सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

(चतुराश्रमविभागः)

[अ०८श्लो०१४६-१७३] वायुपुराणम्। २९

(चतुराश्रमविभागः)
स्वयंभुवं प्रभुं जग्मुः क्षुधाविष्टाः प्रजापतिम्। वृत्त्यर्थमभिलिप्सन्त आदौ त्रेतायुगस्य तु ॥ १४६
ब्रह्मा स्वयंभूर्भगवान्ज्ञात्वा तासां मनीषितम्। युक्तं प्रत्यक्षदृष्टेन दर्शनेन विचार्य च ॥ १४७
ग्रस्ताः पृथिव्या ओषध्यो ज्ञात्वा प्रत्यदुहत्पुनः। कृत्वा वत्सं सुमेरुं तु दुदोह पृथिवीमिमाम् ॥१४८
दुग्धेयं गौस्तदा तेन बीजानि पृथिवीतले। जज्ञिरे तानि बीजानि ग्रामारण्यास्तु ताः पुनः॥ १४९
ओषध्यः फलपाकान्ताः सप्तसप्तदशास्तु ताः। व्रीहयश्च यवाश्चैव (*गोधूमा अणवस्तिलाः॥ १५०
(+प्रियंगवो ह्युदाराश्च कारूषाश्च सवी(ती)नकाः। माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः॥१५१
आढक्याश्चणकाश्चैव सप्तसप्तदशाः स्मृताः। इत्येता ओषधीनां तु ग्राम्याणां जातयः स्मृताः॥१५२
ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश । व्रीहयः सयवा माषा गोधूमा अणवस्तिलाः)॥ १५३
प्रियंगुसप्तमा ह्येते अष्टमी तु कुलत्थिका । श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः॥ १५४
कुरुविन्दा वेणुयवास्तथा मर्कटकाश्च ये । ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश ॥ १५५
उत्पन्नाः प्रथमा ह्येता आदौ त्रेतायुगस्य तु । अफालकृष्टा ओषध्यो ग्रामारण्यास्तु सर्वशः॥ १५६
वृक्षा गुल्मलता वल्ली वीरुधस्तृणजातयः । मूलेः फलैश्च रोहिण्यो गृह्णन्पुष्पैश्च जायते(?) ॥ १५७
पृथ्वी दुग्धा तु बीजानि यानि पूर्वं स्वयंभुवा। ऋतुपुष्पफलास्ता वै ओषध्यो जज्ञिरे त्विह ॥ १५८
यदा प्रसूष्टा ओषध्यो न प्ररोहन्ति ताः पुनः। ततः स तासां वृत्त्यर्थं वार्तोपायं चकार ह १५९
ब्रह्मा स्वयंभूर्भगवान्दृष्ट्वा सिद्धिं तु कर्मजाम् । ततः प्रभृत्यथौषध्यः कृष्टपच्यास्तु जज्ञिरे ॥ १६०
संसिद्धायां तु वार्तायां ततस्तासां स्वयंभुवा। मर्यादाः स्थापयामास यथारब्धाः परस्परम् ॥ १६१
ये वै परिग्रहीतारस्तामासामासान्विधात्मकाः । इतरेषां क्षतत्राणाः स्थापयामास क्षत्रियान् ॥ १६२
उपतिष्ठन्ति ये तान्वै यावन्तो निर्भयास्तथा । सत्यं ब्रह्म यथा भूतं ब्रुवन्तो ब्राह्मणाश्च ते ॥ १६३
ये चान्येऽप्यबलास्तेषां वैशसं कर्म संस्थिताः। कीनाशा नाशयान्ति स्म पृथिव्या प्रागतान्द्रिताः॥ १६४
वैश्यन्येव तु तानाहुः कीनाशान्वृत्तिसाधकान् । शोचन्तश्च द्रवन्तश्च परिचर्यासु ये रताः॥ १६५
निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीत्तु सः । तेषां कर्माणि धर्मांश्च ब्रह्मा तु व्यदधात्प्रभुः॥ १६६
संस्थितौ प्राकृतायां तु चातुर्वर्ण्यस्य सर्वशः। पुनः प्रजास्तु ता मोहात्तान्धर्मान्नत्वपालयन्॥ १६७
वर्णधर्मैर्जीवन्त्यो व्यरुध्यन्त परस्परम्। ब्रह्मा तमर्थं बुद्ध्वा तु याथातथ्येन वै प्रभुः॥ १६८
क्षत्रियाणां बलं दण्डं युद्धमाजीवमादिशत्। याजनाध्यापनं चैव तृतीयं च प्रतिग्रहम् ॥ १६९
ब्राह्मणानां विभुस्तेषां कर्माण्येतान्यथाऽऽदिशत्। पाशुपाल्यं वाणिज्ज्यं च कृषिं चैव विशां ददौ ॥१७०
शिल्पाजीवं भृतिं चैव शूद्राणां व्यदधात्प्रभुः । सामान्यानि तु कर्माणि ब्रह्मक्षत्रविशां पुनः॥ १७१
यजनाध्ययनं दानं सामान्यानि तु तेषु च । कर्माजीवं ततो दत्त्वा तेभ्यश्चैव परस्परम् ॥ १७२
लोकान्तरेषु स्थानानि तेषां सिद्ध्याऽददात्प्रभुः । प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम्॥१७३


