सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] तृतीयं कोशस्थानम् ५०३
मरणभवस्त्रिप्रकार इत्युक्तम् । अर्हंस्तु—
निर्वृत्यव्याकृतद्वये ।
ऐर्यापथि के, विपाकचित्ते वा । अस्ति चेत्, कामधातौ विपाक उपेक्षा ।
नास्ति चेत्, ऐर्यापथिक एव ।
किमर्थमव्याकृत एव नान्यस्मिन् ? तद्धि चित्तच्छेदानुकूलम् ; दुर्बलत्वात् ।
अथ म्रियमाणस्य कस्मिन् शरीरप्रदेशे विज्ञानं निरुध्यते ? सकृन्मरणे
समनस्कं कायेन्द्रियं सहसाऽन्तर्धीयते । यदि तु क्रमेण च्यवते, ततः—
क्रमच्युतौ पादनाभिहृत्प्रदेशे मनश्च्युतिः ॥ ४३ ॥
अधोनृसुरगतानां, ·
अधो गच्छन्तीत्यधोगाः, अपायगामिनः । नॄन् गच्छन्तीति नृगाः, मनुष्य-
गामिनः । सुरान् गच्छन्तीति सुरगाः, देवगामिनः । तेषां यथासंख्यं पादयोर्नाभ्यां
पत्तेः ।

५०४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
हृदये च विज्ञानं संनिरुध्यते । न पुनर्जायन्त इत्यजाः, अर्हन्तः । तेषामपि हृदये
विज्ञानं निरुध्यते । मूर्तीत्यपरे । कायेन्द्रियस्य तेषु निरोधात् । कायेन्द्रियं हि
म्रियमाणस्य तप्त इवोपले जलं निष्प्यूतं सङ्कोचमापद्यमानं पादादिष्वन्तर्धीयत इति ।
एवं च पुनः क्रमेण मरणं प्राणिनां प्रायेण मर्मच्छेदवेदनाभ्यां हतानां
जायते—
मर्मच्छेदस्त्वब्वादिभिः ।
शरीरप्रदेशाः केचिदुपहन्यमाना मरणमानयन्ति । ते ह्येतेदुच्यन्ते मर्मा-
णीति । तानि चाप्तेजोवायुधातूनामन्यतमेनातिप्रायं गतेन निशितशस्त्रसम्पातस्य-
र्धिनाडीतीव्राभिर्वेदनाभिः छिद्यन्त इव । न तु¹ पुनस्तानि काष्ठवच्छिद्यन्ते²,
छिन्नवद्वा पुनर्न चेष्टन्त इति च्छिन्नान्युच्यन्ते ।
कस्मान्न पृथिवीधातुना ? चतुर्थदोषाभावात् । वातपित्तश्लेष्माणो हि
त्रयो दोषाः । ते चाप्तेजोवायुधातुप्रधाना यथायोगमिति ।
भाजनलोकसंवर्तनीसाधर्म्येणेत्यपरे ।
मनुष्यगामिनाम्, हृदये देवगामिनाम् । अरूपित्वाददेशस्थं विज्ञानं कथं तेषु
निरुध्यत इति ? अत आह— कायेन्द्रियस्य तेषु निरोधादिति । तेषु पादादिषु ।
कायेन्द्रियप्रतिबद्धवृत्ति हि कामधातौ रूपधातौ च विज्ञानमिति । तेषामपि हृदये
विज्ञानं निरुध्यत इति । यथासंख्यनिर्देशादेवायमर्थो लभ्यते । कथम् ? हृदयं
च हृदयं च हृदये, पादश्च नाभिश्च हृदये चेति पादनाभिहृदयानीति
चत्वारोऽर्थाः ॥ ४३ ॥
अधोगश्च, नृगश्च, सुरगश्च, अजगश्च—इत्येतेऽपि चत्वारोऽर्थाः । तेन यथा-
संख्यसिद्धिः ।
प्रायेणेति ग्रहणं देवादीनां सुखमृत्युत्वात् । न तु पुनस्तानि काष्ठवच्छिद्यन्ते ।
किं तर्हीति ? तीव्राभिर्वेदनाभिश्चिद्यन्त इवेति । छिन्नवद्वा न पुनश्चेष्टन्त इति
छिन्नानीत्युच्यन्त इति । च्छिन्नाङ्गप्रत्यङ्गवत्, न पुनश्चेष्टन्त इति छिन्नानीत्यु-
च्यन्ते । सैषा काल्पनिकी; छेदवृत्तिमर्मणा द्विधाभावाकरणात् ।
अप्तेजोवायूनामन्यतमेनेत्युक्ते पृच्छति—कस्मान्न पृथिवीधातुनेति । अप्तेजो-
वायुधातुप्रधाना यथायोगमिति । यथासम्भवम् । अब्धातुप्रधानः श्लेष्मा, तेजो-
धातुप्रधानं पित्तम्, वायुधातुप्रधानो वायुशेष इति । भाजनलोकसंवर्तनीसाधर्म्येणे-
१. च—का० । २. काष्ठादिव०—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ५०५
देवेषु नास्ति मर्मच्छेदः । किं तु च्यवनधर्मणो देवपुत्रस्य पञ्चोपनिमि-
त्तानि प्रादुर्भवन्ति—वस्त्राणामाभरणानां च मनोज्ञः शब्दो निश्चरति, शरीरप्रभा
मन्दीभवति, स्नातस्योदबिन्दवः काये सन्तिष्ठन्ते, चपलात्मनोऽप्येकत्र विषये
बुद्धिरवतिष्ठते, उन्मेषनिमेषौ चाक्ष्णोः सम्भवतः । एतानि तु व्यभिचारीणि ।
पञ्च पुनर्निमित्तानि मरणं नातिवर्तन्ते—वासांसि क्लिश्यन्ति, माला म्लायन्ति,
कक्षाभ्यां स्वेदो मुच्यते, दौर्गन्ध्यं कायेऽवक्रामति, स्वे चासने देवपुत्रो
नाभिरमते ।
सोऽयं सत्त्वलोक एवमुत्पद्यमानस्तिष्ठन् च्यवमानश्च त्रिषु राशिषु स्थापितो
भगवता । त्रयो राशयः—सम्यक्त्वनियतो राशिः, मिथ्यात्वनियतो राशिः,
अनियतो राशिरिति । तत्र पुनः—
सम्यङ्मिथ्यात्वनियता आर्यान्तर्यकारिणः ॥ ४४ ॥
"सम्यक्त्वं कतमत् ? यत्तत् पर्यादाय रागप्रहाणम्, पर्यादाय द्वेषप्रहाणम्,
पर्यादाय मोहप्रहाणम्, पर्यादाय सर्वक्लेशप्रहाणम्—इदमुच्यते सम्यक्त्वम्"
( ) इति सूत्रम् ।
आर्याः कतमे ? येषामनास्रवो मार्ग उत्पन्नः । आराद् याताः पापकेभ्यो
धर्मेभ्य इत्यार्याः, आत्यन्तिकविसंयोगप्राप्तिलाभात् । एते हि क्लेशक्षये निय-
तत्वात् सम्यक्त्वनियताः मोक्षभागीयलाभिनोऽप्यवश्यं परिनिर्वाणधर्माण इति ।
कस्मान्न सम्यक्त्वे नियताः ? ते हि मिथ्यात्वेऽपि नियता भवेयुः । न च ते
कालनियमेन सम्यक्त्वे नियताः, यथा सप्तकृत्वः परमादयः ।
त्यपरे इति । तिस्रो भाजनसंवर्त्तन्यः—अप्संवर्त्तनी, तेजःसंवर्त्तनी, वायु-
संवर्त्तनी च । तासां च साधर्म्येण अप्तेजोवायुधातूनामन्यतमेनेति विस्तरे-
णोक्तमिति ।
कथमाराद्याताः ? आत्यन्तिकविसंयोगप्राप्तिलाभात् । पृथग्जनानां त्वस्ति
विसंयोगप्राप्तिलाभः, न त्वात्यन्तिक इति ते नाराद् याता एवेति । ते हि
मिथ्यात्वेऽपि नियता भवेयुरिति : यद्यानन्तर्याणि कुर्युुरित्यर्थः । न च त इति
विस्तरः । न च ते मोक्षभागीयलाभिनः कालनियमेन सम्यक्त्वे नियताः । यथा
सप्तकृत्वः परमादयः । आदिशब्देन कूलंकुलैकवीचिकादयो गृह्यन्ते । काल-
नियमश्चैषां पुद्गलनिर्देशे वक्ष्यते ।

