सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

चतुष्पदानां सर्वेषां सहस्रेणैव संमताः । भागेन द्विपदा ज्ञेया लौकिकेऽस्मिंस्तु सर्वशः ॥ २०२

[अ० १०१ श्लो० १९९-२२०] वायुपुराणम् । ४०७

( भूर्लोकादिव्यवस्थावर्णनम )

संसेकज्ञानाभावेन सहस्रेणैव संमिताः । औदका जन्तवः सर्वे निश्चयात्तद्विचारितम् ॥ १९९
सहस्रेणैव भावेन सत्त्वानां सलिलौकसाम् । विहंगमास्तु विज्ञेधा लौकिकास्ते च सर्वशः ॥ २००
यः सहस्रतमो भामस्तेषां वै पक्षिणां भवेत् । पशवस्तत्समा ज्ञेया लौकिकास्तु चतुष्पदाः ॥ २०१
चतुष्पदानां सर्वेषां सहस्रेणैव संमताः । भागेन द्विपदा ज्ञेया लौकिकेऽस्मिंस्तु सर्वशः ॥ २०२
यः सहस्रतमो भागो भागे तु द्विपदां पुनः । धार्मिकास्तेन भामेनं विज्ञेयः संमिताः पुनः ॥ २०३
सहस्रेणैव भागेन धार्मिकेभ्यो दिवं गताः । यः सहस्रतमो भागो धार्मिकाणां भवेद्दिवि ॥
संमितास्तेन भामेन मोक्षिणस्तावदेव हि ॥ २०४
स्वर्गोपपादकैस्तुल्या यातनास्थानवासिनः । पतिताः पापकम्माणो दुरात्मानो म्रियन्ति ये ॥
रौरवे तामसे ह्येते शीतोष्णं प्राप्नुवन्ति ते ॥ २०५
वेदनाकटुकास्तन्धा यातनास्थानमागताः । उष्णस्तु रौरवो ज्ञेयस्तेजो घोररसात्मकः ॥ २०६
ततो घनात्मकश्चापि शीतात्मा सततं तपः । एवं सुदुर्लभाः सन्तः स्वर्गे वा धार्मिका नराः ॥ २०७
एषा संख्या कृता संख्या(?) ईश्वरेण स्वयंभुवा । गणना विनिवृत्तैषा संख्या ब्राह्मी च मानुषी ॥

ऋषय ऊचुः—

महो जनस्तपः सत्यं भूतो भाव्यो भवस्तथा । उक्ता ह्येते त्वया लोका लोकानामन्तरेण च ॥
लोकान्तरं च याहग्वै तन्नो ब्रूहि यथातथम् ॥ २०९
तेषां तद्वचनं श्रुत्वा ऋषीणामूर्ध्वरेतसाम् । स वायुर्दृष्टतत्त्वार्थ इदं तत्त्वमुवाच ह ॥ २१०

वायुरुवाच—

व्यक्तं तर्केण पश्यन्ति योगात्प्रत्यक्षदर्शिनः । प्रत्याहारेण ध्यानेन तपसा च क्रियात्मनः ॥ २११
ऋभुः सनत्कुमाराद्याः संबुद्धाः शुद्धबुद्धयः । व्यपेतशोका विरजाः सन्तो ब्रह्मैव सत्तमाः ॥ २१२
अक्षयाः प्रीतिसंयुक्ता ब्रह्म निष्ठान्ति योगिनः । ऋषीणां वालखिल्यानां तैर्यथाहतमीश्वरैः ॥ २१३
यथा चैव मया दृष्टं सांनिध्यं तत्र कुर्वता । अतर्ह(कर्य)सत्कृतार्थानामालयं चेश्वरस्य यत् ॥ २१४
ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम् । ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥ २१५
द्रष्टृत्वमात्मसंबंन्धमधिष्ठातृत्वमेव च । अव्ययानि दशैतानि तस्मिंस्तिष्ठन्ति शंकरे ॥ २१६
विभुत्वात्खलु योगाग्निर्भरलणोऽनुग्रहे रतः । स लोकाविग्रहो भूत्वा साहाय्यमुपतिष्ठते ॥ २१७
अक्षरं ध्रुवमव्यग्रमष्टमं त्वौपसर्गिकम् । तस्येश्वरस्य यन्मात्रं स्थानं मायामयं परम् ॥ २१८
मायया कृतमाचष्ट मायी देवो महेश्वरः । देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्यते ॥ २१९
विस्तरेणाऽऽनुपूर्व्या च ब्रुवतो मे निबोधत । त्रयोदशैव कोट्यस्तु नियुता दश पञ्च च ॥
भूर्लोकाद्ब्रह्मलोको वै योजनैः संपर्कीर्त्यते ॥ २२०

४०८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०१ श्लो० २२१-२४६]
(शिवपुरवर्णनम्)

