वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पीनवृत्तायतस्कन्धं सिंहविक्रान्तगामिनम् । पीनोन्नतकटिदेशं सुलक्षणं शुभलक्षणम् ॥ १४
१८ श्रीमद्वैपायनमुनिप्रणीतम्– [ अ०१ श्लो०१०-३८ ]
( सृष्टिप्रकरणम् )
सलिलेनाऽऽप्लुतां भूमिं दृष्ट्वा स तु समन्ततः । किं नु रूपं महत्कृत्वा उद्धरेयमहं महीम् ॥ १०
जलक्रीडासु रुचिरं वाराहं रूपमस्मरत् । अवृष्यं सर्वभूतानां वाङ्मयं धर्मसंज्ञितम् ॥ ११
दशयोजनविस्तीर्णं शतयोजनमुच्छ्रितम् । नीलमेघप्रतीकाशं मेघस्तनितनिस्वनम् ॥ १२
महापर्वतवप्माणं श्वेतं तीक्ष्णायदंष्ट्रिणम् । विद्युदग्निप्रकाशाक्षमादित्यसमतेजसम् ॥ १३
पीनवृत्तायतस्कन्धं सिंहविक्रान्तगामिनम् । पीनोन्नतकटिदेशं सुलक्षणं शुभलक्षणम् ॥ १४
रूपमास्थाय विपुलं वाराहममितं हरिः । पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ १५
स वेदपाद्यूपदंष्ट्रः क्रतुवक्षास्थितीमुखः । अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो(र्षा) महातपाः ॥ १६
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः । आज्यनाशः(सः) सुवतुण्डः सामघोषस्वनो महान् ॥ १७
सत्यधर्ममयः श्रीमान्धर्मविक्रमसंस्थितः । प्रायश्चित्तरथो घोरः पशुजानुर्महाकृतिः ॥ १८
उद्गात्रन्त्रो होमलिङ्गः स्थानबीजी महौषधिः । वेद्यन्तरात्मा मन्त्रस्फिगाज्यस्पृक्सोमशोणितः ॥ १९
वेदस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् । प्राग्वंशकायो द्युतिमानानादीक्षाभिरन्वितः ॥ २०
दक्षिणाहृदयो योगी महासत्रमयो विभुः । उपाकर्मेष्ठिरुचिरः प्रवर्गीवित्तभूषणः । २१
नानाछन्दोगतिपथो गुह्योपनिषदासनः । छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः ॥ २२
भूत्वा यज्ञवराहो वै अपः स प्राविशत्प्रभुः । ( *अद्भिः संछादितामुर्वी स तामभ्यन्प्रजापतिः ॥ २३
उपगम्योज्जहाराऽऽशु अपस्ताश्च स विन्यसन् । सामुद्रीर्वै समुद्रेषु नादेयीश्च नदीष्वथ ॥ २४
रसातलतले ) मग्नां रसातलतले गताम् । प्रभूर्लोकहितार्थाय दंष्ट्रयाऽभ्युज्जहार गाम् ॥ २५
ततः स्वस्थानमानीय पृथिवीं पृथिवीकरः । मुमोच पूर्वं मनसा धारयित्वा धराधरः । २६
तस्योपरि जलौघस्य महती नौरिव स्थिता । चारित्वाच्च देहस्य न मही याति विप्लवम् ॥ २७
ततोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया । पृथिव्याः पविभागाय मनश्चक्रेऽम्बुजेक्षणः ॥ २८
पृथिवीं तु समीकृत्य पृथिव्यां सोऽचिनोद्गिरीन् । प्राक्सर्गे दह्यमानास्तु तदा संवर्तकाग्निना ॥ २९
तेनाग्निना विशीर्णास्ते पर्वता भुवि सर्वशः । शैत्यादेकार्णवे तस्मिन्वायुनाऽऽपस्तु संहताः ॥ ३०
निष्पिक्ता यत्र यत्राऽऽसंस्तत्र तत्राचलोऽभवत् । स्कन्नाचलत्वादचलः पर्वाभिः पर्वतः स्मृतः ॥ ३१
गिरयोऽन्तर्निगीर्णत्वाच्च्यनाच्च शिलोच्चयाः । ततस्तेषु विशीर्णेषु लोकोदधिगिरिष्वथ ॥ ३२
