सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

ज्येष्ठा पत्नी महाभागा दयिताऽनकदुन्दुभेः । ज्येष्ठं लेभे सुतं रामं सारणं निशठं तथा ॥ १६२

३५२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१६-श्लो०१५८-१८२]
( विष्णुवंशकथनम् )

दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः । यः पुराऽऽसीद्दशग्रीवः संबभूवारिमर्दनः ॥ १५८
पटुश्चवानुजस्तस्य रुजकन्यान्‌नुजस्तथा । पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ॥ १५९
पौरवी रोहिणी चैव मदिरा चापरा तथा । तथैव भद्रा वैशाखी देवकी सप्तमी तथा ॥ १६०
सुगन्धिवंनराजी च द्वे चान्ये परिचारिके । रोहिणी पौरवी चैव वाल्मीकस्याऽऽत्मजाऽभवत् ॥ १६१
ज्येष्ठा पत्नी महाभागा दयिताऽनकदुन्दुभेः । ज्येष्ठं लेभे सुतं रामं सारणं निशठं तथा ॥ १६२
दुर्दमं दमनं शुभ्रं पिण्डारककुशीतकौ । चित्रां नाम कुमारीं च रौहिणेयौ व्यजायत ॥ १६३
पौत्रौ रामस्य जज्ञाते विज्ञाता निशितोत्सुकौ । पार्श्वी च पार्थनन्दी च शिशुः सत्यधृतिस्तथा ॥ १६४
मन्दवाक्षोऽथ रामाणगिरिकौ गिर एव च । शुक्लगुल्मोति गुल्मश्च दरिद्रान्तक एव च ॥ १६५
कुमार्यश्चापि पञ्चाद्या नामतस्ता निबोधत । अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ॥ १६६
तथा शतबला चैव सारणस्य सुतास्त्विमाः । भद्राश्वो भद्रगुप्तिश्च [* भद्रविद्यस्तथैव च ॥ १६७
भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च । सुपार्थकः कीर्तिमांश्च ] रोहिताश्वश्च भद्रजः ॥ १६८
दुर्मदश्चाभिभूतश्च रोहिण्याः कुलजाः स्मृताः । नन्दोपनन्दौ मित्रश्च कुक्षिमित्रस्तथा चलः ॥ १६९
चित्रोपचित्रे कन्ये च स्थितः पुष्टिरथापरः । मदिरायाः सुता ह्येते सुदेवोऽथ विजज्ञिरे ॥ १७०
उपबिम्बोऽथ बिम्बश्च सत्त्वदन्तमहौजसौ । चत्वार एते विख्याता भद्रपुत्रा महाबलाः ॥ १७१
वैशाख्यां समदाच्छौरिः पुत्रं कौशिकमुत्तमम् । देवक्यां जज्ञिरे शौरिः सुषेणः कीर्तिमानपि ॥ १७२
तदयो भद्रसेनश्च यजुदायश्च पञ्चमः । षष्ठो भद्रविदेकस्य कंसः सर्वाञ्जघान तान् ॥ १७३
अथ तस्यामवस्थायामायुष्मान्संबभूव ह । लोकनाथः पुनर्विष्णुः पूर्वकृष्णः प्रजापतिः ॥ १७४
अनुजाताऽभवत्कृष्णा सुभद्रा भद्रभाषिणी । कृष्णा सुभद्रेति पुनर्वाख्याता वृष्णिनंदिनी ॥ १७५
सुभद्रायां रथी पार्थादभिमन्युरजायत । वसुदेवस्य भार्यासु महाभागासु सप्तसु ॥
ये पुत्रा जज्ञिरे शूरा नामस्तान्निबोधत ॥ १७६
अतोऽस्य सहदेवायां शूरो जज्ञे मयासखः । शार्ङ्गदेवाऽजनत्तम्बुं शौरी जज्ञे कुलोद्वहम् ॥ १७७
उपसङ्गं वसुं चापि तनयौ देवरक्षितौ । एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ॥ १७८
विजयं रोचनं चैव वर्धमानं तथैव च । एतान्सर्वान्महाभागानुपदेवा व्यजायत ॥ १७९

