सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

( गयामाहात्म्यम् )

४४६ श्रीमद्वैपायनमुनिप्रणीतम् - [अ० १११ श्लो० ३-२३]
( गयामाहात्म्यम् )

सूर्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये । \times स्नानार्थं तर्पणं कृत्वा श्राद्धं कुर्यात्सपिण्डकम् ॥ ३
मानसं हि सरो ह्यत्र तस्मादुत्तरमानसम् । सूर्यं नत्वाऽर्चयित्वाऽथ सूर्यलोकं नयेत्पितॄन् ॥ ४
नमो भगवते भर्त्रे सोमभौमज्ञरूपिणे । जीवभार्गवसौरेयराहुकेतुस्वरूपिणे ॥ ५
उत्तरान्मानसान्मौनी व्रजेद्दक्षिणमानसम् । उदीचीतीर्थमित्युक्तं तत्रौदीच्यं विमुक्तिदम् ॥
अत्र स्नातो दिवं याति स्वशरीरेण मानवः ॥ ६
मध्ये कनखलं तीर्थं त्रिषु लोकेषु विश्रुतम् । स्नातः कनकवद्भाति नरो याति पवित्रताम् ॥ ७
तस्य दक्षिणभागे च तीर्थं दक्षिणमानसम् । दक्षिणे मानसे चैव तीर्थत्रयमुदाहृतम् ॥ ८
स्नात्वा तेषु विधानेन कुर्याच्छ्राद्धं पृथक्पृथक् । दक्षिणे मानसे स्नानं करोम्यात्मविशुद्धये ॥ ९
सूर्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये । ब्रह्महत्यादिपापौघयातनाया विमुक्तये ॥ १०
दिवाकर करोमीह स्नानं दक्षिणमानसे । * सूर्यं नत्वाऽर्चयित्वा च सूर्यलोकं नयेत्पितॄन् ॥ ११
नमामि सूर्यं तृप्त्यर्थं पितॄणां तारणाय च । पुत्रपौत्रधनैश्वर्याद्याऽऽयुरारोग्यवृद्धये + ॥ १२
फल्गुतीर्थं व्रजेत्तस्मात्सर्वतीर्थोत्तमोत्तमम् । मुक्तिर्भवति कर्तॄणां पितॄणा श्राद्धतः सदा ॥ १३
ब्रह्मणा प्रार्थितो विष्णुः फल्गुको ह्यभवत्पुरा । दक्षिणाग्नौ हुतं तत्र तद्रजः फल्गुतीर्थकम् ॥ \odot १४
तीर्थानि यानि सर्वाणि भुवनेष्वखिलेष्वपि । तानि स्नातुं समायान्ति फल्गुतीर्थं सुरैः सह ॥ १५
गङ्गा पादोदकं विष्णोः फल्गुर्ह्रादिगदाधरः । स्वयं हि द्रवरूपेण तस्माद्गङ्गाधिकं विदुः ॥ १६
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् । नासौ तत्फलमाप्नोति फल्गुतीर्थे यदाप्नुयात् ॥ १७
\div फल्गुतीर्थे नरः स्नात्वा तर्पणं श्राद्धमाचरेत् । सपिण्डकं स्वसूत्रोक्तं नमेदथ पितामहम् ॥ १८
नमः शिवाय देवाय ईशाय पुरुषाय वै । अघोरवामदेवाय सद्योजाताय शंभवे ॥ १९
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् । आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान् ॥ २०
नत्वा गदाधरं देवं मन्त्रेणानेन पूजयेत् । ओं नमो वासुदेवाय नमः संकर्षणाय च ॥
प्रद्युम्नायानिरुद्धाय श्रीधराय च विष्णवे ॥ २१
पञ्चतीर्थे नरः स्नात्वा ब्रह्मलोकं नयेत्पितॄन् । अमृतैः पञ्चभिः स्नानं पुष्पवस्त्राद्यलंकृतम् ॥
न कुर्याद्यो गदापाणेस्तस्य श्राद्धं निरर्थकम् ॥ २२
नागकूटाद्गृध्रकूटाद्यूपानुत्तरमानसात् \surd । एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ॥ २३


\times पाठः-एतदर्थस्थानेऽयं देवाद्दींस्तर्पयित्वाऽथ श्राद्धं कृत्वा सापिण्डकम् । इति ख. पुस्तके ।
* इदमर्धं न क पुस्तके । + एतदग्रेऽयं श्लोकः क. पुस्तके टिप्पण्याम्-अनेन स्नानदानादि कृत्वा श्राद्धं सपिण्डकम् । कृत्वा नत्वा च मौन्यंर्कमिमं मन्त्रमुदीरयेत् । एतदग्रे इदमर्धम्-एतत्तीर्थ-त्रये मौनी स्नानश्राद्धादिकं चरेत् । इति ख. पुस्तके । \odot इत उत्तरमयं श्लोको वर्तते क. पुस्तक-टिप्पण्याम्-तस्मिन्फलति फल्ग्वा गौः कामधेनुर्जलं मही । दृष्टेरन्तर्गतं यस्मात्फल्गुतीर्थं न निष्फलम् इति । \div फल्गुतीर्थे नरः स्नात्वा इत्यस्मात्प्राक् क. पुस्तके टिप्पण्यामधिक एकः श्लोको वर्तते स यथा,-फल्गुतीर्थे विष्णुजले करोमि स्नानमादृतः । पितॄणां विष्णुलोकाय भुक्तिमुक्तिप्रसिद्धये इति । \surd एतच्छ्लोकपरतः क पुस्तकटिप्पण्यामधिके श्लोका विद्यते स यथा,-मुण्डपृष्ठनगाधस्तात्फल्गु-तीर्थमनुत्तमम् । अत्र श्राद्धादिना सर्वे पितरो मोक्षमाप्नुयुः । इति ।

