वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
बहुरूपाय मुण्डाय दण्डिनेऽथ वरूथिने । नमः कपालहस्ताय दिग्वासाय शिखण्डिने ॥ ७७
[अ० ५४ श्लो० ७५--९६] वायुपुराणम् । १७९
(नीलकण्ठस्तवः)
चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः । भक्तानामार्त्तिनाशाय नरनारायणाय च ॥ ७५
उमाप्रियाय शर्वाय नन्दिचक्राङ्किताय च । पक्षमासार्धमासाय नमः संवत्सराय च ॥ ७६
बहुरूपाय मुण्डाय दण्डिनेऽथ वरूथिने । नमः कपालहस्ताय दिग्वासाय शिखण्डिने ॥ ७७
ध्वजिने रथिने चैव येमिने ब्रह्मचारिणे । ऋग्यजुःसामवेदाय पुरुषायेश्वराय च ॥
इत्येवमादिचरितैस्तुभ्यं देव नमोऽस्तु ते ॥ ७८
श्रीमहादेव उवाच--
एवं स्तुत्वा ततो देवः प्रणिपत्य वरानने ॥ ७९
ज्ञात्वा तु भक्तिं मम देवदेवो गङ्गाजलाप्लावितकेशदेशः ॥
सूक्ष्मोऽतियोगातिशयादचिन्त्यो न हि प्लुतो व्यक्तमुपैति चन्द्रः ॥ ८० ॥
एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा । स्तुतोऽहं विविधैस्तोत्रैर्वेदवेदाङ्गसंभवैः ॥ ८१
ततः प्रीतोऽस्म्यहं तस्मै ब्रह्मणे सुमहात्मने । ततोऽहं सूक्ष्मया वाचा पितामहमथाब्रुवम् ॥ ८२
भगवन्भूतभव्येश लोकनाथ जगत्पते । किं कार्यं ते मया ब्रह्मन्कर्तव्यं वद सुव्रत ॥ ८३
श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचाम्बुजेक्षणः । भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर ॥ ८४
सुरासुरैर्मथ्यमाने पयोधावम्बुजेक्षण । भगवन्मेघसंकाशं नीलजीमूतसंनिभम् ॥ ८५
प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम् । कालमृत्युखिरोद्भूतं युगान्तादित्यवर्चसम् ॥ ८६
त्रैलोक्योत्सादनार्थं विस्फुरन्तं समन्ततः । अग्रे समुत्थितं तस्मिन्विषं कालानलप्रभम् ॥ ८७
तं दृष्ट्वा तु वयं सर्वे भीताः संभ्रान्तचेतसः । तत्पिबस्व महादेव लोकानां हितकाम्यया ॥
भवानग्रस्य भोक्ता वै भवांश्चैव वरः प्रभु ॥ ८८
त्वामृतेऽन्यो महादेव विषं सोढुं न विद्यते । नास्ति कश्चित्पुमांश्शक्तस्त्रैलोक्येषु च गीयते ॥
एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः । बाढमित्येव तद्वाक्यं प्रतिगृह्य वरानने ॥ ८९
ततोऽहं पातुमारब्धो विषमन्तकसंनिभम् । पिबतो मे महाघोरं विषं सुरभयंकरम् ॥
कण्ठः समभवत्तूर्णं कृष्णो मे वरवर्णिनि ॥ ९०
तं दृष्ट्वोत्पलपत्राभं कण्ठे सकमिवोरगम् । तक्षकं नागराजानं लेलिहानमिव स्थितम् ॥ ९१
अथोवाच महातेजा ब्रह्मा लोकपितामहः । शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ॥ ९२
ततस्तस्य वचः श्रुत्वा मया गिरिवरात्मजे । पश्यतां देवसंघानां दैत्यानां च वरानने ॥ ९३
यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम् । धृतं कण्ठे विषं घोरं नीलकण्ठस्ततो ह्यहम् ॥ ९४