  • स्वगाहवं महात्मानं वृकदेवी त्वजायत । आगाही च स्वसा चैव सुरूपा शिशिरायिणी ॥ १८०
    सप्तमं तेवकी पुत्रं सुनासा सुषुवे भुवम् । गवेषणं महाभागं सङ्ग्रामे चित्रयोधिनम् ॥ १८१
    श्राद्धदेवं पुरा येन वनं विरचितं द्विजाः । सैव्यायामददाच्छौरिः पुत्रं कौशिकमव्ययम् ॥ १८२

* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति । + इदमर्धं नास्ति ख. घ. पुस्तकयोः ।

[अ०९६श्लो०१८३-२०५] वायुपुराणम् । ३५३
(विष्णुवंशकथनम्)
सुगन्धी व(न्धर्व)नराजी च शौरेरास्तां परिग्रहः। पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ हि तौ॥
तयोराजाऽभवत्पुण्ड्रः कपिलस्तु वनं ययौ॥ १८३
तस्यां समभवद्वीरो वसुदेवात्मजो बली। राजा नाम निषादोऽसौ प्रथमः स धनुर्धरः॥ १८४
विख्यातो देवरातस्य महाभागः सुतोऽभवत्। पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम्॥ १८५
अश्मक्यां लभते पुत्रमनाधृष्टिं यशस्विनम्। निवर्त्तः शक्रशत्रुघ्नं श्राद्धदेवं महाबलम्॥ १८६
आजायत श्राद्धदेवो निषधादिर्यतः श्रुतः। एकलब्यो महावीर्यो निषादैः परिवर्धितः॥ १८७
गण्डूषायानपत्याय कृष्णस्तुष्टोऽददात्सुतौ। चारुदेष्णं च साम्बं च कृतास्त्रौ शस्तलक्षणौ॥ १८८
तान्तिजस्तान्तिमालश्च स्वपुत्रौ कनकस्य तु। *वस्तावनेस्त्वपुत्राय वसुदेवः प्रतापवान्॥
सौतिर्दीदौ सुतं वीरं शौरिं कौशिकमेव च॥ १८९
तपाश्च क्रोधनुश्चैव विरजाः श्यामसूजिमौ। अनपत्योऽभवच्छ्यामः श्यामकस्तु वनं ययौ॥
जुगुप्समानो भोजत्वं राजर्षित्वमवामुयात्॥ १९०
+य इदं जन्म कृष्णस्य पठेत् नियतव्रतः। श्रावयेद्ब्राह्मणश्चापि सुमहत्सुखमवाप्नुयात्॥ १९१
देवदेवो महातेजाः पूर्वे कृष्णः प्रजापतिः। विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः॥ १९२
देवक्यां वसुदेवेन तपसा पुष्करेक्षणः। चतुर्बाहुस्तु संजज्ञे दिव्यरूपः श्रियाऽन्वितः॥ १९३
प्रकाशो भगवान्योगी कृष्णो मानुषमागतः। अव्यक्तो व्यक्तलिङ्गस्थः स एव भगवान्प्रभुः॥ १९४
नारायणो यतश्चक्रे प्रभवं चाव्ययो हि सः। देवो नारायणे भूत्वा हरिरासीत्सनातनः॥ १९५
योऽसृजच्चाऽऽदिपुरुषं पुरा चक्रे प्रजापतिम्। अदितेरपि पुत्रत्वमेव यादवनन्दनः॥
देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत्॥ १९६
प्रसादजं यस्य विभोरादित्याः पुत्रकारणम्। वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम्॥ १९७
ययातिवंशजस्याथ वसुदेवस्य धीमतः। कुलं पुण्यं यतः कर्म भेजे नारायणः प्रभुः॥ १९८
सागराः समकम्पन्त चेलुश्च धरणीधराः। जज्वलुश्चाग्निहोत्राणि जायमाने जनार्दने॥ १९९
शिवाश्च प्रववुर्वाताः प्रशान्तमभवद्रजः। ज्योतींष्यभ्यधिकं रेजुर्गार्यमाने जनार्दने॥ २००
अभिजिन्नार्म नक्षत्रं जयन्ती नाम शर्वरी। मुहूर्तो विजयो नाम यत्र जातो जनार्दनः॥ २०१
अव्यक्तः शाश्वतः कृष्णो हरिनारायणः प्रभुः। जायते स्मैव भगवान्यनैर्मोहियन्प्रजाः॥ २०२
आकाशात्पुष्पवृष्टिश्च ववर्ष त्रिदशेश्वरः। गीर्भिर्मङ्गल्युक्ताभिः स्तुवन्तो मधुसूदनम्॥
महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः॥ २०३
वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम्। श्रीवत्सलक्षणं दृष्ट्वा दिवि दिव्यैः सुलक्षणैः॥
उवाच वसुदेवः स्वं रूपं संहर वै प्रभो॥ २०४
भीतोऽहं कंसतस्तात एतदेव ब्रवम्यिहम्। मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भूतदर्शनाः॥ २०५