विश्वकर्मा विभजते कल्पादिषु पुनः पुनः । ससमुद्रामिमां पृथिवीं सप्तद्वीपां सपर्वताम् ॥ ३३
भूराद्यांश्चतुरो लोकान्पुनः सोऽथ प्रकल्पयत् । लोकान्प्रकल्पयित्वा च प्रजासर्गं ससर्ज ह ॥ ३४
ब्रह्मा स्वयंभूर्भगवान्सिसृक्षुर्विविधाः प्रजाः । ससर्ज सृष्टिं तद्रूपां कल्पादिषु यथा पुरा ॥ ३५
तस्याभिध्यायतः सर्गं सदा वै बुद्धिपूर्वकम् । प्रधानसमकालं वै प्रादुर्भूतस्तमोमयः ॥ ३६
तमोमोहो महामोहस्तामिस्रो अ(ह्य)न्धसंज्ञिताः । अविद्या पञ्चपर्वेषा प्रादुर्भूता महात्मनः ॥ ३७
पञ्चधा चाऽऽश्रितः सर्गो ध्यायतः सोऽभिमानिनः । सर्वतस्तमसा चैव दीपः कुम्भपदावृतः ॥ ३८
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
[अ० ६ श्लो० ३९-६७] वायुपुराणम् । १९
( सृष्टिप्रकरणम् )
बहिरन्तःप्रकाशश्च शुद्धो निःसंज्ञ एव च । तस्मात्तैः संवृत्ता बुद्धिर्मुख्यानि करणानि च ॥ ३९
तस्मान्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः । मुख्यसर्गं तथाभूतं ब्रह्मा दृष्ट्वा ह्यसाधकम् ४०
अप्रसन्नमनाः सोऽथ ततो न्यासोऽभ्यमन्यत । तस्याभिध्यायदस्तत्र तिर्यक्स्रोतोऽभ्यवर्तत ॥ ४१
तस्मात्तिर्यग्व्यवर्तन्त तिर्यक्स्रोतस्ततः स्मृतम् । तमोबहुत्वाने सर्वे ह्यज्ञानबहुलाः स्मृताः ॥ ४२
उत्पथग्राहिणश्चापि ते ध्यानाच्चानमानिनः । तिर्यक्स्रोतस्तु दृष्ट्वा वै द्वितीयं विश्वमीश्वरः ॥ ४३
(*अहंकृता अहमाना अष्टाविंशद्विद्यात्मकाः । एकादशेन्द्रियविधा नवधा चोद्यस्तथा ॥ ४४
अष्टौ च तारकाद्याश्च तेषां शक्तिविधाः स्मृताः । अन्तःप्रकाशास्ते सर्व आवृताश्च बहिः पुनः ॥ ४५
यस्मात्तिर्यक्प्रवर्तेत तिर्यक्स्रोताः स उच्यते । (+तिर्यक्स्रोतश्च दृष्ट्वा वै द्वितीयं मिश्रमीश्वरः ॥ ४६
अभिप्रायमथोऽद्भूतं दृष्ट्वा सर्वं तथाविधम् । तस्याभिध्यायतो नित्यं सात्त्विकः समवर्तत ) ॥ ४७
ऊर्ध्वस्रोतास्तृतीयस्तु स चैवोर्ध्वं व्यवस्थितः । यस्माद्वृत्तवर्ततोर्ध्वं तु ऊर्ध्वस्रोतास्ततः स्मृतः ॥ ४८
ते सुखप्रीतिबहुला बहिरन्तश्च संवृताः । प्रकाशा बहिरन्तश्च ऊर्ध्वस्रोतोद्भवाः स्मृताः ॥ ४९
तेन वातादयो ज्ञेयाः सृष्टात्मानो व्यवस्थिताः । ऊर्ध्वस्रोतास्तृतीयो वै तेन सर्गस्तु स स्मृतः ॥ ५०
ऊर्ध्वस्रोतःसु सृष्टेषु देवेषु स तदा प्रभुः । प्रीतिमानभवद्ब्रह्मा ततोऽन्यं सोऽभ्यमन्यत ॥ ५१
ससर्ज सर्गमन्यं स साधकं प्रभुरीश्वरः । अथाभिध्यायदस्तस्य सत्याभिध्यायिनस्तदा ॥ ५२
प्रादुर्बभूव चाव्यक्तादर्वाक्स्रोतः सुसाधकम् । यस्मादर्वाग्व्यवर्तेत (?) ततोऽर्वाक्स्रोत उच्यते ॥ ५३
ते च प्रकाशबहुलास्तमःसत्त्वरजोधिकाः । तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः ॥ ५४
प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते । लक्षणैस्तारकाद्यैस्ते अष्टधा च व्यवस्थिताः ॥ ५५