५०६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
मिथ्यात्वं कतमत् ? नरकाः, प्रेताः, तिर्यञ्चः—इदमुच्यते मिथ्यात्वम् ।
तत्रानन्तर्यकारिणो नरके नियतत्वान्मिथ्यात्वनियताः । नियतेभ्योऽन्येऽनियता
इति सिद्धम् । प्रत्ययापेक्षं हि तेषामुभयभाक्त्वम्, अनुभयभाक्त्वं च ॥ ४४ ॥
उक्तः सत्त्वलोकः ॥
भाजनलोक इदानीं वक्तव्यः—
तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः ।
लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम् ॥ ४५ ॥
त्रिसाहस्रमहासाहस्रलोकधातोरेवं संनिवेशमिच्छन्ति । यदुताकाशप्रतिष्ठ-
मधस्ताद् वायुमण्डलमभिनिर्वृत्तं सर्वसत्त्वानाम् । कर्माधिपत्येन तस्य योजन-
लक्षाणां षोडशकमुद्वेधः, परिणाहेनासंख्यम्, तथा च दृढं यन्महानग्नोऽपि
वज्रेण भेत्तुमशक्तः ॥ ४५ ॥
तस्योपरिष्टात्—
अपामेकादशोद्वेधं सहस्राणि च विंशतिः ।
‘मण्डलम्’ इति वर्तते । तस्मिन् वायुमण्डले सत्त्वानां कर्मभिर्मेघाः सम्भूयाक्ष-
मात्राभिर्धाराभिरभिवर्षन्ति । तद् भवति अपां मण्डलम् । तस्य योजनानामेका-
दशलक्षान्यूर्ध्वं, अधो विंशतिश्च सहस्राणि ।
कथं ता आपो न तिर्यग्विस्स्रवन्ति ?
सत्त्वानां कर्माधिपत्येन । यथा हि भुक्तं पीतमन्नं पानं च नापक्वं पक्वा-
शयमपततीत्येके ।
नियतेभ्यो द्वयेभ्य । एभ्योऽन्येऽनियताः । प्रत्ययापेक्षं हीति विस्तरः । यदि
सम्यक्त्वे प्रत्ययं लभन्ते, सम्यक्त्वे नियताः । अथ मिथ्यात्वे, मिथ्यात्वे
नियताः । अथोभयस्मिन्न प्रत्ययं लभन्ते अनुभयभाक्त्वेऽपि ॥ ४४ ॥
उक्तः सत्त्वलोकः । विद्यादिक्रमनिर्देशेन ॥
“उशन्ति” इच्छन्तीत्यर्थः । “लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम्”
लक्षषोडशकं वेधनभावेन । परिणाहेनासंख्यमिति । समन्[तादसंख्य]मित्यर्थः ॥ ४५ ॥
कर्माधिपत्येन कर्मसामर्थ्येन । तत्र निदर्शनम्—यथा भुक्तं पीतं चान्नं पानं
च यथासंख्येन नापक्वं पक्वाशयं पतति । पक्वमेव स पक्वस्थानं गच्छतीत्यर्थः ।

निर्देशः ] तृतीयं कोशस्थानम् ५०७
कुसूलन्यायेन वायुना सन्धार्यन्त इति निकायान्तरीयाः ।
ताश्च पुनरापः सत्त्वानां कर्मप्रभावसम्भूतैर्वायुभिरावर्त्त्यमाना उपरिष्टात्
काञ्चनीभवन्ति पक्वक्षीरशरीभावयोगेन । तद् भवत्यपां मण्डलम् ।
अष्टलक्षोच्छ्रयं पश्चाच्छेषं भवति काञ्चनम् ॥ ४६ ॥
किं च शेषम् ? त्रयो लक्षाः सहस्राणि च विंशतिः । सा काञ्चनमयी
मही भवत्यपामुपरिष्टात् ॥ ४६ ॥
उक्तो जलकाञ्चनमण्डलोच्छ्रायः ॥
तिर्यक् त्रीणि सहस्राणि सार्धं शतचतुष्टयम् ।
लक्षद्वादशकं चैव जलकाञ्चनमण्डलम् ॥ ४७ ॥
समानं ह्येतदुभयं विस्तारतः ॥ ४७ ॥
समन्ततस्तु त्रिगुणम्,
समन्ततः परिक्षेपेण तु परिगण्यमानं त्रिगुणं जायते—षट्त्रिंशल्लक्षा
दशसहस्राणि सार्धानि च त्रीणि शतानि योजनानाम् ।
यच्च तत् काञ्चनमयं महीमण्डलमपामुपरिष्टात् सन्निविष्टम्,
तत्र मेरुर्युगन्धरः ।
ईशाधारः खदिरकः सुदर्शनगिरंस्तथा ॥ ४८ ॥
अश्वकर्णो विनितको निमिन्धरगिरिः
इतीमे काञ्चनमण्डलप्रतिष्ठा अष्टौ महापर्वताः । मध्ये सुमेरुः । शेषाः
कुसूलन्यायेन कोष्ठन्यायेन । समन्तात् प्राकारवदवस्थितमित्यर्थः । पक्वक्षीरशरी-
भावयोगेन । पक्वक्षीरशरीभावन्यायेन । यथा पक्वस्य क्षीरस्य शरी। स्त्रीलिङ्ग-
निर्देशः, शर इत्यर्थः । अथवा शरस्य भावः शरीभावः स्त्रीप्रयोगः । यथाऽसौ
द्रवो घनीभावेन भवति, एवं जलस्योपरिष्टात् काञ्चनमयी भूमिरिति ।
शेषम्, त्रयो लक्षाः सहस्राणि च विंशतिरिति । विंशतिसहस्रोत्तराणामेका-
दशानां लक्षाणामष्टावपनीयैतावच्छेषं भवति ॥ ४५-४६ ॥
“तिर्यक् त्रीणि सहस्राणि” इति विस्तरः । चतुर्द्वीपकस्य एतदाख्यानमुच्यते,
न त्रिसाहस्रमहासाहस्रस्य । समानं ह्येतदुभयम् । एतदिति “जलकाञ्चनमण्डलम्”
“समन्ततस्तु त्रिगुणम्” इति । समन्तपरिक्षेपेण त्रिगुणमेतदुभयम् । सर्वस्य परि-
अभि० को० २:९

