । दर्शनमार्गस्तु लोकोत्तर
    एव, त्रैधातुकप्रतिपक्षत्वात् । नवप्रकाराणां दर्शनहेयानां सकृत्प्रहाणाच्च । न हि
    लौकिकस्य एषा शक्तिरस्ति ॥ १ ॥
    स्फुटार्थाव्याख्यायाम्
    षष्ठं कोशस्थानम्
    पञ्चमस्य षष्ठस्य च कोशस्थानयोः सम्बन्धमुपदर्शयन्निदमुपन्यस्यति—
    उक्तं यथा प्रहाणमित्यादि । यथा प्रहाणं परिज्ञा लभत इति । फले हेतूपचारादिति
    वचनात् । तदपि च "क्लेशप्रहाणमाख्यातम्" उक्तम् । कथम् ? इत्याह—
    “सत्यदर्शनभावनावू" इति । द्वन्द्वैकवद्भावनिर्देशः । सत्यानां दर्शनाद् भावनाच्च
    भावनाया इति वा सत्यदर्शनभावनात् कारणाद् दर्शनहेया भावनाहेयाश्च
    क्लेशा इति विस्तरेणोक्तम् ।
    “दशैताः सप्त सप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः ।
    यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः ।
    चत्वारो भावनाहेयाः" (अभि० को० ५. ४)
    इत्यादिना । सत्यदर्शनं च दर्शनमार्गेण, सत्यभावनं च भावनामार्गेणेत्यत
    इदमुच्यते । ताविदानीं दर्शनभावनामार्गो किमनास्रवौ सास्रावविति ।
    १. परिज्ञाख्यां—का० । २. विस्तरेणाख्यातम्—का० ।

८७२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
'सत्यदर्शनात्' इत्युक्तम्। कानीमानि सत्यानि ? कति च ?
सत्यान्युक्तानि चत्वारि,
क्वानि ? सास्रवानास्रवधर्मनिर्देशे¹। "अनास्रवा मार्गसत्यम्" इति
स्वशब्देन "प्रतिसंख्यानिरोधो यो विसंयोगः" इति निरोधसत्यम्, ‘दुःखं
समुदयो लोकः” इत्यत्र दुःखसमुदयसत्ये।
किमेष एवैषामनुक्रमः ? नेत्याह । किं तर्हि ?
दुःखं समुदयस्तथा।
निरोधमार्ग इति,
एष एषामनुक्रमः। स्वभावस्तु यथा पूर्वमुक्तस्तथैवेतिप्रदर्शनार्थस्तथाशब्दः।
स पुनरयम्—
एष यथाऽभिसमयं क्रमः ॥२॥
यस्य हि सत्यस्याभिसमयः पूर्वस्तस्य² पूर्वनिर्देशः। इतरथा हि पूर्वं
हेतुनिर्देशोऽभविष्यत्, पश्चात् फलनिर्देशः। केषांचिदुत्पत्त्यनुकूला देशना, यथा
स्मृत्युपस्थानध्यानादीनाम्। केषांचित् प्ररूपणानुकूला देशना, यथा सम्यक्
मार्गनिर्देशोपन्यास इति सम्बन्धः। त्रैधातुकप्रतिपक्षत्वादिति। दर्शनमार्गस्य ।
लौकिकत्वे सति भवाप्रतिपक्षो न स्यादिति। कि च नवप्रकाराणां दर्शनहेयानां
सकृत्प्रहाणाच्च। न भावनामार्गवत्। न हि लौकिकस्यैषा शक्तिरस्ति।
त्रैधातुकप्रहाणे च प्रकारप्रहाणे च। यदि लोकोत्तरस्य नवप्रकारसकृत्प्रहाणे
शक्तिः, भावनाहेयानामपि लोकोत्तरेण सकृत्प्रहाणप्रसङ्गः। लोकोत्तरेणैव
सकृत्प्रहाणमित्यवधार्यते। न तु सकृत्प्रहाणमेव लोकोत्तरेणेति, अतो न
तत्प्रसङ्गः। भावनाहेया हि क्लेशा दृढाः, सवस्तुत्वात्। अतो लोकोत्तरेणा-