तत्कालकूटं विषमुग्रतेजः कण्ठे मया पर्वतराजपुत्रि ।
निवेश्यमानं सुरदैत्यसंघो दृष्ट्वा परं विस्मयमाजगाम ॥ ९५ ॥
ततः सुरगणाः सर्वे सदैत्योरगराक्षसाः । ऊचुः प्राञ्जलयो भूत्वा मत्तमातङ्गगामिनि ॥ ९६
| १८० | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० ५४ श्लो० ९७-११५] |
|---|---|---|
| ( नीलकण्ठस्तवः ) |
अहो बलं वीर्यपराक्रमस्ते अहो पुनर्योगबलं तथैव ।
अहो प्रभुत्वं तव देवदेव गङ्गाजलास्फालितमुक्तकेश ॥ ९७
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्युर्वरदस्त्वमेव ।
त्वमेव सूर्यो रजनिकरश्च त्वमेव भूमिः सलिलं त्वमेव ॥ ९८
त्वमेव यज्ञो नियमस्त्वमेव त्वमेव भूतं भविता त्वमेव ।
त्वमेव चाऽऽदिनिधनं त्वमेव स्थूलश्च सूक्ष्मः पुरुषस्त्वमेव ॥ ९९
त्वमेव सूक्ष्मस्य परः परस्य त्वमेव वह्निः पवनस्त्वमेव ।
त्वमेव सर्वस्य चराचरस्य लोकस्य कर्ता प्रलये च गोप्ता ॥ १००
इतीदमुक्त्वा वचनं सुरेन्द्राः प्रगृह्य सोमं प्रणिपत्य मूर्ध्ना ।
गता विमानैरनिगृह्यवेगैर्महात्मनो मेरुमुपेत्य सर्वे ॥ १०१
इत्येतत्परमं गुह्यं पुण्यात्पुण्यतरं महत् । नीलकण्ठेति यत्प्रोक्तं विख्यातं लोकविश्रुतम् ॥ १०२
स्वयं स्वयंभुवा प्रोक्तां कथां पापप्रणाशनीम् । यस्तु धारयते नित्यमेनां ब्रह्मोद्भवो कथाम् ॥
तस्याहं संप्रवक्ष्यामि फलं वै विपुलं महत् ॥ १०३
विषं तस्य वरारोहे स्थावरं जङ्गमं तथा । गात्रं प्राप्य तु सुश्रोणि क्षिप्रं तत्प्रतिहन्यते ॥ १०४
शमयत्यशुभं घोरं दुःस्वप्नं चापकर्षति । स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ॥ १०५
विवादे जयमाप्नोति युद्धे शूरत्वमेव च । गच्छतः क्षेममध्वानं गृहे च नित्यसंपदः ॥ १०६
शरीरभेदे वक्ष्यामि गतिं तस्य वरानने । नीलकण्ठो हरिच्छ्मश्रुः शशाङ्काङ्कितमूर्धजः ॥ १०७
त्र्यक्षस्त्रिशूलपाणिश्च वृषयानः पिनाकधृक् । नन्दितुल्यबलः श्रीमान्नन्दितुल्यपराक्रमः ॥ १०८
विचरत्याचिरात्सर्वान्सर्वलोकान्ममाऽऽज्ञया । न हन्यते गतिस्तस्य अनिलस्य यथाऽम्बरे ॥
मम तुल्यबलो भूत्वा तिष्ठत्याभूतसंप्लवम् ॥ १०९
मम भक्ता वरारोहे ये च शृण्वन्ति मानवाः । तेषां गतिं प्रवक्ष्यामि इह लोके परत्र च ॥ ११०
ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम् । वैश्यस्तु लभते लाभं शुद्रः सुखमवाप्नुयात् ॥ १११
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । गुर्विणी लभते पुत्रं कन्या विन्दति सत्पतिम् ॥
नष्टं च लभते सर्वमिह लोके परत्र च ॥ ११२
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । तत्फलं भवति श्रुत्वा विभोर्दिव्यामिमां कथाम् ॥ ११३
पादं वा यदि वाऽप्यर्धं श्लोकं श्लोकार्धमेव वा । यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ॥ ११४