->तस्येहhasे. So the typesetter clearly has ैand knows how to use it. Why wouldशैलकम्NOT haveैonश? Wait, what if the text in Dwarikadas's edition actually printed शल्रकम्orशैलकम्? Wait, let's look at शल्रकम्: could it be शैलकम्? Wait, look at the diagonal line on ल. In some fonts, is ल्रused forल? No! Wait, look at line 10 again: चक्रवाडः शल्रकम्२ ॥ ४९ ॥ Wait, look at the footnote 2: २. शल्कः--का० । Wait, look at footnote 2:शthenलthenकः? Wait, between शandकः, there is लwith that same stroke! Wait, no, is itशल्रकः? Wait, why would it say शल्रकः--का०if the text isशल्रकम्? AH! The text has म्(neuter) and the footnote hasः(masculine)! Text:...कम्२ Footnote:२. ...कः

निर्देशः ] तृतीयं कोशस्थानम् ५०९
विशेषोत्पत्तावसमाधानेन¹ प्रत्ययीभवन्ति । न तु खलु यथा सांख्यानां परि-
णामः ।
कथं च सांख्यानां परिणामः ? न ह्यवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तौ
धर्मान्तरप्रादुर्भाव इति । कश्चात्र दोषः ? स एव² धर्मी न संविद्यते यस्या-
वस्थितस्य धर्माणां परिणामः कल्प्येत । कश्चैवमाह—धर्मेभ्योऽन्यो धर्मीति,
तस्यैव तु द्रव्यस्यान्यथीभावमात्रं परिणामः ? एवमप्ययुक्तम् । किमत्रायुक्तम् ?
'तदेव चेदं न चेदं तथा' इति अपूर्वैषा वाचोयुक्तिः³ ।
एवं च पुनः सम्भूताः सुवर्णादयः कर्मप्रभावात् प्रेरितैर्वायुभिः समाहृत्य
राशीक्रियन्ते ।
त एते पर्वताश्च भवन्ति, द्वीपाश्च ।
ते पुनः सुमेर्वादयश्चक्रवाडपर्यन्ताः पर्वताः—
जलेऽशीतिसहस्रके ।
मग्नाः,
काञ्चनमय्याः पृथिव्या उपर्यशीतियोजनसहस्राण्युदकम्, तत्र ते मग्नाः ।
ऊर्ध्वं जलात् मेरुर्भयोऽशीतिसहस्रकः ॥ ५० ॥
इति हि मेरोः षष्टियोजनशतसहस्रसमुच्छ्रायः⁴ ॥ ५० ॥
न ह्यवस्थितस्य द्रव्यस्येति । रूपरसाद्यात्मकस्य । धर्मान्तरनिवृत्ताविति । क्षीर-
निवृत्तौ । धर्मान्तरप्रादुर्भाव इति । दधिजन्म । स एव धर्मी नेति । रूपाद्यात्मक-
क्षीरादिधर्मेभ्योऽन्यो धर्म उत्पाद्यव्ययेऽप्यनुत्पन्नोऽविनष्टः । परिणाम इति । क्षीर-
निवृत्तौ दधिभावः । तदेवं चेदमिति । क्षीरमेव दधि, न चेदं तथेति; न चेदं
दधि क्षीरम्, तदेवेदमिति यत् परिणामेनेत्युक्तम् । न चेदं तथेति । 'तस्यैव
द्रव्यस्यान्यथीभावमात्रं परिणामः' इति वचनात् । अपूर्वैषा वाचोयुक्तिरिति ।
स्ववचनविरुद्धेत्यभिप्रायः । पूर्वोत्तरयोर्हि क्षणयोरन्यथात्वमिष्यते । ययोश्चा-
न्यथात्वं तयोरन्यत्वं दृष्टम्, तद्यथा देवदत्तयज्ञदत्तयोः । तस्मात् कार्यकारण-
योरन्यत्वेन भवितव्यम् ।
सुवर्णादय इति । सुवर्णरूप्यमणिमृदादयः । षष्टियोजनशतसहस्रसमुच्छ्राय
इति । षष्ट्यधिको योजनलक्ष उच्छ्राय इत्यर्थः ॥ ५० ॥
१. ॰समवधानेन—का० । २. एव हि—का० ।
३. वायो युक्तिः—का० । ४. ॰सहस्रं समुच्छ्रयः—का० ।

अर्धार्धहानिरष्टासु
जलादूर्ध्वं यावान्सुमेरुस्ततोऽर्धेन युगन्धरश्चत्वारिंशद्योजनसहस्राणि । ततो-
ऽर्धेन ईशाधरः । इत्येवमन्येष्वप्यर्धार्धहानिर्वेदितव्या, यावन्निमिन्धरादर्धेनार्धत्रयो-
दशोत्तराणि त्रीणि योजनशतानि चक्रवाडः ।
समोच्छ्रायघनाश्च ते ।
यावानेव चैषां जलादूर्ध्वं समुच्छ्रायः, तावानेव घनो विस्तार इत्यर्थः ।
शीताः$^१$ सप्तान्तराण्येषाम्,
एषां च निमिन्धरान्तानां पर्वतानां सप्तान्तराणि सप्त शीता उच्यन्ते
पूर्णा अष्टाङ्गोपेतस्य पानीयस्य । तद्धि पानीयं शीतलं च स्वादु च लघु च मृदु
चाच्छं च निष्पतिकं च, पिबतश्च कण्ठं न क्षिणोति, पीतं च कुक्षिं न व्याबाधते ।
तासां च पुनः—
आद्याशीतिसहस्रिका ॥ ५१ ॥
सुमेरुयुगन्धरान्तरं प्रथमा शीता अशीतियोजनसहस्राणि वैपुल्येन ॥५१॥
आभ्यन्तरः समुद्रोऽसौ,
द्वौ हि समुद्रौ—आभ्यन्तरो बाह्यश्च । तदाऽसौ शीताऽऽभ्यन्तरः समुद्रः—
त्रिगुणः स तु पार्श्वतः ।
अशीतियोजनसहस्राण्यस्य वैपुल्यमुक्तम् । पार्श्वतस्तु$^२$ त्रिगुणो भवति
युगन्धरतीरेण गण्यमानः—चत्वारिंशत् सहस्राणि, लक्षद्वयं च ।
अर्धार्धेनापराः शीताः
युगन्धरस्येषाधारस्य चान्तरं द्वितीया शीता अर्धेन प्रथमायाश्चत्वारिंशद्
अष्टाङ्गोपेतस्येति ।
“शीतलाच्छलघुस्वादुमृदुनिःपूतिगन्धकम् ।
पीतं न बाधते कुक्षिं न कण्ठं क्षिणोति तज्जलम् ॥”
इति अष्टांगसंग्रहश्लोकः ॥ ५१ ॥
पार्श्वतस्तु त्रिगुणो भवति युगन्धरतीरेण गण्यमान इति । स “आभ्यन्तरः
समुद्रः” युगन्धरपार्श्वेनायामतः संख्यायमानः त्रिगुण इति कृत्वा चत्वारिंशद्योजन-
१. सीतः—स्फुटार्थायां मुद्रितः पाठः । २. पार्श्वतः—का० ।