सिद्धात्मानो मनुष्यास्ते गन्धर्वसहधर्मिणः । इत्येष तैजसः सर्गो ह्यर्वाक्स्रोताः प्रकीर्तितः ॥ ५६
पञ्चमोऽनुग्रहः सर्गश्चतुर्धा स व्यवस्थितः । विपर्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च ॥ ५७
विवृत्तं वर्तमानं च तेऽर्थं जानन्ति तत्त्वतः । भूतादिकानां सत्त्वानां षष्ठः सर्गः स उच्यते ॥ ५८
(×ते परिग्रहिणः सर्व संविभागरताः पुनः । खादनाश्चप्यशीलाश्च ज्ञेया भूतादिकास्तु ते ) ॥ ५९
विपर्ययेण भूतादिरशक्त्या च व्यवस्थितः । प्रथमो महतः सर्गो विज्ञेयो महतस्तु सः ॥ ६०
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते । वैकारिकस्तृतीयस्तु सर्व ऐन्द्रियकः स्मृतः ॥ ६१
इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः । मुख्यसर्गश्चातुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ ६२
तिर्यक्स्रोताश्च यः सर्गस्तिर्यग्योनिः स पञ्चमः । तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ॥ ६३
(÷तथाऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः । अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः॥ ६४
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः । प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ॥ ६५
प्राकृतास्तु त्रयः सर्गाः कृतास्ते बुद्धिपूर्वकाः) । बुद्धिपूर्वं प्रवर्तन्ते षट्सर्गा ब्रह्मणस्तु ते ॥ ६६
विस्तारानुग्रहं सर्गं कीर्त्यमानं निबोधत । चतुर्धाऽवस्थितः सोऽथ सर्वभूतेषु कृत्स्नशः ॥ ६७
* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
+ धनुश्चिह्नान्तर्गतग्रन्थो ड. पुस्तके नास्ति ।
× धनुश्चिह्नान्तर्गतं नास्ति क. पुस्तके ।
÷ धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
२० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ७ श्लो० १-६]
(प्रतिसंधिकीर्तनम्)
विपर्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च। स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तिता॥ ६८
सिद्ध्यात्मानो मनुष्यास्तु तुष्टिर्देवेषु कृत्स्नशः। इत्येते प्राकृताश्चैव वैकृताश्च नव स्मृताः॥ ६९
सर्गाः परस्परस्याथ प्रकारा बहवः स्मृताः। अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान्॥ ७०
सनन्दनं च सनकं विद्वांसं च सनातनम्। विज्ञानेन निवृत्तास्ते वैवर्तेन महौजसः॥ ७१
संबुद्धाश्चैव नानात्वादपविद्धाश्रयोऽपि ते। असृष्ट्वैव प्रजासर्गं प्रतिसर्गं गताः पुनः॥ ७२
तदा तेषु व्यतीतेषु तदान्यान्साधकांश्च तान्। मानसानसृजद्ब्रह्मा पुनः स्थानाभिमानिनः॥ ७३
अभूतसंप्लवावस्थानाम्रतस्तान्निबोधत। आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिशस्तथा॥ ७४
स्वर्गं दिवः समुद्रांश्च नादञ्शैलान्व्रनस्पतीन्। औषधीनां तथाऽऽत्मानो ह्यात्मानो वृक्षवीरुधाम्॥ ७५