+( इतिहासमेनं गिरिराजपुत्रि मया सुतुष्टेन तवाम्बुजेक्षणे ।
निवेदितं पुण्यफलादियुक्तं मया च गीतं चतुराननेन ) । ११५
+ धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।
[अ० ५४-५५ श्लो० ११६-११७-१-१७] वायुपुराणम् १८१
(लिङ्गोद्भवस्तवः)
कथामिमां पुण्यफलादियुक्तां निवेद्य देव्याः शशिबद्धमूर्धजः ।
वृषस्य पृष्ठेन सहोमया प्रभुर्जगाम किष्किन्धगुहां गुहप्रियः ॥ ११६
क्रान्तं मया पापहरं महापर्द निवेद्य तेभ्यः प्रददौ प्रभञ्जनः ।
अधीत्य सर्वे त्वखिलं सलक्षणं जगाम आदित्यपथं द्विजोत्तमाः ॥ ११७
इति महापुराणे वायुप्रोक्ते नीलकण्ठस्तवो नाम चतुष्पञ्चाशोऽध्यायः ॥ ५४ ॥
आदितः श्लोकानां समष्ट्यङ्काः--४१५२
अथ पञ्चपञ्चाशोऽध्यायः ।
लिङ्गोद्भवस्तवः ।
ऋषय ऊचुः--
गुणकर्मप्रभावैश्च कोऽधिको वदतां वरः । श्रोतुमिच्छामहे सम्यगैश्वर्यगुणविस्तरम् ॥ १
सूत उवाच--
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । महादेवस्य माहात्म्यं विभुत्वं च महात्मनः ॥ २
वै त्रैलोक्यविजये विष्णुना समुदाहृतम् । बलिं बद्ध्वा महौजास्तु त्रैलोक्याधिपतिः पुरा ॥ ३
प्रनष्टेषु च दैत्येषु प्रहृष्टे च शचीपतौ । अथाऽऽजग्मुः प्रभुं द्रष्टुं सर्वे देवाः सवासवाः ॥ ४
यत्राऽऽस्ते विधरूपारमा क्षीरोदस्य समीपतः । सिद्धब्रह्मर्षयो यक्षा गन्धर्वाप्सरसां गणाः ॥ ५
नागा देवर्षयश्चैव नद्यः सर्वे च पर्वताः । अभिगम्य महात्मानं स्तुवन्ति पुरुषं हरिम् ॥ ६
त्वं धाता त्वं च कर्ताऽस्य त्वं लोकान्सृजसि प्रभो । त्वत्प्रसादाच्च कल्याणं प्राप्तं त्रैलोक्यमव्ययम्
असुराश्च जिताः सर्वे बलिर्बद्धश्च वै त्वया ॥ ७
एवमुक्तः सुरैर्विष्णुः सिद्धैश्च परमर्षिभिः । प्रत्युवाच ततो देवान्सर्वांस्तान्पुरुषोत्तमः ॥ ८
श्रूयतामभिधास्यामि कारणं सुरसत्तमाः । यः स्रष्टा सर्वभूतानां कालः कालकरः प्रभुः ॥ ९
येनहं ब्रह्मणा सार्धं सृष्टा लोकाश्च मायया । तस्यैव च प्रसादेन आदौ सिद्धत्वमागतम् ॥ १०
पुरा तमसि चाव्यक्ते त्रैलोक्ये ग्रासिते मया । उदरस्थेषु भूतेषु लोकेऽहं शयितस्तदा ॥ ११
सहस्रशीर्षो भूत्वाऽथ सहस्राक्षः सहस्रपात् । शङ्खचक्रगदापाणिः शयितो विमलेऽम्भसि ॥ १२
एतस्मिन्नन्तरे दूरात्पश्यामि ह्यमितप्रभम् । शतसूर्यप्रतीकाशं ज्वलन्तं स्वेन तेजसा ॥ १३
चतुर्वक्त्रं महायोगं पुरुषं काञ्चनप्रभम् । कृष्णाजिनधरं देवं कमण्डलुविभूषितम् ॥
निमेषान्तरमात्रेण प्राप्तोऽसौ पुरुषोत्तमः ॥ १४
ततो मामब्रवीद्ब्रह्मा सर्वलोकनमस्कृतः । कस्त्वं कुतो वा किं चेह तिष्ठसे वद मे विभो ॥ १५
अहं कर्ताऽस्मि लोकानां स्वयंभूर्विश्वतोमुखः । एवमुक्तस्तदा तेन ब्रह्मणाऽहमुवाच तम् ॥ १६