* एतच्चिह्नान्तर्गतग्रन्थो ङ पुस्तके। नास्ति + धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति।

३० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८ श्लो १७४-२०१]
( चतुराश्रमविभागः )

स्थानमैन्द्रं क्षत्रियाणां सङ्ग्रामेष्वपलायिनाम् । वैश्यानां मारुतं स्थानं स्वधर्ममुपजीविनाम् ॥ १७४
गान्धर्वं शूद्रजातीनां परिचारेण तिष्ठताम् । स्थानान्येतानि वर्णानां व्यत्याचारवतां स्वयम् ॥ १७५
ततः स्थितेषु वर्णेषु स्थापयामास चाऽऽश्रमान् । गृहस्थो ब्रह्मचारित्वं वानप्रस्थं साभिक्षुकम् ॥ १७६
आश्रमांश्चतुरो ह्येतान्पूर्वमास्थापयत्प्रभुः । वर्णकर्माणि ये केचित्तेषामिह न कुर्वते ॥ १७७
कुतः कर्माक्षितिं प्राहूराश्रमस्थानवासिनः । ब्रह्मा तान्स्थापयामास आश्रमान्नाम नामतः ॥ १७८
निर्देशार्थं ततस्तेषां ब्रह्मा धर्मानभाषत । प्रस्थानानि च तेषां वै यमांश्च नियमांश्च ह ॥ १७९
चातुर्वर्ण्यात्मकः पूर्वं गृहस्थश्चाऽऽश्रमः स्मृतः । त्रयाणामाश्रमाणां च प्रतिष्ठा योनिरैव च ॥ १८०
यथाक्रमं प्रवक्ष्यामि यमैश्च नियमैश्च ते । दाराग्न्याऽऽस्थाऽऽतिथेय इज्याश्राद्धक्रियाः प्रजाः ॥ १८१
इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः । दण्डी च मेखली चैव ह्यधःशायी तथा जटी ॥ १८२
गुरुशुश्रूषणं भैक्ष्यं विद्यार्थे ब्रह्मचारिणः । चरिपत्राजिनानि स्युर्धान्यमूलफलौषधम् ॥ १८३
उभे संध्ये वगाहश्च होमश्चारण्यवासिनाम् । आसन्नमुसले भैक्षमस्तेयं शौचमेव च ॥ १८४
अप्रमादोऽव्यवायश्च दया भूतेषु च क्षमा । अक्रोधो गुरुशुश्रूषा सत्यं च दशमं स्मृतम् ॥ १८५
दशलक्षणको ह्येष धर्मः प्रोक्तः स्वयंभुवा । भिक्षोर्व्रतानि पञ्चात्र पञ्चैवोपत्रतानि च ॥ १८६
आचारशुद्धिर्विनयः शौचं चापातिकर्म च । सम्यग्दर्शनामित्येवं पञ्चैवोपत्रतान्यपि ॥ १८७

ध्यानं समाधिर्मनसेन्द्रियाणां ससागरैर्भैक्ष्यमथोपगम्य ।
मौनं पवित्रोपचितैर्विमुक्तिः परिव्रजो धर्ममिमं वदन्ति ॥

सर्वे ते श्रेयसे प्रोक्ता आश्रमा ब्रह्मणा स्वयम् । सत्यार्जवं तपः क्षान्तिर्योगेज्या दमपूर्विका ॥ १८९
वेदाः साङ्गाश्च यज्ञाश्च व्रतानि नियमाश्च ये । न सिध्यन्ति प्रदुष्टस्य भावदोष उपागते ॥ १९०
बहिः कर्माणि सर्वाणि प्रसिध्यन्ति कदाच न । अन्तर्भावप्रदुष्टस्य कुर्वतोऽपि पराक्रमान् ॥ १९१
सर्वस्वमपि यो दद्यात्कलुषेणान्तरात्मना । न तेन धर्मभाक्स स्याद्भाव एवात्र कारणम् ॥ १९२
एवं देवाः सपितर ऋषयो मनवस्तथा । तेषां स्थानममुष्मिंस्तु संस्थितानां प्रचक्षते ॥ १९३
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् । स्मृतं तु तेषां तत्स्थानं तदेव गुरुवासिनाम् ॥ १९४
सप्तर्षीणां तु यत्स्थानं स्मृतं तद्वै दिवौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयम् ॥ १९५
योगिनाममृतं स्थानं नानाधीनां न विद्यते । स्थानान्याश्रमिणां तानि ये स्वधर्मे व्यवस्थिताः ॥ १९६
चत्वार एते पन्थानो देवयाना विनिर्मिताः । ब्रह्मणा लोकतन्त्रेण आद्ये मन्वन्तरे भुवि ॥ १९७
पन्थानो देवयानाय तेषां द्वारं रविः स्मृतः । तथैव पितृयानानां चन्द्रमा द्वारमुच्यते ॥ १९८
एवं वर्णाश्रमाणां वै प्रविभागे कृते तदा । यदाऽस्य न व्यवर्तन्त प्रजा वर्णाश्रमात्मिकाः ॥ १९९
ततोऽन्या मानसीः सोऽथ त्रेतामध्येऽसृजत्प्रजाः । आत्मनः स्वशरीराच्च तुल्याश्चैवात्मना तु वै ॥ २००
तस्मिंस्त्रेतायुगे त्वाद्ये मध्यं प्राप्ते क्रमेण तु । ततोऽन्या मानसीस्तत्र प्रजाः स्रष्टुं प्रचक्रमे ॥ २०१