* वस्तावनेरिति संप्रदानार्थे षष्ठी। + नायं श्लोको घ. पुस्तके।

४५

३५४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०१६श्लो०२०६-२२५]
(विष्णुवंशकथनम्)

वसुदेववचः श्रुत्वा रूपं संहृतवान्प्रभुः । अनुज्ञातः पिता त्वेनं नन्दगोपगृहं गतः ॥
उग्रसेनमते तिष्ठन्यशोदायै तदा ददौ ॥ २०६
तुल्यकालं तु गर्भिण्यौ यशोदा देवकी तथा । यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ॥ २०७
यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलप्रभुः । तामेव रजनी कन्यां यशोदाऽपि व्यजायत ॥ २०८
तं जातं रक्षमाणस्तु वसुदेवो महायशाः । पादात्पुत्रं यशोदायै कन्यां तु जगृहे स्वयम् ॥ २०९
दत्त्वैनं नन्दगोपस्य रक्ष मामिति चाब्रवीत् । सुतस्ते सर्वकल्याणो यादवानां भविष्यति ॥
अयं स गर्भो देवक्या अस्मत्क्लेशान्हानयिष्यति ॥ २१०
उग्रसेनात्मजे तां च कन्यामानकदुन्दुभिः । निवेदयामास तदा कन्येति शुभलक्षणा ॥ २११
+ स्वसायां तनयां कंसो जातां नैवावधारयत् । अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः ॥
हता वै या यदा कन्या जप्त्येष वृथामतिः । कन्या सा ववृधे तत्र वृष्णिसद्मनि पूजिता ॥ २१३
पुत्रवत्पाल्यान्तो देवा देवान्यथा तदा(?) । तामेव विधिनाऽत्पन्नामाहुः कन्यां प्रजापतिम् ॥ २१४
एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह । तां वै सर्वे सुमनसः पूजयिष्यन्ति यादवाः ॥
देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ॥ २१५

ऋषय ऊचुः-
किमर्थं वसुदेवस्य भोजः कंसो नराधिपः । जघान पुत्रान्बालान्वै तन्नो व्याख्यातुमर्हसि ॥ २१६

सूत उवाच-
शृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः । जाताञ्जाताञ्शिशून्सर्वान्निष्पिपेषा वृथामतिः ॥ २१७
भयाद्यथा महाबाहुर्जातः कृष्णो विवासितः । तथा च गोषु गोविन्दः संवृद्धः पुरुषोत्तमः ॥ २१८
उक्तं हि किल देवक्या वसुदेवरय धिमतः । सारथ्यं कृतवान्कंसो युवराजस्तदाऽभवत् ॥ २१९
ततोऽन्तरिक्षे वागासीद्दिव्या भूतस्य कस्याचित् । कंसो यथा सदा भीतः पुष्कला लोकसाक्षिणी ॥
यामेतां वहसे कंस रथेन परकारणात् । अस्या यः सप्तमो गर्भः स ते मृत्युर्भविष्यति ॥ २२१
तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः । निष्क्रम्य(ष्कृष्य)खड्गं तां कन्यां हन्तुकामोऽभवत्तदा
तमुवाच महाबाहुर्वसुदेवः प्रतापवान् । उग्रसेनात्मजं कंसं सौहृदात्प्रणयेन च ॥ २२३
न स्त्रियं क्षत्रियो जातु हन्तुमर्हति कश्चन । उपायः परिदृष्टोऽत्र मया यादवन्दन ॥ २२४
योऽस्याः संभवते गर्भः सप्तमः पृथिवीपते । तमहं ते प्रयच्छामि तत्र कुर्या यथाक्रमम् ॥ २२५