प्येषां न सकृत्प्रहाणम् ॥ १ ॥
इतरथा हीति। यदि यथाभिसमयं निर्देशो नाभिप्रियेत। पूर्वं हेतुनिर्देशः
समुदयसत्यनिर्देशः। हेतूनां लोके पूर्वं दृष्टत्वात्। यथा स्मृत्युपस्थानध्यानादीना-
मिति। तद्यथा स्मृत्युपस्थानादीनामुत्पत्त्यनुकूला देशना। कायस्मृत्युपस्थानं
१. द्र० अभि० को० प्र० को०, ४-८ का० । २. पूर्वस्य—का० ।

.निर्देशः ३ ] षष्ठं कोशस्थानम् ८७३
प्रहाणानाम् । न ह्येष नियमो यत् पूर्वमुत्पन्नानां प्रहाणाय छन्दं जनयति,
पश्चादनुत्पन्नानामनुत्पादायेति । सत्यानां त्वभिसमयानुकूला देशना ।
किं पुनः कारणमेवमेवैषां सत्यानामभिसमयः ? यत्र हि सक्तो येन च बाध्यते
यतश्च मोक्षं प्रार्थयते, तदेवाद्यौ व्यवचारणावस्थायां दुःखसत्यं परीक्ष्यते ।
पश्चात् कोऽस्य हेतुरिति समुदयसत्यम्, कोऽस्य निरोध इति निरोधसत्यम्,
कोऽस्य इति मार्गसत्यम् । व्याधिं दृष्ट्वा तन्निदानक्षयभैषज्यान्वेषणवत् ।
सूत्रेऽप्येष एव सत्यानां दृष्टान्तो दर्शितः । कतमस्मिन् सूत्रे ? “चतुर्भिरङ्गैः
समन्वागतो भिषक् शल्यापहर्त्ता¹” इत्यत्र । यथा च व्यवचारणावस्थायां सत्यपरीक्षा
हि पूर्वमुत्पद्यते यथौदारिकालम्बनतः, सूक्ष्भौदारिकप्रचारतो वा, पूर्वोत्तरहेतु-
फलभावतो वा । ततो वेदनास्मृत्युपस्थानम्, ततश्चित्तस्मृत्युपस्थानमित्येषा-
मुपपत्त्यनुकूला देशना । एवं ध्यानानाम् । आदिशब्देन विमोक्षाभिभ्वायतन-
कृत्स्नायतनादीनामुपपत्त्यनुकूला देशना । केषाञ्चित् प्ररूपणानुकूलेति ।
प्रदर्शनानुकूला । अवबोधानुकूलेत्यर्थः । यथा सम्यक्प्रहाणानामिति । कृष्णशुक्ल-
पक्षयोः प्रत्येकमुत्पन्नानुत्पन्नभेदतः । उत्पन्नं हि सुखावबोधम् नानुत्पन्नम् ।
कृष्णपक्षो वा विनेयजनेन सुखमवबुध्यते । कथम् ? उत्पन्नानां पापकानाम-
कुशलानां धर्माणां प्रहाणाय छन्दं जनयति व्यायच्छते वीर्यमारभते चित्तं
प्रगृह्णाति प्रणिदधाति । अनुत्पन्नानामनुत्पादाय छन्दं जनयतीति पूर्ववत् ।
अनुत्पन्नानां कुशलानां धर्मानामुत्पादाय छन्दं जनयतीति पूर्ववत् । उत्पन्नानां
स्थितये असम्मोषतायै छन्दं जनयतीति पूर्ववत् । न ह्येष नियमो यत्पूर्वमुत्पन्नानां
प्रहाणाय छन्दं जनयतीति । पश्चादनुत्पन्नानामनुत्पादायेति । किं तर्हि ? पूर्वं
चानुत्पन्नानामनुत्पादाय छन्दं जनयति, पश्चाच्चोत्पन्नानां प्रहाणायेत्येदु-
दाहरणम् । एवं शुक्लपक्षोऽपि योज्यः । सत्यानां त्वभिसमयानुकूलेति । हेतु-
फलयोः पूर्वपश्चाद्भावेन दुःखसमुदयसत्ययोः पश्चात्पूर्वनिर्देशप्रसङ्ग इति
दर्शयति ।
यत्र हि सक्त इति । दुःखसत्ये । येन बाध्यत इति तेनैवम् । यतश्च
मोक्षमिति । तत एव दुःखसत्यात् । तदेवाद्यौ प्रयोगावस्थायाम् । कस्मात् ?