[अ० ९ श्लो० १-१४] वायुपुराणम्। ३१

( देवादि सृष्टिकथनम् )

ततः सत्त्वरजोद्रिक्ताः प्रजाः सोऽथासृजत्प्रभुः । धर्मार्थकाममोक्षाणां वार्त्तायाश्चैव साधिकाः ॥ २०२
देवाश्च पितरश्चैव ऋषयो मनवस्तथा । युगानुरूपा धर्मेण यैर्रिमा विचिन्ताः प्रजाः ॥ २०३
उपस्थिते तदा तस्मिन्प्रजाधर्मे स्वयंभुवः । अभिदध्यौ प्रजाः सर्वा नानारूपास्तु मानसीः ॥ २०४
पूर्वोक्ता या मया तुभ्यं जनलोकं समाश्रिताः । कल्पेऽतीते तु ते ह्यासन्देवाद्यास्तु प्रजा इह ॥ २०५
ध्यायस्तस्तस्य ताः सर्वाः संभूत्यर्थमुपस्थिताः । मन्वन्तरक्रमेणेह कनिष्ठे प्रथमे मताः ॥ २०६
ख्यात्याऽनुबन्धैस्तैस्तैस्तु सर्वार्थैर्रिह भाविताः । कुशलाकुशलप्रायैः कर्मभिस्तैः सदा प्रजाः ॥ २०७
तत्कर्मफलशेषेण उपष्टब्धाः प्रजज्ञिरे । देवासुरपितॄंश्चैव पशुपक्षिसरीसृपैः ॥ २०८
वृक्षनारकिकीटत्वैस्तैस्तैर्भावैरुपस्थिताः । आर्थिनार्थं प्रजानां च आत्मनो वै विनिर्ममे ॥ २२९

इति महापुराणे वायुप्रोक्ते चतुराश्रमविभागकथनं नामाष्टमोऽध्यायः ॥ ८ ॥

आदितः श्लोकानां समष्ट्यङ्काः-७७७


अथ नवमोऽध्यायः ।

देवादि सृष्टिकथनम् ।

सूत उवाच--
ततोऽभिध्यायस्तस्य णज्ञिरे मानसी(स)प्रजाः । तच्छरीरसमुत् नैः कार्यैस्तैः कारणैः सह ॥ १
क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्तस्य धीमतः । ततो देवासुरपितॄन्मानवं च चतुष्टयम् ॥ २
सिसृक्षुरम्भांस्येतांश्च स्वात्मना समयूयुजत् । युक्तात्मनस्ततस्तस्य ततो मात्रा स्वयंभुवा ॥ ३
तमभिध्यायतः सर्गं प्रयत्नोऽभूतप्रजापतेः । ततोऽस्य जघनात्पूर्वमसुरा जज्ञिरे सुताः ॥ ४
असुः प्राणः स्मृतो विप्रैस्तज्जन्मानस्ततोऽसुराः । यया सृष्टाः सुरास्तन्वा तां तनुं स व्यपो(पौ)हत ॥ ५
साऽपविद्धा तनुस्तेन (*सद्यो रात्रिरजायत । सा तमोबहुला यस्मात्ततो रात्रित्रियामिका ॥ ६
आवृतास्तमसा रात्रौ प्रजास्तस्मात्स्वयंभुवः । दृष्ट्वा सुरांस्तु देवेशस्तनुमन्यामपद्यत ॥ ७
अव्यक्तां सत्त्वबहुलां ततस्तां सोऽभ्ययूयुजत् । ततस्तां युञ्जतस्तस्य प्रियम्यासीत्प्रभोः किल ॥ ८
ततां मुखे समुत्पन्ना दीव्यतस्तस्य देवताः । यतोऽस्य दीव्यतो जातास्तेन देवाः प्रकीर्तिताः ॥ ९
धातुर्दीवीति यः प्रोक्तः क्रीडायां स विभाव्यते । तस्यां तन्वां तु दिव्यायां जज्ञिरे तेन देवताः ॥ १०
देवान्सृष्ट्वाऽथ देवेशस्तनुमन्यामपद्यत । + उत्सृष्टा सा तनुस्तेन सद्यो हस्तादजायत ॥ ११
÷ तस्मादहःकर्मयुक्तो देवताः समुपासते । सत्त्वमात्रात्मिकां देवस्ततोऽन्यां सोऽभ्यपद्यत ॥ १२
पितृवन्मन्यमानस्तान्पुत्रान्माध्यायत् प्रभुः । पितरो ह्युपपक्षाभ्यां रात्र्यह्रोरन्तराऽसृजत् ॥ १३
तस्मात्ते पितरो देवाः पुत्रत्वं तेन तेषु तत् । यया सृष्टास्तु पितरस्तां तनुं स व्यपो (पौ)हत ॥ १४


