वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
( गयामाहात्म्यम )
४३८ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० १०८ श्लो० ४७-६०]
( गयामाहात्म्यम )
तत्र विद्याधरो नाम गन्धर्वाप्सरसां गणैः । [ *समेतोऽद्यापि गीतानि दिव्यानि सह गीयते ॥ ४७
मोहनश्च सुनीथं च शैलूजो मोहनात्मकम् । पर्वतो नारदध्यानी संगीती पुष्पवन्तकः ॥ ]
हाहाहूहूप्रभृतयो गीतदानं प्रचक्रिरे ॥ ४८
( + तथा चित्ररथो नाम सर्वगन्धर्वसंवृतः । गायन्ति मधुराण्येव गीतान्यद्रौ महोत्सवम् ॥ ४९
अतः स पर्वतो देवैः सेव्यतेऽद्यपि नित्यशः । धर्मराजस्तत्र देवेशो हरो भस्माङ्गरागवान् ॥ ५०
पार्वत्या सहितो रुद्रः पर्वते गीतनादिते । मोदते पूजितो ध्येयः पितॄणां परमां गतिम् ॥ ५१
गयायां परमात्मा हि गोपतिर्वा गदाधरः । हीयते वैष्णवी माया तथा रुद्राचया मुने ) ॥ ५२
शिलाया दक्षिणे हस्ते भस्मकूटा गिरिर्धृतः । धर्मराजेन तत्राऽऽस्ते अगस्त्यः सह भार्यया ॥ ५३
अगस्त्यस्य पदे स्नातः पिण्डदो ब्रह्मलोकगः । ( ÷ ब्रह्मणस्तु वरं लेभे माहात्म्यं भुवि दुर्लभम् ॥ ५४
लोपामुद्रां तथा भार्यां पितॄणां परमां गतिम् । ) तत्रागस्त्येश्वरं दृष्ट्वा मुच्यते ब्रह्महत्यया ॥ ५५
अगस्त्यं च सभार्यं च पितॄन्ब्रह्मपुरं नयेत् । दाण्डिनाऽथ तपस्तेपे सीताद्रेर्दक्षिणे गिरौ ॥ ५६
वटो वटेश्वरस्तत्र स्थितश्च प्रपितामहः । तदग्रे रुक्मिणीकुण्डं पश्चिमे कपिला नदी ॥
कपिलेशो नदीतीरे अमासोमसमागमे ॥ ५७
कपिलायां नरः स्नात्वार्कापलेशं समर्च्य च । कृते श्राद्धे पिण्डदाने पितरो मोक्षमाप्नुयुः ॥ ५८
अग्निधारा गिरिवरादागताद्यन्तकादनु । [ ÷ तत्र सारस्वतं कुण्डं सरस्वत्या प्रकल्पितम् ॥ ५९
शुकस्तत्र सुतै सार्धं स(ष)ण्डामर्कादिभिः प्रभुः । तत्र तत्र मुनीन्द्राणां पदेषु मुनिसत्तम ॥
श्राद्धपिण्डादिकृत्स्नातः पितॄंस्तारयते नरः ॥ ६०
वैकुण्ठे हेमदण्डेश्च हेमकूटो गिरिस्थितः । श्राद्धपिण्डादिकृत्तत्र पितॄन्ब्रह्मपुरं नयेत् ॥ २९
शिलादीक्षणपादे तु गृध्रकूटो गिरिर्धृतः । धर्मराजेन सुस्थैर्यकरणाय सुपावनः ॥ ३०
गृध्ररूपेण तत्राथ तपः कृत्वा महर्षयः । विमुक्त्वा गृध्रकूतोऽयं तत्र गृध्रधरः स्थिरः ॥ ३१
तत्र गृध्रेश्वरं दृष्ट्वा यान्ति शंभुपदं नराः । तत्र गृध्रवटं नत्वा प्राप्तकामो दिवं व्रजेत् ॥ ३२
तत्र गृध्रगुहायां च पिण्डदः शिवलोकभाक् । तत्र माहेश्वरी धारा पिण्डदः स्वर्नयेत्पितॄन् ॥ ३३
मूलक्षेत्रं सरस्तत्र पिण्डदो ब्रह्मलोकभाक् । ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत् ॥ ३४
आदिपालेन गिरिणा समाक्रान्तं शिलोदरम् । यत्राऽऽस्ते गजरूपेण विघ्नेशी विघ्ननाशनः ॥
नाभौ च पिण्डदो यस्तु पितॄन्ब्रह्मपुरं नयेत् ॥ ३५
नितम्बे मुण्डपृष्ठस्य देवदारुव त्वभूत् । मुण्डपृष्ठेऽरविन्दाद्रिं दृष्ट्वा पापं विनाशयेत् ॥ ३६
कौञ्चरूपेण संविष्टो मुनिस्तत्र तपोऽकरोत् । तस्य पादाङ्कितो यस्मात्क्रौञ्चपादः प्रकीर्तितः ॥ ३७
स्नातो जलाशये तत्र नयेत्स्वर्गं कुलत्रयं । शिलायां व्यक्तरूपेण व्यक्ताव्यक्तारमना स्थितः ॥
लक्ष्मीशो विबुधैः सार्धं तस्माद्देवमयी शिला ॥ इति ॥ ३८
* धनुश्चिह्नान्तर्गतग्रन्थः ख पुस्तके नास्ति । + एतच्चिह्नान्तर्गतग्रन्थः ख पुस्तके न विद्यते ।
ह्रान्तर्गतग्रन्थः ख पुस्तके नास्ति ÷ धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके न विद्यते । () धनुश्चिह्नान्तर्ग-