[ अ० १११ श्लो० २४-४४ ] | वायुपुराणम् | ४४७
( गयामाहात्म्यम् )

प्रथमेऽह्नि विधिः प्रोक्तो द्वितीये दिवसे व्रजेत् । धर्मारण्यं तत्र धर्मो यस्माद्यज्ञमकारयत् ॥
गमनाद्ब्रह्मलोकाप्तिर्भवत्येव हि नारद ॥ २४
मतङ्गवाप्यां यः स्नात्वा तर्पणं श्राद्धमाचरेत् । गत्वा नत्वा मतङ्गाश्रमिमं मन्त्रमुदीरयेत् ॥ २५
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः । मयाऽऽगत्य मतङ्गेऽस्मिन्पितॄणां निष्कृतिः कृता ॥
*पूर्वं हि ब्रह्मतार्थे च कूपे श्राद्धादि कारयेत् । तत्कूपयूपयोर्मध्ये सर्वांस्तारयते पितॄन् ॥
धर्मं धर्मेश्वरं नत्वा महाबोधितरुं नमेत् ॥ २६
नमस्तेऽश्वत्थराजाय ब्रह्मविष्णुशिवात्मने । बोधिद्रुमाय कर्तॄणां पितॄणां तारणाय च ॥ २७
येऽस्मत्कुले मातृवंशे बान्धवा दुर्गतिं गताः । त्वद्दर्शनात्स्पर्शनाच्च स्वर्गतिं यान्तु शाश्वतीम् ॥ २८
ऋणत्रयं मया दत्तं गयामागत्य वृक्षराट् । त्वत्प्रसादान्महापापाद्विमुक्तोऽहं भवार्णवात् ॥ २९
तृतीये ब्रह्मसरसि स्नात्वा श्राद्धं सपिण्डकम् । कृत्वा सर्वप्रमाणेन मन्त्रेण विधिवत्सुत ॥ ३०

  • स्नानं करोमि तीर्थेऽस्मिन्नृणत्रयविमुक्तये । तत्कूपयूपयोर्मध्ये ब्रह्मलोकं नयेत्पितॄन् ॥ ३१
    यागं कृत्वोत्थितो यूपो ब्रह्मणो यूप इत्यसौ । कृत्वा ब्रह्मसरःश्राद्धं सर्वांस्तारयते पितॄन् ॥ ३२
    यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् । ब्रह्माणं च नमस्कृत्य ब्रह्मलोकं नयेत्पितॄन् ॥ ३३
    नमोऽस्तु ब्रह्मणेऽजाय जगज्जन्मादिरूपिणे । भक्तानां च पितॄणां च तारकाय नमो नमः ॥ ३४
    गोप्रचारसमीपस्था आम्रा ब्रह्मप्रकल्पिताः । तेषां सेचनमात्रेण पितरो मोक्षगामिनः (णा) ॥ ३५
    आम्रं ब्रह्मसरोद्भूतं ब्रह्मदेवमयं तरुम् । विष्णुरूपं प्रसिञ्चामि पितॄणां मुक्तिहेतवे ॥ ३६
    एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलं ददानः ॥
    आम्रश्च सिक्तः पितरश्च तृप्ता एका क्रिया व्यर्थकरी प्रसिद्धा + ॥ ३७
    ततो यमबलिं दद्यान्मन्त्रेणानेन संयतः । यमराजधर्मराजौ निश्चलार्थं व्यवस्थितौ ॥
    ताभ्यां बलिं प्रयच्छामि पितॄणां मुक्तिहेतवे ॥ ३८
    ततः श्वानबलिं दद्यान्मन्त्रेणानेन नारद । द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ ॥
    ताभ्यां बलिं प्रयच्छामि रक्षतां पथि सर्वदा ॥ ३९
    ततः काकबलिं दद्यान्मन्त्रेणानेन नारद । ऐन्द्रवारुणवायव्यायाम्य या नैर्ऋतास्तथा ॥
    वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं समर्पितम् ॥ ४०
    फल्गुतीर्थे चतुर्थेऽह्नि स्नानादिकमथाऽऽचरेत् । गयाशिरस्यथ श्राद्धं पादे कुर्यात्सपिण्डकम् ॥ ४१
    साक्षाद्गयाशिरस्तत्र फल्गुतीर्थाश्रितं कृतम् ॥
    नागाज्जनार्दनाद्ब्रह्मयूपाच्चोत्तरमानसात् । एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ॥ ४२
    पितामहं समासाद्य यावदुत्तरमानसम् । फल्गुतीर्थं तु विज्ञेयं देवानामपि दुर्लभम् ॥ ४३
    क्रौञ्चपादात्फल्गुतीर्थं यावत्साक्षाद्गयाशिरः । मुखं गयासुरस्यैतत्तस्माच्छ्राद्धमिहाक्षयम् ॥ ४४

*इदमर्धं न विद्यते ख. पुस्तके । + नास्त्यर्थमिदं ख. पुस्तके । × इत उत्तरमेतदर्धं विद्यते ख. पुस्तके तद्यथा-यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ॥