ेषु ।
Wait, L10: "द्वीपाश्चतुर्षु सुमेरुपार्श्वेषु ।"
तत्र तु ।
जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः ॥ ५३ ॥
द्विसाहस्राणि त्रीणि पार्श्वान्यस्य, शकटस्येवाकृतिः । तस्य च मध्ये काञ्चन-
सहस्राधिकलक्षद्वयमायामो भवति युगन्धरपार्श्वे। अशीतिरेका, तदुभयतश्चेत-
रयोर्दिशोस्तत्सीतानदीवैपुल्ययोगेनापरे द्वे अशीती इति तिस्रोऽशीतयः ।
चत्वारिंशदधिकं लक्षद्वयं भवति इति ॥ ५२ ॥
“लक्षत्रयं सहस्राणि विंशतिर्द्वे च” इति निमिन्धरगिरिचक्रवाडयोरन्तर
एकस्यां दिशि बाह्यस्य समुद्रस्य तत् परिमाणमुक्तम् । अत्र सहस्रमेकं द्वे शते
चान्ये अर्धाष्टाशीतिरेवेति वक्तव्यम्; न्यूनत्वात् । एवमपरस्यां दिशि वक्तव्यम् ।
एवं द्वयोः सहस्रयोः पञ्चसु शतेषु पञ्चसप्त

मय्यां पृथिव्यां वज्रासनमभिनिर्वृत्तम्, यस्मिनिषद्य सर्वे बोधिसत्त्वा वज्रोपमं
समाधिमुत्पादयन्ति । न हि तमन्य आश्रयः प्रदेशो वा सोढुं समर्थः ॥ ५३ ॥
सार्धत्रियोजनं त्वेकं,
चतुर्थमस्य पार्श्वं सार्धानि त्रीणि योजनानि । अत एव ह्यसौ शकटा-
कृतिः ।
प्राग्विदेहोऽर्धचन्द्रवत् ।
इतः पूर्वेण सुमेरुपार्श्वे पूर्वं विदेहो द्वीपः । सोऽर्धचन्द्र इवाभिनिर्वृत्तः ।
परिमाणतस्तु—
पार्श्वत्रयं तथाऽस्य,
यथा जम्बूद्वीपस्य द्वे द्वे योजनसहस्रे ।
एकं सार्धं त्रिशतयोजनस् ॥ ५४ ॥
चतुर्थं पार्श्वं सार्धानि त्रीणि योजनशतानि ॥ ५४ ॥
गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः ।
इतः पश्चिमेन सुमेरुपार्श्वेऽपरगोदानीयो द्वीपः सार्धानि सप्त योजन-
सहस्राणि साकल्येन । मण्डलश्चासौ पूर्णचन्द्रवत् ।
सार्धे द्वे मध्यमस्य,
मध्यमस्यार्धतृतीये योजनसहस्रे ।
अष्टौ चतुरस्रः कुरुः समः ॥ ५५ ॥
इह उत्तरेण सुमेरुपार्श्वे उत्तरकुरुद्वीपः। सोऽष्टौ योजनसहस्राणि साकल्येन
चतुरस्रः, तुल्यापीठिकद्वत् । सर्वेषु च पार्श्वेषु समः । यथैकं पार्श्वं द्वियोजन-
सहस्रे, तथाऽन्यानि; स्तोकमपि नाधिकम् ।
किञ्चिदतिरिच्यमानाधरभागा दुर्लक्षविशेषत्वात् “समोच्छ्रायघनाश्च ते”
(अभि० को० ३.५१) इत्युक्ताः । अतस्तेस्तैः किञ्चिदतिरिच्यमानेरधोभागै-
स्तदाधेयं सुमेर्वादिकमाधारं जलकाञ्चनमण्डलात्मकं व्याप्नोतीत्यविरोध
एष इति ।
अन्य इति विस्तरः । न बोधिसत्त्वाश्रयादन्य आश्रयः, वज्रासनाद्धान्यः ।
प्रदेशस्तं वज्रोपमं समाधिं सोढुं समर्थ इति ॥ ५३–५४॥

[निर्देशः १ ] तृतीयं कोशस्थानम् ५१३
यश्च द्वीपो यदाकृतिस्तदाकृतीन्येव तत्र मनुष्याणां मुखानि ॥ ५५ ॥
तेषां खलु द्वीपानामन्तरालेऽन्तरद्वीपा अभिनिर्वृत्ताः। के पुनस्ते कति च?
इत्याह—
वेहा विदेहाः कुरवः कौरवाश्चामरावराः।
अष्टौ तदन्तरद्वीपा गाठा उत्तरमन्त्रिणः ॥ ५६ ॥
तत्र देहविदेहौ पूर्वविदेहपरिवारौ। कुरुकौरवौ उत्तरकुरोः। गाठोत्तर-
मन्त्रिणौ अपरगोदानीयस्य। चामरावरौ जम्बूद्वीपस्य। सर्वे मनुष्यैरावासिताः।
एको राक्षसैरित्यपरे ॥ ५६ ॥
इहोत्तरेण कीटाद्रिनवकाद्धिमवान्,
इहैव जम्बूद्वीपे उत्तरेणास्य जम्बूद्वीपस्य कृष्णपर्वतास्त्रयः, तानतिक्रम्यापरे
त्रयः, पुनश्च त्रयः—इति नवभ्यः कीटपर्वतेभ्यः परेण हिमवान् पर्वतः।
ततः।
पञ्चाशद् विस्तृतायामं सरोऽर्वाग् गन्धमादनात् ॥ ५७ ॥
तस्माद्धिमवतः परेणानवतप्तं नाम सरो गन्धमादनादर्वाक्, यतश्चतस्रो
नद्यः स्रवन्ति—गङ्गा, सिन्धुः, शीता, वक्षुश्च। तस्य पञ्चाशद् योजनानि
विस्तारः। पञ्चाशदायामः। पूर्णमष्टाङ्गस्याङ्गोपेतस्याम्भसः। दुर्गमं च मनुष्याणा-
मनृद्धिमताम्।
तस्यैव चान्तिके जम्बूरभिनिर्वृत्ता, मधुरस्वादूनि यस्याः फलानि।
तदधिकारेणायं¹ जम्बूद्वीप इति ख्यातः। तत्फलाधिकारेण वा जम्बूद्वीप
इति ॥ ५७ ॥
यश्च द्वीपो यदाकृतिरिति। प्रत्यक्षमेतद् भूमिवशात् सत्त्वानां वैचित्र्यम्,
हिमवद्विन्ध्यवासिनां किरातशवराणां गौर-श्यामते दृश्येते ॥ ५५ ॥
“देहा विदेहाः कुरवः” इति। स्थानिनां बहुत्वात् स्थानस्यापि बहुवचन-
निर्देशः। एको राक्षसैरिति। चामरावरयोरन्यतरः ॥ ५६ ॥
“कीटाद्रिनवकात्” इति। कीटाकृतीनां पर्वतानां नवकात्। तदधिकारेणायं
जम्बूद्वीप इति। जम्बुवृक्षाधिकारेण जम्बुवृक्षचिह्नो द्वीपो जम्बूद्वीपः। फलाधि-
१. तस्या अधिकारेणायं—का०।