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + इदमर्धं क. ख. पुस्तकयोर्नास्ति । ÷ इदमर्धं नास्ति क. ख. ग. पुस्तकेषु ।

३२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ९श्लो १५-४०]
(देवादिस्सृष्टिकथनम्)

साऽपविद्धा तनुस्तेन) सद्यः संध्या प्र(ह्र)जायत । तस्मादहस्तु देवानां रात्रिर्या साऽऽसुरी स्मृता ॥ १५
तयोर्मध्ये तु वै पैत्री या तनुः सा गरीयसी । तस्माद्देवासुराः सर्व ऋषयो मनवस्तथा ॥ १६
ते युक्तास्तामुपासन्ते ब्रह्मणो मध्यमां तनुम् । ततोऽन्यां स पुनर्ब्रह्मा तनुं वै प्रत्यपद्यत ॥ १७
रजोमात्रात्मिकायां तु मनसा सोऽसृजत्प्रभुः । रजःप्रायात्ततः सोऽथ मानसानसृजत्सुतान् ॥ १८
मनसस्तु ततस्तस्य मानसा(स्यो) जज्ञिरे प्रजाः । (*दृष्ट्वा पुनः प्रजाश्चापि स्वां तनुं तामपी(पौ)हत
साऽपविद्धा तनुस्तेन ज्योत्स्ना सद्यस्त्वजायत । तस्माद्भवन्ति संहृष्टा ज्योत्स्नाया उद्भवे प्रजाः)॥२०
इत्येतास्तनवस्तेन व्यपविद्धा महात्मना । सद्यो रात्र्यहनी चैव संध्या ज्योत्स्ना च जज्ञिरे ॥ २१
ज्योत्स्ना संध्या तथाऽहश्च सत्त्वमात्रात्मकं स्वयम् । तमोमात्रात्मिका रात्रिः सा वै तस्मात्त्रियामिका ॥ २२
तस्माद्देवा दिव्यतन्वा हृष्टाः सृष्टा मुखात्तु वै । यस्मात्तेषां दिवा जन्म बलिनस्तेन ते दिवा ॥ २३
तन्वा यदसुरान्रात्रौ जघनादसृजत्प्रभुः । प्राणेभ्यो रात्रिजन्मानो ह्यसह्या निशि तेन ते ॥ २४
एतान्येव भविष्याणां देवानामसुरैः सह । पितॄणां मानवानां च अतीतानांगतेषु वै ॥ २५
मन्वन्तरेषु सर्वेषु निमित्तानि भवन्ति हि । ज्योत्स्ना रात्र्यहनी संध्या चत्वार्याभासितानि वै ॥ २६
भान्ति यस्मात्ततोऽम्भा(म्भां)सि भाशब्दोऽयं मनीषिभिः । व्याप्तिर्दीप्त्यां निगदितः पुनश्चाऽऽह प्रजापतिः ॥ २७
सोऽम्भांस्येतानि दृष्ट्वा तु देवदानवमानवान् । पितॄंश्च वाऽसृजत्सोऽन्यानात्मनो विबुधान्पुनः ॥ २८
तामुत्सृज्य तनुं कृत्स्नां ततोऽन्यामसृजत्प्रभुः । मूर्तिं रजस्तमःप्रायां पुनरेवाभ्ययुयुजत् ॥ २९
अन्धकारे क्षुधाविष्टस्ततोऽन्यां सृजते पुनः । तेन सृष्टाः क्षुधात्मानस्तेऽम्भांस्यादातुमुद्यताः ॥ ३०
अम्भांस्तेतानि रक्षाम उक्तवन्तश्च तेषु च । राक्षसास्ते स्मृता लोके क्रोधात्मानो निशाचराः ॥ ३१
येऽब्रुवन्क्षिणुमोऽम्भांसि तेषां दृष्टाः परस्परम् । तेन ते कर्मणा यक्षा गुह्यकाः क्रूरकर्मिणः ॥ ३२
रक्षणे पालने चापि धातुरेष विभाव्यते । य एष क्षितिधातुर्वै क्षयणे संनिरुच्यते ॥ ३३
तान्दृष्ट्वा ह्यमियेणास्य केशाः शीर्यन्त(?) धीमतः । शीतीष्णाश्चोच्छ्रिता ह्यूर्ध्वं तदाऽरोहन्त तं प्रभुम्
हीना मच्च्छिरसो व्याला यस्माच्चैवापसर्पिताः । ( ÷व्यालात्मानः स्मृता व्याला हीनत्वादहयः स्मृताः ॥ ३५
पन्नत्वात्पन्नगाश्चैव सर्पाश्चैवापसर्पिणः । ) तेषां पृथिव्यां निलयाः सूर्याचन्द्रमसोरधः ॥ ३६
तस्य क्रोधोद्भवो योऽसावग्निगर्भसुदारुणः । स तु सर्पसहोत्पन्नानाविवेश विषात्मकान् ॥ ३७
सर्पान्सृष्ट्वा ततः क्रोधात्क्रोधात्मा(त्म)नो विनिर्ममे । वर्णेन कपिशेनोम्रास्ते भूताः पिशिताशनाः॥ ३८
भूतत्वात्ते स्मृता भूताः पिशाचाः पिशिताशनात् । धयन्तो गांस्ततस्तस्य गन्धर्वा जज्ञिरे तदा ॥ ३९
धयतीत्येष धातुर्वै पानार्थे परिपठ्यते । पिबन्तो जज्ञिरे गास्तु गन्धर्वांस्तेन ते स्मृताः ॥ ४०