इत्याह—व्यवचारणावस्थायां परीक्षावस्थायाम् । निर्वेधभागीयावस्थायामित्यर्थः ।
व्याधिं दृष्ट्वेति । व्याधिर्दुःखसत्यस्योपमानम् । तन्निदानं समुदयसत्यस्य ।
तत्क्षयो निरोधसत्यस्य । तद्भैषजं मार्गसत्यस्योपमानम् ।
सूत्रेऽप्येष सत्यानां दृष्टान्त इति । व्याध्यादिसूत्रे । कथम् ? “चतुर्भिरङ्गैः
१. तत्पसर्ता—का०।

८७४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
तथाभिसमयावस्थायां सत्याभिसमयः। पूर्वावेधात्, दृष्टभूमिनिःसङ्गाश्वप्रसरणवत्¹।
अभिसमय इति कोऽर्थः ? अभिसंबोधः । इणो बोधनार्थत्वात् । कस्मादनास्रव
एव, न सास्रवः ? स हि निर्वाणाभिमुखः सम्यग्बोधः । सम्यगिति तत्त्वेन । तत्र
फलभूता उपादानस्कन्धा दुःखसत्यम् । हेतुभूताः समुदयसत्यम्, समुदेत्यस्मादिति
कृत्वा । अत एव तयोः फलहेतुभावात्नामतो भेदः, न द्रव्यतः । निरोधमार्गयोस्तु
द्रव्यतोऽपि ।
आर्यसत्यानीति सूत्र उच्यन्ते । कोऽस्यार्थः ? आर्याणामेतानि सत्यानि
तस्मादार्यसत्यानीति सूत्र एवोक्तम् । किमन्येषामेतानि मृषा ? सर्वेषामेतानि
सत्यानि; अविपरीतत्वात् । आर्यैस्तु यथैतानि तथा दृष्टानि, नान्यैः । अत आर्याणा-
मेतानि सत्यान्युच्यन्ते न त्वनार्याणाम्; विपरीतदर्शनात् ।
समन्वागतो भिषक् शल्यापहर्ता राजार्हश्च भवति राजयोग्यश्च, राजाङ्गत्त्वे च
संख्यां गच्छति । कतमैश्चतुर्भिः ? आबाधकुशलो भवति, आबाधसमुत्थान-
कुशलः, आबाधप्रहाणकुशलः, प्रहीणस्य चाबाधस्यायत्यामनुत्पादकुशलः। एवमेव
चतुर्भिरङ्गैः समन्वागतस्तथागतोऽर्हन् सम्यक्सम्बुद्धोऽनुत्तरो भिषक् शल्याप-
हर्तेत्युच्यते । कतमैश्चतुर्भिः ? इह भिक्षवस्तथागतोऽर्हन् सम्यक्सम्बुद्ध इदं
दुःखमार्यसत्यमिति यथाभूतं प्रजानाति । अयं दुःखसमुदयः, अयं दुःखनिरोधः,
इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति यथाभूतं प्रजानाति" इति। पूर्वावेधा-
दिति । पूर्वाक्षेपात् । दृष्टभूमिनिःसङ्गाश्वप्रसरणवदिति । यथा भूमौ दृष्टायां
निःसङ्गमश्वस्य प्रसरणम्, तद्वत् । अश्वधावनवदिति केचित् पठन्ति । 'धावि'
प्रकृत्यन्तरं व्याचक्षते । इणो बोधनार्थत्वादिति । सर्वो गत्यर्थो बोधनार्थोऽपि
भवतीति ।