लवाः काष्ठाः कलाश्चैव मुहूर्त्ताः संविरात्र्यहाः। अर्धमासाश्च मासाश्च अयनाब्दयुगानि च॥
स्थानाभिमानिनः सर्वे स्थानाख्याश्चैव ते स्मृताः॥ ७६
वक्त्राद्यस्य ब्राह्मणाः संप्रसूतास्तद्वक्षस्तः क्षत्रियाः पूर्वभागे।
वैश्याश्चोर्वोर्यस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः॥ ७७
नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम्। अण्डाज्जज्ञे पुनर्ब्रह्मा लोकास्तेन कृताः स्वयम्॥ ७८
एष वः कथितः पादः समासान्न तु विस्तरात्। अनेनाऽऽद्येन पादेन पुराणं संप्रकीर्तितम्॥ ७९
इति महापुराणे वायुप्रोक्ते प्रक्रियापादे सृष्टिप्रकरणं नाम षष्ठोऽध्यायः॥ ६॥
आदितः श्लोकानां समष्ट्यङ्काः--४९८
समाप्तः प्रक्रियापादः।
अथ सप्तमोऽध्यायः।
प्रतिसंधिकीर्तनम्।
+ सूत उवाच--
इत्येष प्रथमः पादः प्रक्रियार्थः प्रकीर्तितः। श्रुत्वा तु संहृष्टमनाः काश्यपेयः सनातनः॥ १
संबोध्य सूतं वचसा पप्रच्छाथोत्तरां कथाम्। अतः प्रभृति कल्पज्ञ प्रतिसंधिं प्रचक्ष्व नः॥ २
समतीतस्य कल्पस्य वर्तमानस्य चोभयोः। कल्पयोरन्तरं यच्च प्रतिसंधिर्यतस्तयोः॥
एतद्वेदितुमिच्छाम अ(मो ह्य)त्यन्तकुशलोऽह्यसि॥ ३
लोमहर्षण उवाच--
अत्र वोऽहं प्रवक्ष्यामि प्रतिसंधिश्च यस्तयोः। समतीतस्य कल्पस्य वर्तमानस्य चोभयोः॥ ४
मन्वन्तराणि कल्पेषु येषु यानि च सुव्रताः। यथायं वर्तते कल्पो वाराहः सांप्रतः शुभः॥ ५
अस्मात्कल्पाच्च यः कल्पः पूर्वोऽतीतः सनातनः। तस्य चास्य च कल्पस्य मध्यावस्थां निबोधत॥ ६
+ इदं नास्ति क. पुस्तके।
[अ० ७ श्लो० ७-३६] वायुपुराणम् । २१
( प्रतिसंधिकीर्तनम् )
प्रत्याहृते पूर्वकल्पे प्रतिसंधिं च तत्र वै । अन्यः प्रवर्तते कल्पो जनालोकात्पुनः पुनः ॥ ७
व्युच्छिन्नात्प्रतिसंधेस्तु कल्पाकल्पः परस्परम् । व्युच्छिद्यन्ते क्रियाः सर्वाः कल्पान्ते सर्वशस्तदा॥ ८
तस्मात्कल्पात्तु कल्पस्य प्रतिसंधिर्निगद्यते । मन्वन्तरयुगाख्यानामव्युच्छिन्नाश्च संधयः ॥ ९
परस्पराः प्रवर्तन्ते मन्वन्तरयुगैः सह । उक्ता ये प्रक्रियार्थेन पूर्वकल्पाः समासतः ॥ १०
तेषां परार्धकल्पानां पूर्वो ह्यस्मात्तु यः परः । आसीत्कल्पो व्यतीतो वै परार्धं न परस्तु सः ॥ ११
अन्ये भविष्या ये कल्पा अपरार्धाद्गणीकृताः । प्रथमः सांप्रतस्तेषां कल्पोऽयं वर्तते द्विजाः ॥ १२
यस्मिन्पूर्वः परार्धे तु द्वितीय पर उच्यते । एतावान्स्थितिकालस्य प्रत्याहारस्ततः स्मृतः ॥ १३
अस्मात्कल्पात्तु यः पूर्वं कल्पोऽतीतः सनातनः । चतुर्युगसहस्रान्ते अहो मन्वन्तरैः परा ॥ १४
क्षीणे कल्पे तदा तस्मिन्दाहकाले ह्युपस्थिते । तस्मिन्कल्पे तदा देवा आसन्वैमानिकास्तु ये ॥ १५
नक्षत्रग्रहतारास्तु चन्द्रसूर्यग्रहाश्च ये । अष्टाविंशतिरेवैताः कोट्यस्तु सुकृतात्मनाम् ॥ १६
मन्वन्तरे तथैकस्मिंश्चतुर्दशसु वै तथा । त्रीणि कोटिशतान्यासन्कोट्यो द्विनवतिस्तथा ॥ १७