*एतच्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतश्लोको न दृश्यते ख.ग.घ.पुस्तकेषु ।

[अ० ९ श्लो० ४१-७०] वायुपुराणम् ३३
(देवादिसृष्टिकथनम्)
अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः । ततः स्वच्छन्दतोऽन्यानि वयांसि वयसोऽसृजत् ॥ ४१
छाद्यतस्तानि च्छन्दांसि वयसोऽपि वयांस्यपि । शून्यान्दृष्ट्वा तु देवो वै सृजत्पक्षिगणानपि ॥ ४२
मुखतोऽजान्ससर्जाथ वक्षसश्च वयोऽसृजत् । गाश्चैवाथोदराद्वह्वा पार्श्वभ्यां च विनिर्ममे ॥ ४३
पद्भ्यां चाश्वान्समातङ्गाञ्छरभानन्गवयान्मृगान् । उष्ट्रानश्वतरांश्चैव ताश्चान्याश्चैव जातयः ॥ ४४
ओषध्यः फलमूलानि रोमतस्तस्य जज्ञिरे । एवं पशूषधीः सृष्ट्वा न्ययुङ्क्तसोऽध्वरे प्रभुः ॥ ४५
तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा । गौरजः पुरुषो मेषो ह्यश्वोऽश्वतरगर्दभौ ॥ ४६
एतान्याम्यान्पशूनाहुरारण्यांश्च निबोधत । श्वापदा द्विखुरो हस्ती वानरः पक्षिषञ्चमाः ॥ ४७
उन्दुकाः पशवः सृष्टाः सप्तमास्तु सरीसृपाः । गायत्रं वरुणं चैव त्रिवृत्सौम्यं रथंतरम् ॥ ४८
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् । छन्दांसि त्रैष्टुभं चैम स्तोमं पञ्चदशं तथा ॥ ४९
बृहत्साममथोक्यंथं च दक्षिणात्सोऽसृजन्मुखात् । (*सामानि जगती छन्दःस्तोमं पञ्चदशं तथा ॥ ५०
वैरूप्यमतिरात्रं च पश्चिमादसृजन्मुखात् ।) एकविंशमथर्वाणमापोर्यामाणमेव च ॥ ५१
अनुष्टुभं संवैराजमुत्तरादसृजन्मुखात् । विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ ५२
वयांसि च ससर्ज्जाऽऽदौ कल्पस्य भगवानन्प्रभुः । उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ५३
ब्रह्मणस्तु प्रजासर्गं सृजतो हि प्रजापतेः । सृष्ट्वा चतुष्टयं पूर्वं देवासुरपितॄन्प्रजाः ॥ ५४
ततः सृजति भूतानि स्थावराणि चराणि च । यक्षान्पिशाचान्गन्धर्वास्तथैवाप्सरसां गणान् ॥ ५५
नरकिंनररक्षांसि वयःपशुमृगोरगान् । अव्ययं च व्ययं चैव यदिदं स्थाणुजङ्गमम् ॥ ५६
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ५७
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ५८
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु । विनियोगं च भूतानां धातैव व्यदधात्स्वयम् ॥ ५९
केचित्पुरुषकारं तु प्राहुः कर्म च मानवाः । दैवमित्यपरे विप्राः स्वभावं दैवचिन्तकाः ॥ ६०
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः । न चैकं न पृथग्भावमधिकं न तयोर्विदुः ॥ ६१
एतदेवं(कं) च नैकं च न चोभे न च वाऽप्युभे । कर्मस्थान्विषयान्ब्रूयुः सत्त्वस्था समदर्शिनः ॥ ६२
नाम रूपं च भूतानां कृतनां च प्रपञ्चनम् । वेदशब्देभ्य एवाऽऽदौ निर्ममे स महेश्वरः ॥ ६३
ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवास्य दधाति सः ॥ ६४
यथर्तार्ट्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ६५
एवंविधासु सृष्टासु ब्रह्मणाऽव्यक्तजन्मना । शर्वर्यन्ते प्रदश्यन्ते सिद्धिमाश्रित्य मानसीम् ॥ ६६
एवं भूतानि सृष्टानि चराणि स्थावराणि च । यदाऽस्य ताः प्रजाः सृष्टा न व्यवर्धन्त धीमतः ॥ ६७
अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत् । भृगुं पुलस्त्यं पुलहं क्रतुमाङ्गिरसं तथा ॥ ६८
मरीचिं दक्षमत्रिं च वसिष्ठं चैव मानसम् । नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ ६९
तेषां ब्रह्मात्मकानां वै सर्वेषां ब्रह्मवादिनाम् । ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषात्सम्भवम् ॥ ७०