एकयोजनकोटि तु पञ्चाशन्नियुतानि च। ऊर्ध्वं भागवताण्डं तु ब्रह्मलोकात्परं स्मृतम्॥ २२१
* एषोर्ध्वगः प्रचारस्तु गत्यन्तं च ततः स्मृतम्। (+ नित्या ह्यपरिसंख्येयाः परस्परगुणाश्रयाः॥
सूक्ष्माः प्रसवधर्मिण्यस्ततः प्रकृतयः स्मृताः। येभ्योऽधिकर्ता संजज्ञे क्षेत्रज्ञो ब्रह्मसंज्ञितः)॥
तासु प्रकृतिमत्सूक्ष्ममधिष्ठातृत्वमव्ययम्। अनुत्पाद्यं परं धाम परमाणु परेशयम्॥ २२४
अक्षयश्चाप्यनूलश्च अमूर्तिर्मूर्तिमानसौ। प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः॥ २२५
विधिरन्यैरनौपम्यः परमाणुर्महेश्वरः। सतेजा एष तमसो यः पुरस्तात्प्रकांशकः॥ २२६
यदण्डमासीत्सौवर्णं प्रथमं स्वौपसर्गिकम्। बृहंतं सर्वतो वृत्तमेश्वरार्द्धचवजायत॥ २२७
ईश्वराद्वीजनिर्भेदः क्षेत्रज्ञो बीज इष्यते। योनिं प्रकृतिमार्त्त सा च नारायणात्मिका॥ २२८
विभुर्लोकस्य सृष्ट्यर्थं लोकसंस्थानमेव च। सन्निसर्गः स तन्वा च लोकधातुर्महात्मनः॥ २२९
पुरस्ताद्ब्रह्मलोकस्य अण्डादवक्च ब्रह्मणः। × तयोर्मध्ये पुरं दिव्यं स्थानं यस्य मनोमयम्॥
तद्ग्रहवतः स्थानमीश्वरस्यामितौजसः। शिवं नाम पुरं तत्र शरणं जन्मभीरूणाम्॥ २३१
सहस्राणां शतं पूर्णं योजनानां द्विजोत्तमाः। अभ्यन्तरे तु विस्तीर्णं महीमण्डलसंस्थितम्॥ २३२
मध्याह्नार्कप्रकाशेन परतेजोभिमार्दिना। शान्तकौम्भेन महता प्राकारेणार्कवर्चसा॥ २३३
द्वारैश्चतुर्भिः सौवर्णैर्मुक्तादामविभूषितैः। तपनीयनिभैः शुभ्रैगढिं सुकृतवेष्टनम्॥ २३४
तच्चाऽऽकाशे पुरं रम्यं दिव्यं घण्टानिनादितम्। [÷ न तत्र क्रमते मृत्युर्न तापो न जरा श्रम॥
नदन्यैः पुश्चारं रूपमासांतुमर्हति (?)। सहस्राणां शतं पूर्णं योजनानां दिशो दश॥ २३६
तत्पुरं गोवृषाङ्कस्य तेजसा व्याप्य तिष्ठति। भावेन मनसो भूमिविन्यस्ता कनकामयी॥ २३७
रत्नवालुकया तत्र विन्यस्ता शुशुभेऽधिकम्। शारदेन्दुप्रकाशानि बालसूर्यनिभानि च॥ २३८
अर्धश्वेतार्धरक्तानि सौवर्णानि तथैव च। रथचक्रप्रमाणानि नालैर्मरकतप्रभैः॥ २३९
सौकुमारेण रूपेण गन्धिनाऽप्रतिमेन च। तत्र दिव्यानि पद्मानि वनेषूपवनेषु च॥ २४०
भृङ्गपत्रनिकाशानि तपनीयानि यानि च। अर्धकृष्णार्धरक्तानि सुकुमारान्तराणि च॥ २४१
आतपत्रप्रमाणानि पङ्कजैः संवृतानि च। भूयः सप्त महानद्यास्तासां नामानि बोधत॥ २४२
वरा वरेण्या वरदा वराही वरवर्णिनी। वरमा वरभद्रा च रम्यास्तस्मिन्पुरोत्तमे॥ २४३
पद्मोत्पलदलोन्मिश्रं फेनाद्यावर्त्तविग्रहम्। जलं मणिलदलप्रख्यमावहन्ति सरिद्वराः॥ २४४
न तु ब्रह्मर्षयो देवा नासुराः पितरस्तथा। न खल्वन्येऽप्रमेयस्य विदुर्रीशस्य तत्पुरम्॥ २४५
तत्र ये ध्यानमव्यग्राः सुयुक्ता विजितेन्द्रियाः। पश्यन्तीह महात्मानः पुरं तद्गोवृषात्मनः॥ २४६


* अत्र संधिस्त्वार्षः। + धनुश्चिन्हान्तग्रन्थो ग. पुस्तकेषु न विद्यते। इतः प्रभृति प्रकृतयः स्मृता इत्यन्तः पाठो व. पुस्तके नास्ति। × एतदर्धं त्रुटितं ग. घ. ङ. पुस्तकेषु। ÷ धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति।

[अ० १०१-श्लो० २४७-२७१]
वायुपुराणम्
४०९

( शिवपुरवर्णनम् )