+ अयं प्रयोगश्चाऽऽर्षः ।

[अ० ९६ श्लो० २२६-२४८] वायुपुराणम्। ३५५
( विष्णुवंशकथनम् )

त्वं त्विदानीं यथेष्टत्वं वर्तथा भूरिदक्षिण। सर्वानिस्यास्तु वै गर्भान्सत्यं नेष्यामि ते वशम्॥ २२६
एवं मिथ्या नरश्रेष्ठ वागेषा न भविष्यति। एवमुक्तोऽनुनीतः स जग्राह तनयांस्तदा॥ २२७
वसुदेवश्च तां भार्यामाप्य मुदितोऽभवत्। कंसश्चास्यावधीत्पुत्रानपाकर्मा वृथामतिः॥ २२८

ऋषय ऊचुः--
क एष वसुदेवश्च देवकी च यशस्विनी। नन्दगोपस्तु कस्त्वेष यशोदा व महायशाः॥
यो विष्णुं जनयामास या चैनं चाभ्यवर्धयत्॥ २२९

सूत उवाच--
पुरुषः कश्यपस्याऽऽसन्नादित्यास्तु स्त्रियस्तथा। अथ कामान्महाबाहुर्देवकयाः समवर्धयत्॥ २३०
अचरत्स महीं देवः प्रविष्टो मानुषीं तनुम्। मोहयन्सर्वभूतानि योगात्मा योगमायया॥ २३१
नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम्। कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्॥ २३२
अरहता रुक्मिणी कन्या सत्या नग्नजितस्तदा। सत्राजिती सत्यभामा जाम्बवत्यपि रोहिणी॥
सै(शै) व्या सुदेवी माद्री च सुशीला नाम चापरा। कालिन्दी मित्रविन्दा च लक्ष्मणा जालवासिनी॥
एवमादीनि देवीनां सहस्राणि च षोडश। चतुर्दश तु ये प्रोक्ता गणाश्चाप्सरसां दिवि॥
विचिन्त्य देवैः शक्रेण विशिष्ठास्स्विह प्रेषिताः॥ २३५
पत्‍न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु। एताः पत्न्यो महाभागा विष्वक्सेनस्य विश्रुताः॥ २३६
प्रद्युम्नश्चारुदेष्णश्च सुदेष्णः शरभस्तथा। चारुश्च चारुभद्रश्च भद्रचारुस्तथाऽपरः॥ २३७
चारुविन्ध्यश्च रुक्मिण्यां कन्या चारुमती तथा। सानुभानुस्तथाऽक्षश्च रोहितो मन्त्रयस्तथा॥२३८
जरान्धकस्ताम्रवक्षा भौमरिश्च जरन्धमः। चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात्॥ २३९
भानुर्भामरिका चैव ताम्रपर्णी जरन्धमाः। सत्यभामासुतानेताञ्जाम्बवत्याः प्रजाः शृणु॥ २४०
भद्रश्च भद्रगुप्तश्च भद्रविन्दस्तथैव च। सप्तबाहुश्च विख्यातः कन्या भद्रावती तथा॥
संबोधनी च विख्याता ज्ञेया जाम्बवतीसुता॥ २४१
सङ्ग्रामजिच्च शताजित्तथैव च सहस्रजित्। एते पुत्राः सुदेव्याश्च विष्वक्सेनस्य कीर्तिताः॥ २४२
वृको वृकथो वृकाजिद्वृजिनी च सुराङ्गना। मित्रबाहुः सुनाथिश्च नाग्नजित्याः प्रजास्त्विह॥ २४३
एवमदीनि पुत्राणां सहस्राणि निबोधत। प्रयुतं तु समाख्यातं वासुदेवस्य ये सुताः॥ २४४
अयुतानि तथाऽष्टौ च शूरा रणविशारदाः। जनार्दनस्य वंशो वः कीर्तितोऽयं यथातथम्॥ २४५
बृहती नर्तकोन्निथी सुनये सङ्गता तथा। कन्या सा बृहदुक्थस्य शैनेयस्य महात्मनः॥ २४६
तस्याः पुत्रास्तु विख्यातास्त्रयः समितिशोभनाः। अङ्गदः कुमुदः श्वेतः कन्या श्वेता तथैव च॥
अवगाहश्च चित्रश्च शूरश्चित्रवरश्च यः। चित्रसेनः सुतश्चास्य कन्या चित्रवती तथा॥ २४८