अहं कर्ता च लोकानां संहर्ता च पुनः पुनः । एवं संभाषमाणाभ्यां परस्परजयैषिणाम् ॥
उत्तरां दिशमास्थाय ज्वाला दृष्टाऽव्यधिष्ठिता ॥ १७
१८२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ५५ श्लो० १८-४२]
( लिङ्गोद्भवस्तवः )
ज्वालां ततस्तामालोक्य विस्मितौ च तदाऽनघाः । तेजसा चैव तेनाथ सर्वं ज्योतिष्कृतं जलम् ॥ १८
वर्धमाने तदा वह्नावत्यन्तपरमाद्भुते । अतिदुद्रावं तां ज्वालां ब्रह्मा चाहं स सत्वरौ ॥ १९
दिवं भूमिं च विष्टभ्य तिष्ठन्तं ज्वालमण्डलम् । तस्य ज्वालस्य मध्ये तु पश्यावो विपुलप्रभम् ॥ २०
प्रादेशमात्रमव्यक्तं लिङ्गं परमदीपितम् । न च तत्काञ्चनं मध्ये न शैलं न च राजतम् ॥ २१
अनिर्देश्यमचिन्त्यं च लक्ष्यालक्ष्यं पुनः पुनः । महौजसं महाघोरं वर्धमानं भृशं तदा ॥ २२
ज्वालामालायतं न्यस्तं सर्वभूतभयंकरम् ॥
अस्य लिङ्गस्य योऽन्तं वै गच्छेते मन्त्रकारणम् । घोररूपणिमत्यर्थं भिन्दन्तामिव रोदसी ॥ २३
ततो मामब्रवीद्ब्रह्मा अधो गच्छत्वतन्द्रितः । अन्तमस्य विजानीमो लिङ्गस्य तु महात्मनः ॥ २४
अहमूर्ध्वं गमिष्यामि यावदन्तोऽस्य दृश्यते । तदा तौ समयं कृत्वा गतावूर्ध्वमधश्च ह ॥ २५
ततो वर्षसहस्रं तु अहं पुनरधो गतः । न च पश्यामि तस्यान्तं भीतश्चाहं न संशयः ॥ २६
तथा ब्रह्मा च श्रान्तश्च न चान्तं तस्य पश्यति । समागतो मया सार्धं तत्रैव च महाम्भसि ॥ २७
ततो विस्मयमापन्नावुभौ तस्य महात्मनः । मायया मोहितौ तेन नष्टसंज्ञौ व्यवस्थितौ ॥ २८
ततो ध्यानगतं तत्र ईश्वरं सर्वतोमुखम् । प्रभवं निधनं चैव लोकानां प्रभुमव्ययम् ॥ २९
बद्धाञ्जलिपुटौ भूत्वा तस्मै शर्वाय शूलिने । महाभैरवनादाय भीमरूपाय दंष्ट्रिणे ॥
अव्यक्ताय महान्ताय नमस्कारं प्रकुर्महे ॥ ३०
नमोऽस्तु ते लोकसुरेश देव नमोऽस्तु ते भूतपते महान्त ।
नमोऽस्तु ते शाश्वत सिद्धयोने नमोऽस्तु ते सर्वजगत्प्रतिष्ठ ॥ ३१
परमेष्ठि( ष्ठी ) परं ब्रह्म अक्षरं परमं पदम् । अष्टस्त्वं वामदेवश्च रुद्रः स्कन्दः शिवः प्रभुः ॥ ३२
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परं पदम् । स्वाहाकारो नमस्कारः संस्कारः सर्वकर्मणाम् ॥ ३३
स्वधाकारश्च जाप्यश्च व्रतानि नियमास्तथा । वेदा लोकाश्च देवाश्च भगवानैव सर्वशः ॥ ३४
आकाशस्य चै शब्दस्त्वं भूतानां प्रभवाव्ययम् । भूमेर्गन्धो रसश्चापां तेजोरूपं महेश्वर ॥ ३५
वायोः स्पर्शश्च देवेश वपुश्चन्द्रसम(मस)स्तथा । बुधो ज्ञानं च देवेश प्रकृतौ बीजमेव च ॥ ३६
त्वं कर्ता सर्वभूतानां कालो मृत्युर्यमोऽन्तकः । त्वं धारयसि लोकांस्त्रींस्त्वमेव सृजसि प्रभो ॥ ३७
पूर्वेण वदनेन त्वमिन्द्रत्वं(स्त्वं) च प्रकाशसे । दक्षिणेन च वक्त्रेण लोकान्सांक्षियसि प्रभो ॥ ३८
पश्चिमेन तु वक्त्रेण वरुणत्वं करोषि वै । उत्तरेण तु वक्त्रेण सौम्यत्वं च व्यवस्थितम् ॥ ३९