मध्ये पुरवरेन्द्रस्य तस्यामतितॆजसा । सुमहान्मेरुसंकाशो दिव्यो भद्रश्रिया वृतः ॥ २४७
सहस्रपादः प्रासादस्तपनीयमयः शुभः । अनुपमेयै रत्नैश्र्व सर्वतः स विभूषितः ॥ २४८
स्फटिकैश्चन्द्रसंकाशैर्वैदूर्यैः सोमसंप्रभैः । बालसूर्यप्रभैश्चैव सौवर्णैश्चाभिसंप्रभैः ॥ २४९
राजतैश्चापि शुशुभे इन्द्रनीलमयैः शुभैः । दृढैर्वज्रमयैश्चैव इत्येवं सुसमाहितैः ॥ २५०
जलैश्र्व विविधाकारैर्दीप्यद्भिरधिवासितम् । चन्द्ररश्मिप्रकाशाभिः पताकाभिरलंकृतम् ॥ २५१
रुक्मघण्टानिनादैश्च नित्यप्रमुदितोत्सवः । किंनराणामधीवासैः । संध्याभ्राकारराजितैः ॥ २५२
पारिवारसमन्तात्तु हेमपुष्पोदकप्रभैः यथा । हि मेरुशैलेन्द्रो हेमशृङ्गैर्विराजते ॥ २५३
( * चामीकरमयीभिस्तु पताकाभिस्तथा पुरम् । एवं प्रासादराजोऽसौ भूमिकाभिर्विराजते ॥ २५४
वसन्तप्रीतमा यत्र त्र्यम्बकस्य निवेशने । लक्ष्मीः श्रीश्च वपुर्माया कीर्तिः शोभा सरस्वती ॥ २५५
देव्या वै सहिता ह्येता रूपगन्धसमन्विताः । नित्या ह्यपरिसंख्याताः परस्परगुणाश्रयाः ) ॥
भूषणं सर्वरत्नानां योन्यः कान्तिविलासयोः ॥ २५६
कोटीशतं महाभाग विभज्याऽऽत्मानमात्मना । भगवन्तं महात्मानं प्रतिमोदन्त्यतन्द्रिताः ॥ २५७
तासां सहस्रशश्चान्याः पृष्ठतः परिचारिकाः । रूपिण्यश्च श्रिया युक्ताः सर्वाः कमललोचनाः ॥ २५८
लीलाविलाससंयुक्तैर्भावैरतिमनाहरैः । गणैस्ताः सह मोदन्ते शैलाभैः पावकोपमैः ॥ २५९
कुब्जा वामनिकाश्चैव वरगात्रा ह्याननाः । पुण्ड्राश्च विकटाश्चैव करालास्त्रिपिटाननाः ॥ २६०
लम्बोदरा ह्रस्वभुजा त्रिनेत्रा ह्रस्वपादिकाः । मृगेन्द्रवदनाश्चान्या गजवक्त्रोदरास्तथा ॥ २६१
गजाननास्तथैवान्याः सिंहव्याघ्राननास्तथा । लोहिताक्षा महास्तन्यः सुभगाश्चारुलोचनाः ॥ २६२
ह्रस्वकुञ्चितकेशाश्च सुन्दर्यश्चारुलोचनाः । अन्याश्च कामरूपिण्यो नानावेषधराः स्त्रियः ॥ २६३
अभ्यन्तरपरिस्कन्धा देवावासगृहोचिताः । × रराम भगवांस्तत्र दशबाहुर्महेश्वरः ॥ २६४
नन्दिना च गणैः सार्धं विश्वरूपैर्महात्मभिः । तथा रुद्रगणैश्चापि तुल्यौदार्यपराक्रमैः ॥ २६५
पावकात्मजसंकाशैर्दंष्ट्रोत्कटाननैः । वन्द्यमानो विमानस्थ ( स्थैः ) पूज्यमानश्च तत्परैः ॥ २६६
सर्वर्तुकुसुमां मालां जिघ्रमा ÷ णोरसि स्थिताम् । नीलोत्पलदलश्यामं पृथुताम्रायतेक्षणम् ॥ २६७
ईषत्कराललम्बोष्ठं तीक्ष्णदंष्ट्रागणाञ्चितम् । षडूर्ध्वनेत्रं दुष्प्रेक्ष्यं रुचिरं चीरवाससम् ॥ २६८
आहवेष्वपरिक्लिष्टं देवानामरिनाशनम् । बाहुना बाहुमावेश्य पार्श्वे सव्येऽन्तरे स्थितम् ॥ २६९
रराज पट्टिशं तस्य वामाग्रकरगोचरम् । महाभैरवनिर्घोषं बलेनाप्रतिमौजसम् ॥
दशवर्णधनुश्चैव विचित्रं शोभतेऽधिकम् ॥ २७०
त्रिशूलं विद्युदाभासममोघं शत्रुनाशनम् । जाज्वल्यमानं वपुषा परमं तच्चिषा युतम् ॥ २७१


*एतच्चिह्नान्तर्गतग्रन्थे पाठव्यत्यासो दृश्यते ख. पुस्तके × अत्र परस्मैपदमार्षम् । ÷अत्र संधिरार्षः ।

५२