ग्रन्थः ख पुस्तके न विद्यते ।
[अ०१०८श्लो०६१-८५] वायुपुराणम् । ४३९
( गयामाहात्म्यन )
शियाला वामहस्तेऽपि गृध्रकूटो गिरिर्धृतः । ] गृध्ररूपेण संसिद्धास्तपस्तप्त्वा महर्षयः ॥ ६१
अतो गिरिर्गृध्रकूटस्तत्र गृध्रेश्वरः स्थितः । दृष्ट्वा गृध्रेश्वरं नत्वा यायाच्छंभोः पदं नरः ॥ ६२
तत्र गृध्रे गुहायां च पिण्डदः शिवलोकभाक् । तत्र गृध्रे वटं नत्वा प्राप्तकामो दिवं व्रजेत् ॥ ६३
ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत् । शूलक्षेत्रं च तत्राऽऽस्ते पिण्डदः स्वनयेत्पितॄन् ॥ ६४
तं दृष्ट्वा मुच्यते विघ्नैः पितॄन्ब्रह्मपुरं नयेत् ॥ ६५
नितम्बे मुण्डपृष्ठस्य देवदारुवनं त्वभूत् । मुण्डपृष्ठाराविन्दाद्री दृष्ट्वा पापं विनाशयेत् ॥
गयानाभौ सुषुम्नायां पिण्डदः स्वनयेत्पितॄन् ॥ ६६
- शिलाया वामपादे तु स्थापितः प्रेतपर्वतः । धर्मराजेन पापेभ्यो गिरिः प्रेतशिलाह्वयः ॥ ६७
पादेन दूरे निक्षिप्तः शिलायाः पादभारतः । गतः शिलायाः संसर्गात्प्रेतकूटः पवित्रताम् ॥ ६८
प्रेतकुण्डं च तत्राऽऽस्ते देवास्तत्र पदे स्थिताः । तत्र कुण्डादिकं कृत्वा प्रेतत्वान्मोचयेत्पितॄन् ॥ ६९
पृथक्स्थिताश्च बहवो विघ्नकारिण एव ते । श्राद्धाधिकारिणां नृणां तीर्थे पितृविमुक्तये ॥ ७०
प्रेता धानुष्करूपेण करग्रहणकारकाः ॥
पादाङ्कितां मुण्डपृष्ठां महादेवन्निवासिनीम् । तां दृष्ट्वा सर्वलोकश्च मुक्तः पापोपपातकैः ] ॥ ७१
गयाशिरसि पुण्ये च सर्वपापविवर्जिते । प्रेतादिवर्जितं यस्मात्ततोऽतिपावनं वरम् ॥ ७२
कीकटेषु गया पुण्या पुण्यं राजगृहं वनम् । च्यवनस्याऽऽश्रमं पुण्यं नदी पुण्या पुनःपुना ॥ ७३
वैकुण्ठो लोहदण्डश्च गृध्रकूटश्च शौनकः । अत्र श्राद्धादिना सर्वान्पितॄन्ब्रह्मपुरं नयेत् । ७४
क्रौञ्चरूपेण हि मुनिर्मुण्डपृष्ठे तपोऽकरोत् । तस्य पादाङ्कितो यस्मात्क्रौञ्चपादस्ततः स्मृतः ॥ ७५
स्नातो जलाशये तत्र नयेत्स्वर्गं स्वकं कुलम् । बलिः काकशिलायां च काकेभ्य ऋणमोक्षदः ॥ ७६
मुण्डपृष्ठस्य सानौ हि लोमशो लोमहर्षणः । द्वावेतौ परमं तप्त्वा तपस्सिद्धिं परां गतौ ॥ ७७
आहुतास्तु सरिच्छ्रेष्ठा लोमशेन महानदी । शरावती वेत्रवती चन्द्रभागा सरस्वती ॥ ७८
कावेरी सिन्धुरीरा च चन्दना च सारिद्वरा । वासिष्ठी सरयूगंङ्गा यमुना गण्डकीन्दिरा ॥ ७९
महावैतरणी नाम्ना निश्चेरा च दिवौकसः । सावव्यलकनन्दा (?) च उदीची कनकाह्वया ॥ ८०
कौशिकी ब्रह्मदा ज्येष्ठा सर्वस्याघविमोचिनी । कृष्णवेण्या चर्मवती द्वे नद्यौ मुक्तिदायिके ॥ ८१
आहूते सरितां श्रेष्ठे लोमहर्षेण साहसात् । तपसस्तु प्रभावेण नर्मदा मुनिपुङ्गव ॥
तासु सर्वासु यः स्नात्वा पिण्डदः स्वनयेत्पितॄन् ॥ ८२
ब्रह्मयोनिं प्रविश्याय निर्गच्छेदद्यस्तु मानवः । परं ब्रह्म स यातीह विमुक्तो योनिसंकटात् ॥ ८३
निश्चरायां पुष्करिण्यां स्नातः श्राद्धादिकं नरः । कुर्यात्क्रौञ्चपदे दिव्ये नियमाद्द्वासप्तत्रयम् * ॥
सर्वान्पितॄन्नयेत्स्वर्गं पञ्च पापिन एव च ॥ ८४
जनार्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः । आत्मनोऽप्यथवाऽन्येषां सव्येनापि तिलैर्विना ॥
जीवतां दधिसंमिश्रं सर्वे ते विष्णुलोकगाः ॥ ८५
* इतःपरमयं श्लोकोधिकः ख. पुस्तके-श्राद्धं सपिण्डकं कृत्वा पितॄन्ब्रह्मपुरं नयेत् । जनार्दना-
मेषाय समभ्यर्च्य यथाविधि ॥ इति ।