राजसे बहुधा देव लोकानां प्रभवायव्यः । आदित्या वसवो रुद्रा मरुतश्चाश्विनीसुतौ ॥ ४०
साध्या विद्याधरा नागाश्चारणाश्च तपोधनाः । वालखिल्या महात्मानस्तपःसिद्धाश्च सुव्रताः ॥ ४१
त्वत्तः प्रसूता देवेश ये चान्ये नियतव्रताः । उमा सीता सिनीवाली कुहूर्गायत्रिरेव च ? ॥ ४२
| [अ०५५श्लो०४३-६०] | वायुपुराणम् । | १८३ |
|---|
( लिङ्गोद्भवस्तवः )
लक्ष्मीः कीर्तिर्धृतिर्मेधा लज्जा क्षान्तिर्वपुः स्वधा । तुष्टिः पुष्टिः क्रिया चैव वाचां देवीं सरस्वती
त्वत्तः प्रसूता देवेश संध्या रात्र्रिस्तथैव च ॥ ४३
सूर्यायुतानामयुतप्रभाव नमोऽस्तु ते चन्द्रसहस्रगोचर ।
नमोऽस्तु त पर्वतरूपधारिणे नमोऽस्तु ते सर्वगुणाकराय ॥ ४४
नमोऽस्तु ते पट्टिशरूपधारिणे नमोऽस्तु ते चर्मविभूतिधारिणे ।
नमोऽस्तु ते रुद्रपिनाकपाणये नमोऽस्तु ते शायकचक्रधारिणे ॥ ४५
नमोऽस्तु ते भस्मविभूताभूषिताङ्ग नमोऽस्तु ते कामशरिरनाशन ।
नमोऽस्तु ते देव हिरण्यवाससे नमोऽस्तु ते देव हिरण्यवाहवे ॥ ४६
नमोऽस्तु ते देव हिरण्यरूप नमोऽस्तु ते देव हिरण्यनाभ ।
नमोऽस्तु ते नेत्रसहस्रचित्र नमोऽस्तु ते देव हिरण्यरेतः ॥ ४७
नमोऽस्तु ते देव हिरण्यवर्ण नमोऽस्तु ते देव हिरण्यगर्भ ।
नमोऽस्तु ते देव हिरण्यचीर नमोऽस्तु ते देव हिरण्यदायिने ॥ ४८
नमोऽस्तु ते देव हिरण्यमालिने नमोऽस्तु ने देव हिरण्यवाहिने ।
नमोऽस्तु ते देव हिरण्यवर्त्मने नमोऽस्तु ते भैरवनादनादिने ॥ ४९
नमोऽस्तु ते भैरववेगवेग नमोऽस्तु ते शंकर नीलकण्ठ ।
नमोऽस्तु ते दिव्यसहस्रबाहो नमोऽस्तु ते नर्तनवादनप्रिय ॥ ५०
एवं संस्तूयमानस्तु व्यक्तो भूत्वा महामतिः । भाति देवो महायोगी सूर्यकोटिसमप्रभः ॥ ५१
अभिभाष्यस्तदा हृष्टो महादेवो महेश्वरः । वक्त्रकोटिसहस्रेण ग्रसमान इवाम्बरम् ॥ ५२
एकग्रीवस्त्वेकजटो नानाभूषणभूषितः । नानारत्नावाचित्राङ्गो नानामाल्यानुलेपनः ॥ ५३
पिनाकपाणिर्भगवान्वृषभासनशूलधृक् । दण्डकृष्णाजिनधरः कपाली घोररूपधृक् ॥ ५४
व्यालयज्ञोपवीती च सुराणामभयंकरः । दुन्दुभिस्वननिर्घोषपर्जन्यनिनदोपमः ॥ ५५
मुक्तो हासस्तदा तेन नभः सर्वमपूरयत् ॥ ५६
तेन शब्देन महता वयं भीता महात्मनः । तदोवाच महायोगी प्रीतोऽहं सुरसत्तमौ ॥ ५७
पश्येतां च महामायां भयं सर्वं प्रमुच्यताम् । युवां प्रसूतौ गात्रेषु मम पूर्वं सनातनौ ॥ ५७
अयं मे दक्षिणो बाहुर्ब्रह्मा लोकपितामहः । वामो बाहुश्च मे विष्णोर्नित्यं युद्धेषु तिष्ठति ॥
प्रीतोऽहं युवयोः सम्यग्वरं दद्मि यथेप्सितम् ॥ ५८
ततः प्रहृष्टमनसौ प्रणतौ पादयोः पुनः । ऊचतुश्च महात्मानौ पुनरेव तदाऽनघौ ॥ ५९
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ । भक्तिर्भवतु नो नित्यं त्वयि देव सुरेश्वर ॥ ६०