द्रव्यतोऽपीत्यापिशब्दात् नामतोऽपीति दर्शितम् ।
अविपरीतत्वादिति । यस्मात् तदार्याणामन्येषां चाविपरीतम् । दुःखमेव
नान्यथा । आर्यैस्तु यथैतानि सत्यानि तथा दृष्टानि । दुःखसत्यं दुःखतः
अनित्यतः शून्यतोऽनात्मतश्च । एवं यावन्मार्गो मार्गतः न्यायतः प्रतिपत्तितो
नैर्याणिकतश्च । नान्यैरनार्यैः एवं दृष्टानि । अत आर्याणामेतानि सत्यान्युच्यन्ते ।
न त्वनार्याणां सत्यान्युच्यन्ते । कस्मात् ? विपरीतदर्शनात् । ते हि दुःखमदुःखत
१. धावनवत् — का० ।

निर्देशः ] षष्ठं कोशस्थानम् ८७५
“यदार्याः सुखतः प्राहुस्तत् परे दुःखतो विदुः ।
यत् परे सुखतः प्राहुस्तदार्या दुःखतो विदुः ॥” ( )
इति गाथा । द्वे आर्याणां सत्ये द्वे आर्ये चार्याणां च सत्ये इत्यपरे ॥२॥
यदा वेदनैकदेशो दुःखस्वभावः, कथं सर्वे सास्रवाः संस्कारा दुःख-
मित्युच्यन्ते ?
दुःखास्त्रिदुःखतायोगाद् यथायोगमशेषतः ।
मनापा अमनापाश्च तदन्ये चैव सास्रवाः ॥३॥
तिस्रो हि दुःखताः—दुःखदुःखता, विपरिणामदुःखता, संस्कारदुःखता च ।
ताभिर्यथायोगमशेषतः सर्वे सास्रवाः संस्कारा दुःखाः ।
तत्र मनापा विपरिणामदुःखतया, अमनापा दुःखदुःखतया । तेभ्योऽन्ये
संस्कारदुःखतया ।
के पुनर्मनापाः ? केऽमनापाः ? के नोभयथा ?
इत्येवमादिभिराकारैर्दुःखसत्यं पश्यन्ति, समुदयमसमुदयत इत्येवमादिभिः,
निरोधमनिरोधत इत्येवमादिभिः, मार्गममार्गत इत्येवमादिभिरिति ।
तत् परे दुःखतो विदुरिति । तद्यथा निरोधसत्यं व्यथन्तेऽपुनर्भवात् प्रपाता-
दिव बालिशा इति ।
आर्यास्तु दुःखतो विदुरिति उपादानस्कन्धपञ्चकः ।
द्वे आर्याणां सत्ये इति । दुःखसमुदयसत्ये ; अविपरीतदर्शनात् । द्वे आर्ये ।
कुशलतया, अनास्रवतया च । आर्याणां च सत्ये, अविपरीतदर्शनात् । एवमेक-
शेषनिर्देशाच्चार्यसत्ये इति भवति ॥ २ ॥
यदा वेदनैकदेशो दुःखस्वभाव इति । वेदनास्कन्धैकदेशो दुःखदौर्मनस्य-
स्वभावः ।
“यथायोगमशेषतः” इति । मनापा अपि विपरिणामदुःखतया संस्कारदुःख-
तया च दुःखा । अमनापा दुःखदुःखतया संस्कारदुःखतया च । तदन्ये दुःखाः
संस्कारदुःखतयैवेति यथायोगार्थः । मन आप्नुवन्तीति मनापाः । पुनः सन्धि-
करणं चात्रेति व्याख्यातम् । तेभ्योऽन्य इति मनापामनापेभ्योऽन्य इति ।