५१४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कोश-
नरकाः कस्मिन्नवकाशे ? कियत्प्रमाणाश्च ?
अधः सहस्रैर्विंशत्या तन्मात्रोऽवीचिरस्य हि ।
अस्यैव जम्बूद्वीपस्याधो विंशत्या योजनसहस्रैरवीचिर्महानरको
विंशतिसहस्रप्रमाण एवोद्वेधविस्ताराभ्याम् । एवमस्याधरतलमित्रश्चत्वारिंशता योजन-
सहस्रैर्भवति ।
दुःखनिरन्तरत्वादवीचिः । अन्येषु सान्तरं दुःखम् । तद्यथा—सञ्जीवे
च्छिन्नावभिन्नसम्पिष्टशरीराणां शीतला वायवो वान्ति, पुनरपि तान् सत्त्वान्
सञ्जीवयन्ति । अत एव सञ्जीवः ।
नास्मिन् सुखवीचिरस्तीत्यवीचिरित्यपरे । अन्येष्वपि सुखा वेदना विपाको
नास्ति । नैःष्यन्दिनी न वार्यते ।
तदूर्ध्वं सप्त नरकाः,
तस्मादवीचेरूर्ध्वं सप्त नरकाः उपर्युपरि संनिविष्टाः—प्रतापनः, तापनः,
महारौरवः, रौरवः, सङ्घातः, कालसूत्रः, सञ्जीवश्च । अवीचिपार्श्वेष्वित्यपरे ।
ते पुनः—
सर्वेऽष्टौ षोडशोत्सदाः ॥ ५८ ॥
उक्तं हि भगवता—
“इत्येते नरका अष्टावाख्याता दुरतिक्रमाः ।
रौद्रकर्मभिराकीर्णाः प्रत्येकं षोडशोत्सदाः ॥
चतुस्कन्धाश्चतुर्द्वारा विभक्ता भागशोऽसिताः ।
अयःप्राकारपर्यन्ता अयसा प्रतिकुब्जिताः१ ॥
तप्ता चैवायसी भूमिर्ज्वलिता तेजसा युता ।
अनेकयोजनशता स्फुट। तिष्ठति अर्चिषा” ॥ ( ) इति ॥५८॥
कारेण वेति । जम्ब्वाः “लृप् च” ( पा० सू० ४.३.१६६ ) इति फलमपि जम्बू ।
तत्फलचिह्नो जम्बूद्वीप इत्यर्थः ॥ ५७ ॥
चतुस्कन्धा इति । चतुःप्रकारा इत्यर्थः । चतुःसन्निवेशा इत्यपरे । अयः-
प्राकारपर्यन्ता इति । अयःप्राकारपरिक्षिप्ता इत्यर्थः । अयसा प्रतिकुब्जिता
१. प्रतिवजिताः—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ५१५
षोडशोत्सदाः कतमे ?
कुकूलं कुणपं चाथ क्षुरमार्गादिकं नदी ।
तेषां चतुर्दिशम्,
द्वारे द्वारे तेषां चत्वार उत्सदाः—
१. कुकूलं जानुमात्रम् । यत्र तेषां सत्त्वानां निक्षिप्ते संशीर्यते त्वङ्मांस-
शोणितम्, उत्क्षिप्ते पादे पुनरपि सञ्जायते त्वङ्मांसशोणितम् ।
२. कुणपं गूथमृत्तिका । यत्र न्यङ्कुटा नाम प्राणिनः प्रतिवसन्ति सर्वश्वेताः
कृष्णशिरसः सूचिमुखाः, तेषां सत्त्वानां यावदस्थीनि भिन्दन्ति ।
३. ( क ) क्षुरधाराचितो महापथः । यत्र तेषां सत्त्वानामन्वाक्रामतां निक्षिप्ते
पादे सञ्छिद्यते त्वङ्मांसशोणितमिति पूर्ववत् ।
( ख ) असिपत्रवनम् । यत्र तेषां सत्त्वानां तीक्ष्णा असयः सन्नि-
पतन्ति, अङ्गप्रत्यङ्गान्यवकृन्तन्ति, श्यामलशबलाश्च १ श्वानो भक्षयन्ति ।
( ग ) अयःशाल्मलीवनं तीक्ष्णषोडशाङ्गुलकण्टकम् । तेषां सत्त्वानाम-
भिरोहतां कण्टका अवाङ्मुखीभवन्तः कार्यं भिन्दन्ति, अवतरतां चोर्ध्वीभवन्तः ।
अयस्तुण्डाश्च वायसा अक्षीण्युत्पाट्योत्पाट्य भक्षयन्ति ।
तदेतत् क्षुरमार्गादिकं त्रयं शस्त्राभिनिपातं सामान्यादेकीक्रियते ।
४. चतुर्थ उत्सदो नदी वैतरणी पूर्णा २ । यस्यां ते सत्त्वा असिशक्ति-
प्रासहस्तैः पुरुषैरुभाभ्यां तीराभ्यां प्रतिवार्यमाणा ऊर्ध्वमपि गच्छन्तः स्विद्यन्ते
पच्यन्ते, अधस्तिर्यगपि गच्छन्तः स्विद्यन्ते पच्यन्ते । तद्यथा—बहूदकायां
स्थाल्यामग्नावधिश्रितायां तिलतण्डुलादयः । सा हि महानरकस्य परिखेवोत्पन्ना ।
इति । अयसोपरिष्टाच्छादिता । अयसा पिहितद्वारा इत्यपरे । स्फुटेति ।
व्याप्ताः ॥ ५८ ॥
पूर्ववदिति । उत्क्षिप्ते पादे पुनरपि सञ्जायते त्वङ्मांसशोणितमित्यर्थः ।
श्यामलशवलाश्च श्वानो भक्षयन्तीति । असिपत्रवनान्तर्भूताः ।
अयस्तुण्डाश्च वायसा इति । शाल्मलीवनान्तर्भूताः । प्रासाः भिन्दिपालादयः ।
क्षुरमार्गादिकं त्रयमिति । क्षुरमार्गः, असिपत्रवनम्, शाल्मलीवनं चेति त्रयः ।
१. श्यामशब०—का० । २. ०तप्तस्य क्षारोदकस्य—का० ।