* धनुश्चिह्नान्तग्रन्थो घ. पुस्तके नास्ति ।

५

३४
श्रीमद्वैपायनमुनिप्रणीतम्-
[अ०९श्लो०७१-१००]
( देवादिसृष्टिकथनम् )

संकल्पं चैव धर्मं च पूर्वेषामपि पूर्वजः । अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥ ७१
सनन्दनं ससनकं विद्वांसं च सनातनम् । सनत्कुमारं च विभुं सनकं च सनन्दनम् ॥ ७२
न ते लोकेषु सज्जन्ते निरपेक्षाः सनातनाः । सर्वे ते ह्यागतज्ञाना वीतरागा विमत्सराः ॥ ७३
तेष्वेवं निरपेक्षेषु लोकवृत्तानुकारणात् । हिरण्यगर्भो भगवान्परमेष्ठी ह्यचिन्तयत् ॥ ७४
तस्य रोषात्समुत्पन्नः पुरुषोऽर्कसमद्युतिः । अर्धनारीनरवपुस्तेजसा ज्वलनोपमः ॥ ७५
सर्वं तेजोमयं जातमादित्यसमतेजसम् । विभजाऽऽत्मानमित्युक्त्वा तत्रैवान्तरधीयत ॥ ७६
एवमुक्त्वा द्विधा भूतः पृथक्स्त्री पुरुषः पृथक् । स चैकादशधा जज्ञे अर्धमात्मानमीश्वरः ॥ ७७
तेनोक्तास्ते महात्मानः सर्व एव महात्मना । जगतो बहुलीभावमधिकृत्य हितैषिणः ॥ ७८
लोकवृत्तान्तहेतोर्हि प्रयतध्वमतन्द्रिताः । विश्वं विश्वस्य लोकस्य स्थापनाय हिताय च ॥ ७९
एवमुक्तास्तु रुरुदुर्दद्रुवुश्च समन्ततः । रोदनाद्द्रवणाच्चैव रुद्रा नाम्नेति विश्रुताः ॥ ८०
यैर्हि व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् । तेषामनुत्तरा लोके सर्वलोकपरायणाः ॥ ८१
नैकनागायुतबला विक्रान्ताश्च गणेश्वराः । तत्र या सा महाभागा शंकरस्यार्धकायिनी ॥ ८२
प्रागुक्ता न मया तुभ्यं स्त्री स्वयंभोर्मुखोद्गता । कायार्धं दक्षिणं तस्याः शुक्लं वामं तथाऽसितम् ॥ ८३
आत्मानं विभजस्वेति सोक्ता देवी स्वयंभुवा । सा तु प्रोक्ता द्विधा भूता शुक्ला कृष्णा च वै द्विजाः॥
तस्या नामानि वक्ष्यामि शृणुध्वं सुसमाहिताः । स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती ॥ ८५
अपर्णा चैकपर्णा च तथा स्यादेव पाटला । उमा हैमवती षष्ठी कल्याणी चैव नामतः ॥ ८६
ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता । विश्वरूपमथाऽऽर्यायाः पृथग्देहविभावनाव् ॥ ८७
शृणु संक्षेपतस्तस्या यथावदनुपूर्वशः । प्रकृतिर्नियता रौद्री दुर्गा भद्रा प्रमाथिनी ॥ ८८
कालरात्रिर्महामाया रेवती भूतनायिका । द्वापरान्तविकारेषु देव्या नामानि मे शृणु ॥ ८९
गौतमी कौशिकी आर्या चण्डी कात्यायनी सती । कुमारी यादवी देवी वरदा कृष्णपिङ्गला ॥ ९०
बर्हिर्ध्वजा शूलधरा परमब्रह्मचारिणी । माहेन्द्री चेन्द्रभगिनी वृषकन्यैकवाससी ॥ ९१
अपराजिता बहुभुजा प्रगल्भा सिंहवाहिनी । एकानंसा ( शा ) दैत्यहनी माया महिषमर्दिनी ॥ ९२
अमोघा विन्ध्यनिलया विक्रान्ता गणनायिका । दैवीनामविकाराणि इत्येतानि यथाक्रमम् ॥ ९३
भद्रकाल्यास्तथोक्तानि देव्या नामानि तत्त्वतः । ये पठन्ति नरास्तेषां विद्यते न पराभवः ॥ ९४
अरण्ये प्रान्तरे वाऽपि पुरे वाऽपि गृहेऽपि वा । रक्षामेतां प्रयुञ्जीत जले वाऽपि स्थलेऽपि वा ॥ ९५
व्याघ्रकुम्भीरचौरेभ्यो भूतस्थाने विशेषतः । आधिष्वपि च सर्वासु ( वैषु ) देव्या नामानि कीर्तयेत् ॥ ९६
अर्भकग्रहभूतैश्च पूतनामातृभिः सदा । अभ्यार्दितानां बालानां रक्षामेतां प्रयोजयेत् ॥ ९७
महादेवी कुले द्वे तु प्रज्ञा श्रीश्च प्रकीर्त्यते । आभ्यां देवीसहस्राणि यैर्व्याप्तमखिलं जगत् ॥ ९८
साऽसृजद्व्यवसायं तु धर्मं भूतसुखावहम् । संकल्पं चैव कल्पादौ जज्ञिरेऽव्यक्तयोनितः ॥ ९९
मानसश्च रुचिर्नाम विज्ञेयो ब्रह्मणः सुतः । प्राणास्त्वादसृजद्दक्षं चक्षुर्भ्यां च मरीचिनम् ॥ १००

