सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 878, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 878

असंस्कृतस्य कथमन्तिकत्वं सिध्यति ? सर्वत्र तत्प्राप्तेः । अतीतानागतेऽपि
प्रसङ्गः¹ । आकाशं च कथम् ? एवं तर्ह्यतीतानागतमन्योन्यं वर्त्तमानव्यवहित-
त्वाद् दूरम् । वर्त्तमानमुभयोरासन्नत्वादन्तिकम् । असंस्कृतं चाप्यव्यवहितत्वा-
दिति । एवमप्यतीतानागतं वर्त्तमानस्यान्तिकत्वादुभयं प्राप्नोति ?
एवं तु युक्तं स्यात्—धर्मस्वलक्षणादनागतं दूरमसम्प्राप्तत्वात्, अतीतं च
प्रच्युतत्वादिति ॥ ६२ ॥
किं मार्गविशेषगमनात् क्लेशानां पुनः प्रहाणविशेषो भवति ? नैतदस्ति ।
सर्वेषां हि क्लेशानाम्—
तद् दूरमिति । उपरतकारित्रमतीतम्, अप्राप्तकारित्रमनागतमिति तदतीतानागतं
दूरमुच्यते ।
असंस्कृतस्य कथमन्तिकत्वमिति । तस्य कारित्राभावादन्तिकत्वं न स्यात्,
तच्चेष्यते “अन्तिकेधर्माः कतमे ? प्रत्युत्पन्ना धर्माः, असंस्कृतं च” इति शास्त्र-
पाठात् । सर्वत्र तत्प्राप्तेरिति । सर्वत्र देशे तस्यासंस्कृतस्य प्रतिसंख्यानिरोधस्य
प्राप्युत्पादात् । अतीतानागतेऽपि प्रसङ्ग इति । कुशलादेरतीतानागतस्य
सर्वत्र देशे प्राप्तिः संभवतीति अतीतानागतेऽपि अन्तिकत्वप्रसङ्गः ।
आकाशं च कथमिति । आकाशं च कथमन्तिकम्, न हि तस्य प्राप्तिरस्तीति ?
अतीतानागतमन्योन्यमिति । अतीतादनागतं दूरम् । अनागताच्चातीतं दूर-
मित्यर्थः । असंस्कृतं चाव्यवहितत्वादिति । न केनचिद् व्यवहितम् । यथा
वर्त्तमानेनातीतानागतमिति, एवं तस्यान्तिकत्वम् ।
एवमपीति । अस्यामपि कल्पनायाम् । यदनन्तरमतीतानागतम्, तद्ध्यतीतम्,
वर्त्तमानान्तरितत्वाद् अनागताद् दूरम् । वर्त्तमानाच्चाव्यवहितत्वादन्तिकमिति
प्राप्नोति । इत्येवमनागतमपि नेयम् ।
एवं तु युक्तं स्यादिति । स्वमतमाचार्यस्य । धर्मस्वलक्षणादनागतं दूरम् ।
कस्मात् ? असम्प्राप्तत्वात् । यस्मादनागतेन स्वलक्षणं न सम्प्राप्तमिति । अथवा—
यस्मात् तत् स्वलक्षणमसम्प्राप्तम् = अनुपस्थितमिति । अतीतं च । किं धर्मस्व-
लक्षणाद् दूरम्, तत्प्रच्युतत्वात् । यस्मात् तद्धर्मस्वलक्षणं तस्मादतीतात्
प्रच्युतम् । तद्ध्यतीतं यद् धर्मस्वलक्षणात् प्रच्युतमिति ॥ ६२ ॥
“प्रतिपक्षोदयात् क्षयः” (अभि० को० ५.६०) इत्युक्तम्, अथ पृच्छति—
किं मार्गविशेषगमनादिति । विस्तरः—प्रहाणविशेष इति । विशिष्यते प्रहाण-
मित्यर्थः ।
१. तत्प्रसङ्गः—का० ।