५१६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
त एते चत्वार उत्सदा दिग्भेदेन षोडशोच्यन्ते।
अधिकयातनास्थानत्वादुत्सदाः इत्युच्यन्ते। नरकेषु हि पतिता एतेषु
पुनर्यत्यन्ते। आ नरकावरोधादूर्ध्वमेतेषु सीदन्ति, अतस्तदुत्सदा¹ इत्यपरे॥
प्रश्नात् प्रश्नान्तरमुपजायते—किं ते नरकपालाः सत्त्वसंख्याताः, उताहो
नेति ? नेत्येके। कथमिदानीं चेष्टन्ते ? सत्त्वानां कर्मभिर्विवर्तनीवायुवत्²।
यत्तर्हि भदन्तधर्मसुभूतिनोक्तम्—
“क्रोधनाः क्रूरकर्माणः पापाभिरतयश्च ये।
दुःखितेषु च नन्दन्ति जायन्ते यमराक्षसाः”॥ इति।
ये ते यमेनानुशिष्टाः सत्त्वान् नरकस्थानेषु³ प्रक्षिपन्ति त एते यमराक्षसा
उक्ताः, न तु ये कारणाः कारयन्तीति। सत्त्वसंख्याता इत्येके।
तस्येदानीं कर्मणः क्व विपाकः? तेष्वेव नरकेषु हि आनन्तर्यकारिणां
विपाकावकाशस्तत्र तेषां को विप्रतिबन्धः !
अधिकयातनास्थानत्वादुत्सदा इति। उच्छब्दोऽधिकार्थः। अधिकं सीदन्त
अत्रेत्युत्सदाः। पुनर्यतिनदाधिक्यमपरः। नरकेष्विति विस्तरः। अपर इति।
स्थविरमनोरथः। स ऊर्ध्वार्थमुच्छब्दमिति। तेनाह—आ नरकावरोधादवीच्यादि-
नरकावरोधात् ऊर्ध्वमेषु कुक्कुलादिषु सीदन्ति, अतस्तदुत्सदा इति।
प्रश्नात् प्रश्नान्तरमिति। 'षोडशोत्सदाः कतमे' इत्युक्त्वा 'चतुर्थ उत्सदो
वैतरणी, यस्यां सत्त्वा असिशक्तिप्रासहस्तैः पुरुषैरुभाभ्यां तीराभ्यां प्रतिवार्य-
माणादूर्ध्वमपि गच्छन्तः स्विद्यन्ते पच्यन्ते' इति। तस्मादिदं प्रश्नान्तरमुप-
जायते। 'किं ते नरकपाला इति विस्तरः। विवर्तनीवायुवदिति। यथा
विवर्त्तन्यां वायवो भाजनलोकाभिनिवृत्तये चेष्टन्ते, तद्वत् ते भूतभौतिकमात्रा
नरकपाला इति।
यमराक्षसा इति। पापकर्मणः सत्त्वा नरकपाला जायन्त इत्यर्थः।
ये ते यमेनेति। ये ते यमेन देवदूतीयसूत्रोक्तेनानुशासनेनानुशिष्टास्तान्
सत्त्वान् नरकस्थानेषु प्रक्षिपन्ति यमराजधानीनिवासिनः। त एते यमराक्षसा
उक्ताः। न तु ये कारणा यातनाः कारयन्ति असिशक्तिप्रासहस्तादयः। तस्येदानीं
कर्मणः क्व विपाक इति। नरकपालानां नरककृत्यस्य कर्मणः क्व विपाकः।
तेष्वेवेति विस्तरः। येष्वानन्तर्यकारिणां विपाकावकाशस्तेषु नरकेषु तेषां नरक-
१. उत्सदाः—का०। २. ०वायुबीजवत्—का०। ३. नरकेषु—फा०।

निर्देशः ] तृतीयं कोशस्थानम्
कथमग्निना न दह्यन्ते ? अग्नेर्नूनं कर्मभिः कृतावधित्वात्, भूतविशेष-
निवृत्तेर्वा ।
इमे तावदुष्णा अष्टौ महानरका उच्यन्ते ॥
शीता अन्येऽष्टावर्बुदादयः ॥ ५९ ॥
अन्ये शीतानरका अष्टौ । तद्यथा—अर्बुदः, निरर्बुदः, अटठः¹, हहवः,
हुहुवः, उत्पलः, पद्मः, महापद्मश्च ।
तेषां सत्त्वानां तीव्रशीताभिहतानां कायशब्दविकारानुरूपाण्येतानि नामानि।
तेऽप्यस्यैव जम्बूद्वीपस्याधस्तात् महानरकाणां तिर्यक् ।
कुत इयतो जम्बूद्वीपस्याधस्तादवीच्यादीनामवकाशः ? धान्यराशिवदधो
विशाला हि द्वीपाः । अत एव महासमुद्रोऽनुपूर्वनिम्नः ।
इतीमे षोडश नरकाः सर्वे सत्त्वकर्माधिपत्यनिर्वृत्ताः । प्रत्येकं नरकास्तु
स्वैः स्वैः कर्मभिरभिनिर्वृत्ताः। बहूनां सत्त्वानां द्वयोरेकस्य वा। तेषामनेकप्रकल्पो
भेदः स्थानं चानियतम्; नदीपर्वतमरुप्रदेशेष्वन्येषु वाऽधश्च भावात् ।
एष तावन्नरकभाजनानां सन्निवेशः ॥
तिर्यञ्चः स्थलजलाकाशगोचराः । तेषां किल मूलं स्थानं महासमुद्रः, ततो-
ऽन्यत्र विसृता इति ॥
प्रेतानां यमो राजा । तस्य जम्बूद्वीपस्याधस्तात् पञ्चयोजनशतान्तरपरि-
च्छिन्ना राजधानी तेषां मूलस्थानम्, ततोऽन्यत्र विसृताः। केचित् प्रेता महर्द्धिका
देवीमिव श्रियमुद्वहन्ति । शेषा यथा प्रेतावदाने ॥ ५९ ॥
पालानां को विप्रतिबन्धः । एतदुक्तं भवति—तेषामपि तावदानन्तर्यकारिणो
महदानन्तर्यकर्मणो विपाकस्यातिमहतो नरकेष्ववकाशोऽस्ति, किमङ्ग पुनर्न-
रकपालानां यत्कर्म तत् कारणाः कारयतामिति ! कृतावधित्वात् । कृतमर्याद-
त्वान्नरकपालान् प्रति—एते न दग्धव्या इति । भूतविशेषनिवृत्तेर्वा । भूतविशेषा-
स्तादृशास्तेषां कर्मभिरभिनिर्वृत्ताः यत्तेनाग्निना न दह्यन्ते ।
कायशब्दविकारानुरूपाणीति । कायविकारानुरूपाणि—अर्बुदः, निरर्बुदः,
उत्पलः, पद्मः, महापद्मश्चेति नामान्यर्बुदाद्याकारकायत्वात्तत्रत्यानां सत्त्वानाम् ।
शब्दविकारानुरूपाणि—अटठः, हहवः, हुहुव इत्येतानि नामानि । अत एवेति ।
धान्यराशिवदधोविशालत्वात् । बहिरिति नान्तर्गतः ॥ ५९ ॥
१. अटटः—का० ।