[अ० १० श्लो० १] वायुपुराणम् । ३५
( मन्वन्तरवर्णनम् )

भृगुस्तु हृदयाज्जज्ञे ऋषिः सलिलजन्मनः । शिरसोऽङ्गिरसं चैव श्रोत्रादत्रिस्तथैव च ॥ १०१
पुलस्त्यं च तथोदानाद्व्यानाच्च पुलहं पुनः । समानजं वशिष्ठं तु अपानान्निर्ममे क्रतुम् ॥ १०२
अभिमानात्मकं भद्रं निर्ममे नीललोहितम् । इत्येते ब्रह्मणः पुत्राः प्राणजा द्वादश स्मृताः ॥ १०३
इत्येते मानसाः पुत्रा विज्ञेया ब्रह्मणः सुताः । भृग्वादयस्तु ये सृष्टा नवैते ब्रह्मवादिनः ॥ १०४
गृहमेधिनः पुराणास्ते धर्मस्तैः प्राक्प्रवर्तितः । द्वादशैते प्रवर्तन्ते सह रुद्रेण वै प्रजाः ॥ १०५
ऋभुः सनत्कुमारस्तु द्वावेतावृर्ध्वरेतसौ । पूर्वोत्पन्नौ पुरा तेभ्यः सर्वेषामपि पूर्वजौ ॥ १०६
व्यतीते प्रथमे कल्पे पुराणे लोकसाधकौ । वैराजे तावुभौ लोके तेजः संक्षिप्य चाऽऽस्थितौ ॥ १०७
तावुभौ योगधर्माणामारोप्याऽऽत्मानमात्मनि । प्रजाधर्मं च कामं च वर्तयेतां महौजसौ ॥ १०८
यथोत्पन्नस्तथैवेह कुमार इति चोच्यते । तस्मात्सनत्कुमारोऽयमिति नामास्य कीर्तितम् ॥ १०९
तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः । क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः ॥ ११०
इत्येष करणोद्भूतो लोकान्सृष्टुं स्वयंभुवः । महदादिविशेषान्तो विकारः प्रकृतेः स्वयम् ॥ १११
चन्द्रसूर्यप्रभालांको ग्रहनक्षत्रमण्डितः । नदीभिश्च समृद्धैश्च पर्वतैश्च समावृतः ॥ ११२
पुरैश्च विविधाकारैः प्रीतैर्जनपदैस्तथा । तस्मिन्ब्रह्मवनेऽव्यक्ते ब्रह्मा चरति शर्वरीम् ॥ ११३
अव्यक्तबीजप्रभवस्तस्यैवानुग्रहोत्थितः । बुद्धिस्कन्धमयश्चैव इन्द्रियाङ्कुरकोटरः ॥ ११४
महाभूतप्रशाखश्च विशेषैः पत्रवांस्तथा । धर्माधर्मसुपुष्पस्तु सुखदुःखफलोदयः ॥ ११५
आजीवः सर्वभूतानामयं वृक्षः सनातनः । एतद्ब्रह्मवनं चैव ब्रह्मवृक्षस्य तस्य ह ॥ ११६
अव्यक्तं कारणं यत्तु नित्यं सदसदात्मकम् । इत्येषोऽनुग्रहः सर्गो ब्रह्मणः प्राकृतस्तु यः ॥ ११७
मुख्यादयस्तु षट्सर्गा वैकृता बुद्धिपूर्वकाः । त्रैकाले समवर्तन्त ब्रह्मणस्तेऽभिमानिनः ॥ ११८
सर्गाः परस्परस्याथ कारणं ते बुधैः स्मृताः । दिव्यौ सुपर्णौ सयुजौ सशाखौ पटाविद्रुमौ ॥
एकस्तु यो द्रुमं वेत्ति नान्यः सर्वात्मनस्ततः ॥ ११९
द्यौर्मूर्धानं यस्य विप्राः स्तुवन्ति खं नाभिर्वै चन्द्रसूर्यौ च नेत्रे ॥
दिशः श्रोत्रे चरणौ चास्य भूमिः सोऽचिन्त्यात्मा सर्वभूतप्रसूतिः ॥ १२०
वक्त्रादस्य ब्राह्मणाः संप्रसूता यद्वक्षस्तः क्षत्रियाः पूर्वभागे ॥
वैश्याश्चोरोर्यस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥ १२१
महेश्वरः परोऽव्यक्तादण्डमव्यक्तसंभवम् । अण्डाज्जज्ञे पुनर्ब्रह्मा येन लोकाः कृतास्त्विमे ॥ १२२

इति श्रीमहापुराणे वायुप्रोक्ते देवादिसृष्टिवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥
आदितः श्लोकानां समष्ट्यङ्काः--९०८