अष्टादिकाः सप्तशताः सहस्राणां स्मृताः पुरा । वैमानिकानां देवानां कल्पेऽतीते तु येऽभवन् ॥ १८
एकैकस्मिंस्तु कल्पे वै देवा वैमानिकाः स्मृताः । अथ मन्वन्तरेष्वासंश्चतुर्दशसु वै दिवि ॥ १९
देवाश्च पितरश्चैव मुनयो मनवस्तथा । तेषामनुचरा ये च मनुपुत्रास्तथैव च ॥ २०
वर्णाश्रमिभिर्डीशाश्च तस्मिन्काले तु ये सुराः । मन्वन्तरेषु ये ह्यासन्देवेलोके दिवौकसः ॥ २१
ते तैः संयोजकैः सार्धं प्राप्ते संकालने तथा । तुल्यनिष्ठास्तु ते सर्वे प्राप्ते ह्याभूतसंप्लवे ॥ २२
ततस्तेऽवश्यभाविद्वादुबुद्ध्वा पर्यायमात्मनः । त्रैलोक्यवासिनो देवा (* इहस्थानाभिमानिनः ॥ २३
स्थितिकाले तदा पूर्णे ह्यासन्ने पश्चिमेऽन्तरे । कल्पवासानिका देवा ) तस्मिन्प्राप्ते ह्युपप्लवे ॥ २४
तेनौत्सुक्यविषादेन त्यक्त्वा स्थानानि भावतः । महर्लोकाय संविग्नास्ततस्ते दधिरे मतिम् ॥ २५
ते यक्ता उपपद्यन्ते महसि स्थैः शरीरकैः । विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः ॥ २६
कः कल्पवासिभिः सार्धं महानासादितस्तु यैः । ब्राह्मणैः क्षत्रियैर्वैश्यैस्तद्कैश्चापरैर्जनैः ॥ २७
मत्वा तु ते महर्लोकं देवसंघाश्चतुर्दश । ततस्ते जनलोकाय सोद्वेगा दधिरे मतिम् ॥ २८
विशुद्धिबहुला सर्वे मानसीं सिद्धिमास्थिताः । तैः कल्पवासिभिः सार्धं महानासादितस्तु यैः ॥ २९
दशकृत्व इवाऽऽवृत्य तस्माद्गच्छन्ति स्वस्तपः । तत्र कल्पान्दश स्थित्वा सत्यं गच्छन्ति वै पुनः ॥३०
एतेन क्रमयोगेन( ण ) यान्ति कल्पानिवासिनः । एवं देवयुगानां तु सहस्राणि परस्परात् ॥ ३१
गतानि ब्रह्मलोकं वै अपरावार्तिनीं गतिम् । आधिपत्यं विना ते वै ऐश्वर्येण तु तत्समाः ॥ ३२
भवन्ति ब्रह्मणस्तुल्या रूपेण विषयेण च । तत्र ते ह्यवतिष्ठन्ति( न्ते ) प्रीतियुक्ताः प्रसङ्गात् ॥ ३३
आनन्दं ब्रह्मणः प्राप्य मुच्यन्ते ब्रह्मणा सह । अवश्यंभाविनाऽर्थेन प्राकृतेनैव ते स्वयम् ॥ ३४
नानात्वेनाभिसंबद्धास्तदा तत्कालभाविनः । स्वपतो बुद्धिपूर्वं हि यथा भवति जाग्रतः ॥ ३५
तत्कालभावि तेषां तु तथा ज्ञानं प्रवर्तते । प्रत्याहारे तु भेदानां येषां भिन्नाभिसूक्ष्मणाम् ( ? ) ॥ ३६
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।
२२ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ७ श्लो ३७-६४]
( प्रतिसंधिकीर्तनम् )
तः सार्धं प्रतिसृज्यन्ते कार्याणि करणानि च । नानावतदर्शनान्तेषां ब्रह्मलोकनिवासिनाम् ॥ ३७
विनष्टस्वाधिकाराणां स्वेन धर्मेण तिष्ठताम् । ते तुल्यलक्षणाः सिद्धाः शुद्धात्मानो निरञ्जनाः ॥ ३८
प्रकृतौ कारणायतीताः स्वात्मन्येव व्यवस्थिताः । प्रख्यापयित्वा ह्यात्मानं प्रकृतिस्तेषु सर्वशः ॥ ३९
पुरुषाव्यवहत्वे(त्त्वे)न प्रतीता न प्रवर्तते । प्रवर्तिते पुनः सर्गे तेषां वा कारणं पुनः ॥ ४०