५१८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
अथेमौ चन्द्रार्कौ कस्मिन् प्रतिष्ठितौ ? वायौ । वायवोऽन्तरिक्षे सर्वसत्त्व-
साधारणकर्माधिपत्यनिर्वृत्ता आवर्तद्वत् सुमेरुं परिवर्तन्ते । चन्द्रार्कताराणां वोर्ध्व-
चारः ।
कियद्विप्रकृष्टवित्थश्चन्द्रार्कौ ?
अर्धेन मेरोश्चन्द्रार्कौ
युगन्धरगिरेर्मूर्ध्ना समं वहतः ।
किम्प्रमाणौ ? यथाक्रमम्—
पञ्चाशत्सैकयोजनौ ।
पञ्चाशद् योजनानि चन्द्रमण्डलस्य प्रमाणम् । सैकनि पञ्चाशत् सूर्य-
मण्डलस्य प्रमाणम् । एकपञ्चाशदित्यर्थः । तारकाविमानां यस्याल्पप्रमाणम्, प्रमाणं
तस्य क्रोशः । सूर्यविमानस्याधस्ताद् बहिः स्फटिकमण्डलं तैजसमभिनिर्वृत्तं
तापनं प्रकाशनं च । चन्द्रविमानस्याधस्तादाप्यं शीतलं भास्वरं च । प्राणिनां
कर्मभिर्दृष्टिशरीरफलपुष्पशस्यौषधीनामनुग्रहार्थम्, उपघातकार्थं च¹ यथासम्भवम् ।
चतुर्द्वीपके एकश्चन्द्रमाः कृत्यं करोति, एकः सूर्यः ।
किं पुनश्चतुर्द्वीपेषु सूर्यो युगपत् कृत्यं करोति ? नेत्याह । किं तर्हि ? तेषु—
अर्धरात्रोऽस्तङ्गमनं मध्याह्न उदयः सकृत् ॥ ६० ॥
यदोत्तरकुरावर्धरात्रः, तदा पूर्वविदेहे सूर्यस्यास्तङ्गमनम्, जम्बूद्वीपे
मध्याह्नः, गोदानीये उदयः । एवमन्येष्वपि योज्यम् । सूर्यस्येह गतिभेदेन
रात्रिदिवानां वृद्धिह्रासौ ॥ ६० ॥
तत्र पुनः—
तैजसं सूर्यकान्तात्मकम् । आप्यं चन्द्रकान्तात्मकम् । यथासम्भवमिति ।
तदुभयमण्डलं दृष्ट्यादीनां देशकालावस्थान्तरानुरूप्येणानुग्रहार्थमुपघातार्थं च ।
एवमन्येष्वपि योज्यमिति । कथम् ? यदा पूर्वविदेहेऽर्धरात्रस्तदा जम्बूद्वीपे
सूर्यास्तगमनम्, अवरगोदानीये मध्याह्नः, उत्तरावुदयः—इत्येवमन्यत्रापि
योज्यम् ॥ ६० ॥
१. का० पुस्तके नास्ति ।

निर्देशः ] तृतीयं कोशस्थानम् ५१९.
प्रावृण्मासे द्वितीयेऽन्त्यनवम्यां वर्धते निशा ।
वर्षाणां द्वितीये मासे भाद्रपदे द्वितीयस्य पक्षस्य नवम्यां वर्धते रात्रिः ।
हेमन्तानां चतुर्थे तु हीयते,
सैव हेमन्तानां चतुर्थे मासे पुनर्हीयते । अन्त्यनवम्यामिति वर्तते ।
फाल्गुनमासस्य द्वितीयपक्षनवम्यान् ।
अहर्विपर्ययात् ॥ ६१ ॥
यदा रात्रिर्वर्धते तदा दिवसो हीयते । यदा रात्रिर्हीयते तदा दिवसो
वर्धते ॥ ६१ ॥
कियत्या मात्रया वर्धते ?
लवशो राज्यहर्वृद्धी,
लवं लवं रात्रिर्वर्धते, दिवसो वा । ते च हानिवृद्धी यथाक्रमं—
दक्षिणोत्तरगे रवौ ।
जम्बूद्वीपस्य दक्षिणं पार्श्वं गच्छति भास्करे रात्रिवृद्धिः, उत्तरं गच्छत्य-
हर्वृद्धिः ॥
शुक्लपक्षस्यादौ चन्द्रमसो विकलं मण्डलं दृश्यते, किं तत्र कारणम् ?
स्वच्छाययाऽर्कसामीप्याद् विकलेन्दुसमीक्षणम् ॥ ६२ ॥
यदा हि सौरस्य विमानस्यासन्ने चान्द्रमसं विमानं वहति तदा किल सौर्यो
भासस्तस्मिन् विमाने पतन्ति, ततोऽपरपार्श्वे छाया पतन्ती विकलं मण्डलं
दर्शयतीति प्राज्ञप्तिको निर्देशः ।
“प्रावृण्मासे द्वितीयेऽन्त्यनवम्याम्” इति । प्रावृण्मासाश्चत्वारः—श्रावणो
यावत् कार्त्तिकः । सर्वे च मासाः कृष्णपक्षाद्याः । तत्र भाद्रपदशुक्लपक्षनवम्यां
रात्रिर्वर्धते ।
हेमन्तकानां चतुर्थे हीयते । हेमन्ता मासाश्चत्वारः—मार्गशीर्षाद्याः फाल्गु-
नान्ताः । तत्र फाल्गुनशुक्लपक्षनवम्यां हीयते ॥ ६१ ॥
“लवशः” इति लवं लवम्, “कालाध्वनोरत्यन्तसंयोगे” (पा० सू० २.३.५)
द्वितीया ।
अपरपार्श्वे छाया पतन्ती विकलमण्डलं दर्शयति । तद्यथा—स्तम्भे प्रदीप-
च्छाया पतन्ती यथा यथा स्तम्भ आसन्नो भवति, तथा तथा स्तम्भः

वाह्ययोगः स तादृशो भवति यत् कदाचिद् विमानस्यार्धं दृश्यत इति पूर्वा-
चार्याः ॥
अथैतानि सूर्यादिविमानानि कतमे सत्त्वा अध्यावसन्ति ? देवाश्चातुर्महा-
राजकायिकाः ।
किमेतान्येव तेषां स्थानानि ? विमानवासिनामेतानि । भूमिनिवासिनां
पुनः सुमेरुपरिषण्डादीनि ॥ ६२ ॥
कति चास्य परिषण्डाः ? कियत्यो वा ?
परिषण्डाश्चतस्रोऽस्य दशसाहस्रिकान्तराः ।
दशयोजनसहस्राण्युद्गम्यैका, एवं यावच्चतुर्थी। ताभिः सुमेरुरर्धमाक्षिप्तम् ।
ताश्च ततो यथासंख्यम्—
षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः ॥ ६३ ॥
प्रथमा परिषण्डा षोडश सहस्राणि योजनानां सुमेरोर्निर्गता ।
द्वितीयाऽष्टौ । तृतीया चत्वारि । चतुर्थी द्वे ॥ ६३ ॥
करोटपाणयस्तासु मालाधारास्सदामदाः ।
महाराजिकदेवाश्च,
प्रथमायां परिषण्डायां करोटपाणयो नाम यक्षाः प्रतिवसन्ति । द्वितीयायां
मालाधाराः । तृतीयायां सदामदाः सदामत्ताः । सर्व एते चातुर्महाराज-
स्वच्छाययाच्छाद्यते—दूरे हि वर्तमाने प्रदीपे परिपूर्णस्तम्भो दृश्यते, किञ्चि-
दासन्ने किञ्चित् क्षीयते, यावदासन्ने स्तम्भो नष्टरूपो वर्तते; तद्वदेतत् ।
वाह्ययोग स तादृश इति । पुनस्तियंगवनामोन्नामयोगेनाधोभागश्चन्द्र-
मण्डलस्य क्षीयते, ऊर्ध्वं वर्धते चेति योगाचाराः ।
चातुर्महाराजकायिका इति । चतुर्महाराजानं कायः, तत्र भवाश्चातुर्महा-
राजकायिकाः ।
सुमेरुपरिषण्डादीनीति । आदिशब्देन युगन्धरादीनि ॥ ६२ ॥
“दशसाहस्रिकान्तराः” इति । योजनदशसहस्रप्रमाणान्तरा इत्यर्थः ।
अर्धमाक्षिप्तमिति । अर्धमवष्टब्धम् ॥ ६३ ॥
“सदामदाः” इति । 'सदामत्ताः' वक्तव्ये श्लोकबन्धानुगुण्येन 'सदामदाः'
इत्युक्तम्; अर्थैकत्वात् ।