अथ दशमोऽध्यायः ।

मन्वन्तरवर्णनम् ।

सूत उवाच--
एवं भूतेषु लोकेषु ब्रह्मणा लोककर्तृणा । यदा ता न प्रवर्तन्ते प्रजाः केनापि हेतुना ॥ १

३६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १० श्लो० २-३१]
(मन्वन्तरवर्णनम्)

तमोमात्रावृतो ब्रह्मा तदाप्रभृति दुःखितः । ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ २
अथाऽऽत्मनि समस्राक्षीत्तमोमात्रां नियामिकाम् । राजसत्वं पराजित्य वर्तमानं च धर्मतः ॥ ३
तप्यते तेन दुःखेन शोकं चक्रे जगत्पतिः । तमश्च व्यनुदत्तस्माद्रजस्तसमावृणोत् ॥ ४
तत्तमः प्रतिनुन्नं वै मिथुनं स व्यजायत । अधर्माच्चचरणाज्जज्ञे हिंसा शोकादजायत ॥ ५
ततस्तस्मिन्समुद्भूते मिथुने चरणात्मनि । ततश्च भगवानासीत्प्रीतश्चैवमाशिश्रियत् ॥ ६
स्वां तनुं स ततो ब्रह्मा तामपो(पो)हदभास्वराम् । द्विधाऽकरोत्स तं देहमर्धेन पुरुषोऽभवत् ॥ ७
अर्धेन नारी सा तस्य शतरूपा व्यजायत । प्रकृतां भूतधात्रीं तां कामान्वै सृष्टवान्विभुः ॥ ८
सा दिवं पृथिवीं चैव महिम्ना व्याप्य धिष्ठिता । ब्रह्मणः सा तनुः पूर्वा दिदमावृत्य तिष्ठति ॥ ९
या त्वर्धात्सृजते नारी शतरूपा व्यजायत । सा देवी नियुतं तप्त्वा तपः परमदुश्चरम् ॥ १०
भर्तारं दीप्तयशसं पुरुषं प्रत्यपद्यत । स वै स्वायंभवः पूर्वं पुरुषो मनुरुच्यते ॥ ११
तस्यैकसमतियुगं मन्वन्तरमिहोच्यते । लब्ध्वा तु पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ १२
तया स रमते सार्थं तस्मात्सा रतिरुच्यते । प्रथमः संप्रयोगः स कल्पादौ समवर्तत ॥ १३
विराजमसृजद्ब्रह्मा सोऽभवत्पुरुषो विराद् । स सम्राट्शतरूपात्तु वैराजस्तु मनुः स्मृतः ॥ १४
स वैराजः प्रजासर्गः स सर्गे पुरुषो मनुः । वैराजात्पुरुषाद्वीराच्छतरूपा व्यजायत ॥ १५
प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ । कन्ये द्वे च महाभागे याभ्यां जाताः प्रजास्त्विमाः ॥ १६
देवी नाम्ना तथाऽऽकूतिः प्रसूतिश्चैव ते शुभे । स्वायंभुवः प्रसूतिं तु दक्षाय व्यसृजत्प्रभुः ॥ १७
(+प्राणो दक्षस्तु विज्ञेयः संकल्पो मनुरुच्यते । रुचेः प्रजापतेश्चैव आकुतिं प्रत्यपादयत् ॥ १८
आकृत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् । यज्ञश्च दक्षिणा चैव यमकौ संबभूवतुः ॥ १९
यज्ञस्य दक्षिणायां च पुत्रा द्वादश जज्ञिरे । यामा इति समाख्याता देवाः स्वायंभुवेऽन्तरे ॥ २०
यमस्य पुत्रा यज्ञस्य तस्माद्यामास्तु ते स्मृताः । अजिताश्चैव शूकाश्च गणौ द्वौ ब्रह्मणः स्मृतौ ॥ २१
यामाः पूर्वं परिक्रान्ता यतः संज्ञा दिवौकसः । स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः ॥ २२
तस्यां कन्याश्चतुर्विंशद्दक्षस्त्वनयत्प्रभुः । सर्वास्ताश्च महाभागाः सर्वाः कमललोचनाः ॥ २३
योगपत्न्यश्च ताः सर्वाः सर्वास्ता योगमातरः । *सर्वाश्च ब्रह्मवादिन्यः सर्वा विश्वस्य मातरः ॥ २४
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिलज्जा वपुःशान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ २५
पत्न्यार्थे प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः । दाराण्येतानि चैवास्य विहितानि स्वयंभुवा ॥ २६
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः । ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ २७
संनतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा । तास्ततः प्रत्यपद्यन्त पुनरन्ये महर्षयः ॥ २८
रुद्रो भृगुर्मरीचिश्च अङ्गिराः पुलहः क्रतुः । पुलस्त्योऽत्रिवशिष्ठश्च पितरोऽग्निस्तथैव च ॥ २९
सतीं भवाय प्रायच्छत्ख्यातिं च भृगवे तथा । मरीचये च संभूतिं स्मृतिमाङ्गिरसे ददौ ॥ ३०
प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च । क्रतवे संनतिं नाम अनसूयां तथाऽत्रये ॥ ३१


  • धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति । * इदमर्धं नास्ति क. पुस्तके ।