३५६श्रीमद्वैपायनमुनिप्रणीतम्—[अ०९६-९७श्लो०२४९-२५८।१-७]
( विष्णुमाहात्म्यकथनम् )

तुम्ब्वश्च तुम्बवाणश्च जनस्तम्बश्च तावुभौ । उपाङ्गस्य स्मृतौ द्वौ तु वज्रारः क्षिम्र एव च ॥ २४९
* भूरीन्द्रसेनो भूरिश्च गवेषस्य सुतावुभौ । युधिष्ठिरस्य कन्या तु सुतनुर्नाम विश्रुता ॥ २५०
तस्यामश्वसुतो जज्ञे वज्रो नाम महायशाः । वज्रस्य प्रतिबाहुस्तु सुचारुस्तस्य चाऽऽत्मजः ॥ २५१
काश्या सुपार्श्व तनयं जज्ञे साम्बा तरस्विनम् । तिस्रः कोट्यस्तु पुत्राणां यादवानां महात्मनाम् ॥
षष्टिशतसहस्राणि वीर्यवन्तो महाबलाः । देवांशाः सर्व एवेह उत्पन्नास्ते महौजसः ॥ २५३
दैवासुरे हता ये च असुरा वै महातपाः । इहोत्पन्ना मनुष्येषु बाधन्ते सर्वमानवान् ॥
तेषामुत्सादनार्थं तु उत्पन्ना यादवे कुले ॥ २५४
कुलानि दश चैकं च यादवानां महात्मनाम् । सर्वमेककुलं यद्वर्त्तते वैष्णवे कुले ॥ २५५
विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः । निदेशस्थायिभिस्तस्य बध्यन्ते सर्वमानुषाः ॥ २५६
इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः । कीर्त्तिता कीर्त्तनाच्चैव कीर्त्तिसिद्धिंमभीप्सिताम् ॥ १५७
+ य इमं कृष्णवंशस्य सुचरित्रस्य धीमतः । स्वर्गापवर्गदं श्रेष्ठं महापातकनाशनम् ॥
अपुत्रो लभेत पुत्रं वित्तार्थी वित्तमप्नुयात् ॥ २५८

इति श्रीमहापुराणे वायुप्रोक्ते धिष्ण्युवंशानुकीर्तनं नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥
आदितः श्लोकानां समष्टयङ्काः—८६९०


अथ सप्तनवतितमोऽध्यायः ।

विष्णुमाहात्म्यकीर्तनम् ।

× सूत उवाच--
मनुष्यप्रकृतीन्देवान्कीर्त्यमानान्निबोधत । संकर्षणो वासुदेवः प्रद्युम्नः साम्ब एव च ॥ १
अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्तिताः । सप्तर्षयः कुबेरश्च यक्षो मणिवरस्तथा ॥ २
शाल्की बद्रश्चैव विद्वान्धन्वन्तरिस्तथा । नन्दिनश्च महादेवः शालङ्कायन उच्यते ॥
आदिदेवस्तदा जिष्णूरोमिश्च सह दैवतैः ॥ ३

ऋषय ऊचुः--
विष्णुः किमर्थं संभूतः स्मृताः संभूतयः कति । भविष्याः कति वाऽन्ये तु प्रादुर्भावा महात्मनः ॥
ब्रह्मक्षेत्रे युगान्तेषु किमर्थमिह जायते । पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ॥ ५
विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः । श्रोतुमिच्छामहे सम्यग्देवैः कृष्णस्य धीमतः ॥ ६
कर्मणामानुपूर्व्यं च प्रादुर्भावाश्च ये प्रभोः । या चास्य प्रकृतिः सूत तां चास्मान्वक्तुमर्हसि ॥ ७