संयोगे प्राकृते तेषां युक्तानां तत्त्वदर्शिनाम् । अत्रापवर्गािणां तेषामपुनर्मार्गगामिना(णा)म् ॥ ४१
अभावः पुनरुत्पत्तौ शान्तानामार्चिषामिव । ततस्तेषु गतेषूर्ध्वं त्रैलोक्यात्सुरमहात्मसु ॥ ४२
तैः सार्धं ये महर्लोकात्तदा नाऽऽसादिता जनाः । तच्छिष्ठाश्चेह तिष्ठन्ति कल्पाद्देहमुपासते ॥ ४३
गन्धर्वाद्याः पिशाचान्ता मानुषा ब्राह्मणादयः । पशवः पक्षिणश्चैव स्थावराः ससरीसृपाः ॥ ४४
तिष्ठत्सु तेषु तत्कालं पृथिवीतलवासिषु । सहस्रं यत्तु रश्मीनां सूर्यस्येह विभासते ॥ ४५
ते सप्तरश्मयो भूत्वा ह्येकैको जायते रविः । क्रमेणोत्तिष्ठमानास्ते त्रींल्लोकान्प्रदहन्त्युत ॥ ४६
जङ्गमं स्थावरं चैव नदीः सर्वांश्च पर्वतान् । पूर्वं शुष्का ह्यनावृष्ट्या सूर्येस्तैश्च प्रधूपिताः ॥ ४७
तदा ते विवशाः सर्वे निर्दग्धाः सूर्यरश्मिभिः । जङ्गमाः स्थावराः सर्वे धर्माधर्मात्मकास्तु वै ॥ ४८
दग्धदेहास्ततस्ते वै गताः पापयुगात्यये । योन्या तया ह्यनिर्मुक्ताः शुभपामानुबन्धया ॥ ४९
ततस्ते ह्युपपद्यन्ते तुल्यरsub-रूपा जने जनाः । विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः ॥ ५०
उषित्वा रजनीं तत्र ब्रह्मणोऽव्यक्तजन्मनः । पुनः सर्गे भवन्तीह ब्रह्मणो मानसीप्रजाः (?) ॥ ५१
ततस्तेष्वप्रवृत्तेषु जने त्रैलोक्यवासिषु । निर्दग्धेषु च लोकेषु तेषु सूर्यैस्तु सप्तभिः ॥ ५२
वृष्ट्या क्षितौ प्लावितायां विशीर्णेष्वपिचालयेषु च । समुद्राश्चैव मेघाश्च आपः सर्वाश्च पार्थिवाः ५३
व्रजन्त्येकार्णवत्वं हि सलिलाख्यास्तदश्रिताः । आगतागतिकं तद्वै यदा तु सलिलं बहु ॥ ५४
संछाद्यमां स्थितां भूमिमर्णवाख्या तदा च सा । आभान्ति यस्मान्नाऽऽभान्ति भासन्तो व्याप्तिदीप्तिषु ॥ ५५
सर्वतः समनुप्लाव्य तासां चाम्भो विभाव्यते । सदम्भस्तनुते यस्मात्सर्वां पृथ्वीं समन्ततः ॥ ५६
धातुस्तनोति विस्तारे तेनाम्भस्तनवः स्मृताः । अरामीत्येष शीघ्रं तु निपातः कविभिः स्मृतः ॥ ५७
एकार्णवे भवन्त्यापो न क्षिप्रास्तेन ते नराः । तस्मिन्युगसहस्रान्ते संस्थिते ब्रह्मणोऽहनि ॥ ५८
रजन्यां वर्तमानायां तावत्तत्सलिलात्मना । ततस्तु सलिले तस्मिन्नष्टेऽग्नौ पृथिवीतले ॥ ५९
प्रशान्तवातेऽन्धकारे निरालोके समन्ततः । येनैवाधिष्ठितं हीदं ब्रह्मा स पुरुषः प्रभुः ॥ ६०
विभागमस्य लोकस्य पुनर्वै कर्तुमिच्छति । एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ॥ ६१
तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात् । सहस्रशीर्षा पुरुषो रुक्मवर्णो ह्यतीन्द्रियः ॥ ६२
ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा । सत्त्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमवेक्ष्य च ॥ ६३
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । आपो नाराख्यास्तनव इत्यपां नाम शुश्रुम ॥
आपूर्य नाभिं तत्राऽऽस्ते तेन नारायण स्मृतः ॥ ६४