निर्देशः ] तृतीयं कोशस्थानम् ५२१
कायिकाः । चतुर्थ्यां¹ चत्वारो महाराजाः स्वयं प्रतिवसन्ति, तत्परिचाराश्च ।
अतस्तस्यां चातुर्महाराजकायिका² देवा इत्युक्तम् ।
यथा परिषण्डासु चतुर्महाराजकायिका देवाः, एवं
पर्वतेष्वपि सप्तसु ॥ ६४ ॥
युगन्धरादि पर्वतेषु तेषां ग्रामनिगमाः । अत एवैष देवनिकायः सर्वेषां
महिष्ठः ॥ ६४ ॥
मेरुमूर्ध्नि त्रयस्त्रिंशाः,
अथ कियान् मेरुमूर्धा ?
स चाशीतिसहस्रदिक् ।
एकैकपार्श्वमशीतिसहस्राणि यथैवाधस्तात् ।
अन्ये पुनराहुः—स विंशतिसहस्रदिक् । चत्वारि पार्श्वान्यस्य चतस्रो
दिशः । एकैकं पार्श्वं विंशतियोजनसहस्राणि, समन्तात् परिक्षेपेणाशीतिरिति ।
तस्य च—
विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः ॥ ६५ ॥
सुमेरुमूर्ध्नो विदिशः कोणाः, तासु पञ्चयोजनशतप्रमाणाश्चत्वारः कूटा
अभ्युद्गताः, येषु वज्रपाणयो नाम यक्षाः प्रतिवसन्ति ॥ ६५ ॥
तस्य च मेरुमूर्द्ध्नः—
चतुर्थ्यां चत्वारो महाराजाः³ स्वयं प्रतिवसन्तीति । धृतराष्ट्रः पूर्वदिग्भागे,
विरूढको दक्षिणे, विरूपाक्षः पश्चिमे, वैश्रवण उत्तरस्मिन्नित्यनुक्रमोऽवगन्तव्यः ।
चातुर्महाराजिका देवा इत्युक्तमिति । यस्माच्चतुर्थ्यां परिषण्डायां चत्वारो महा-
राजानः स्वयं प्रतिवसन्ति, अत एवमुक्तम्—"महाराजिकदेवाः" इति । महाराजे
भवा इति कृत्वा । महिष्ठो महत्तमः ॥ ६४ ॥
स विंशतिसहस्रदिगिति । यद्येवम्, कथमिदमुक्तम्—"समुच्छ्रायघनाश्च ते"
(अभि० को० ३.५१) इति ? मध्यभागमेवाभिसमीक्ष्यैवमुक्तमिति तेषामभि-
प्रायः ॥ ६५ ॥
१. चतुर्थ्यां तु—का० । २. महाराज०—का० ।
३. महाराजानः—इति मुद्रित पाठः ।

३५२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ को०-
मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम् ।
पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु ॥ ६६ ॥
सुमेरुतलस्य मध्ये सुदर्शनं नाम नगरं दैर्घ्ये सार्धतृतीययोजनसहस्रे
एकैकं पार्श्वमुच्छ्रायेणाप्यध्यर्धयोजनम् । प्राकारः सौवर्णः । एकोत्तरेण धातु-
शतेनास्य भूमिश्चित्रा । तच्च भूमितलं तूलपिचुवत् मृदुसंस्पर्शं पादक्षेपो-
त्क्षेपाभ्यां नतोन्नतम् । शक्रस्य देवानामिन्द्रस्य राजधानी ॥ ६६ ॥
सार्धद्विशतपार्श्वोऽत्र वैजयन्तः,
शक्रस्य देवानामिन्द्रस्य वैजयन्तो नाम प्रासादो नगरस्य मध्ये नानारत्न-
स्थानविधानसम्पदा सर्वान्यभवनश्रीमहिम्ना हेपणः, दैर्घ्येणार्धतृतीये योजनशते
पार्श्वं पार्श्वम् । इयं तावन्नगरस्याभिरमता ।
बहिः पुनः ।
तच्चैत्ररथ-पारुष्य-मिश्र-नन्दनभूषितम् ॥ ६७ ॥
तस्य हि नगरस्य बहिश्चतुर्षु पार्श्वेषु चत्वार्युद्यानादीनि देवानां क्रीडा-
भूमयः । चैत्ररथमुद्यानम्, पारुष्यकम्, मिश्रकावणम्, नन्दनवनं च ।
तैस्तन्नगरं बहिरलंकृतम् ॥ ६७ ॥
विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम् ।
एषां चोद्यानानां चतुर्दिशं चत्वारि सुभूमीनि विंशतियोजनान्यतिक्रम्य¹
अध्यर्धमिति । अधिकमर्धमस्मिन्निति । अध्यर्धं योजनमस्येति "अध्यर्ध-
योजनम्" । 'समुच्छ्रायेण' इत्यध्याहार्यम् ॥ ६६ ॥
धातुशतेन रङ्गशतेन । नानारत्नस्थानविधानसम्पदेति । नानारत्नविधान-
सम्पदा, नानास्थानविधानसम्पदा च । सर्वान्यभवनानां श्रियस्तासां महिमानो
महत्त्वानि । हेपणः । लज्जनः । लज्जाजनक इत्यर्थः । दैर्घ्येणार्धतृतीये योजनशते
पार्श्वमिति । एकं पार्श्वमेतत्प्रमाणम् । यावच्चतुर्थमप्येतत्प्रमाणमिति ।
चैत्ररथादीन्यपि चतुरस्राण्यर्धद्विशतपार्श्वानि ॥ ६७ ॥
"सुभूमीनि" इति । शोभना भूमय एषामिति सुभूमानि क्रीडास्थानानि ।
"चतुर्दिशमिति" । चतस्रो दिशा अस्येति चतुर्दिशं क्रियाविशेषणम् । भागुरि-
मतेन दिक्शब्द आकारान्तो भवति । विंशतियोजनान्यतिक्रम्येति । क्रीडा-
१. योजनान्तरितानि—का० ।