* इदमर्धन्नास्ति ग. पुस्तके. । + अयं सार्धश्लोकोऽधिकः ख. पुस्तके । × सूत उवाचेति नास्ति क. ग. घ. पुस्तकेषु ।

[ अ० ९७ श्लो० ८-३२] वायुपुराणम् । ३५७

( विष्णुमहात्म्यकथनम् )

कथं स भगवान्विष्णुः सुरेश्वरनिसूदनः । वसुदेवकुले धीमान्वासुदेवत्वमागतः ॥ ८
अमरैः सूत किं पुण्यं पुण्यकृद्भिरलं कृतम् । देवलोकं समुत्सृज्य मर्त्यलोकमिहाऽऽगतः ॥ ९
देवमानुषयोर्नेता भूर्वःप्रभवो हरिः । किमर्थं दिव्यमात्मानं मानुषे समावेशयत् ॥ १०
यश्चक्रं वर्तयत्येको मनुष्याणां मयोमयम् । मनुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः ॥ ११
गोपायनं यः कुरुते जगतां सार्वलौकिकम् । स कथं गां गतो विष्णुर्गोपत्वमकरोत्प्रभुः ॥ १२
महाभूतानि भूतात्मा यो दधार चकार ह । श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ॥ १३
येन लोकान्क्रमैर्जित्वा त्रिभिस्त्रींस्त्रिदशोप्सया । स्थापिता जगतो मार्गास्त्रिवर्गप्रवरास्त्रयः ॥ १४
योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः । लोकमेकार्णवे चक्रे दृश्यादृश्येन वर्त्मना ॥ १५
यः पुराणे पुराणात्मा वाराहं वपुरास्थितः । ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः ॥ १६
येन सैंहं वपुः कृत्वा द्विधा कृत्वा च यत्पुनः । पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः ॥ १७
यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः । पातालस्थोऽर्णवगतः पपौ तोयमयं हविः ॥ १८
सहस्रचरणं देवं सहस्रांशु सहस्रशः । सहस्रशिरसं देवं यमाहुर्वै युगे युगे ॥ १९
नाभ्यारण्यां समुद्भूतं यस्य पैतामहं गृहम् । एकार्णवगते लोके तत्पङ्कजमपङ्कजम् ॥ २०
येन ते निहता दैत्याः सङ्ग्रामे तारकामये । सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः ॥ २१
गरुडस्थेन चोत्सिक्तः कालनेमिर्निपातितः । उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः ॥
यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥ २२

पुरारणी गर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरा यम् ।
शक्रं च यो दैत्यगणावरुद्धं गर्भावमानेन भृशं चकार ॥ २३
यदाऽनिलो लोकपदानि हत्वा चकार दैत्यान्सलिलेशयांस्तान् ।
कृत्वाऽऽदिदेवस्त्रिदिवस्य देवांशक्रे सुरेशां पुरूहूतमेव ॥ २४

गार्हपत्येन विधिना अन्वाहार्येण कर्मणा । अग्निमाहवनीयं च वेदिं चैव कुशस्रुचम् ॥ २५
प्रोक्षणीयं स्रुवं चैव अवभृथ्यं तथैव च । अथ व्रीनिह यश्चक्रे हव्यभागप्रदान्मखे ॥ २६
हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि । भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि ॥ २७
यूपान्समित्कुशं सोमं पवित्रं परिधीनपि । यज्ञियानि च द्रव्याणि यज्ञियांश्च तथाऽनलान् ॥ २८
सदस्यान्यजमानांश्च अश्वमेधान्क्रतूत्तमान् । विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्मणा ॥ २९
युगानुरूपं यः कृत्वा त्रींल्लोकानिह यथाक्रमम् । क्षणा निमेषाः काष्ठाश्च कलास्त्रैकालमेव च ॥ ३०
मुहूर्तास्तिथयो मासा दिनसंवत्सरं तथा । ऋतवः कालयोगाश्च प्रमाणं त्रिविधं नृषु ॥ ३१
आयुः क्षेत्राण्युपचयं लक्षणं रूपसौष्ठवम् । मेधा वित्तं च शौर्यं च शास्त्रस्यैव च पारणम् ॥ ३२