वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
एते सर्वे महाभागाः प्राज्ञाः स्वानुष्ठिताः स्थिताः । मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ॥ ३३
[अ० १० श्लो० ३२-५९]
वायुपुराणम्
३७
( मन्वन्तरवर्णनम् )
ऊर्जां ददौ वसिष्ठाय स्वाहां वै हव्यये ददौ । स्वधां चैव पितृभ्यस्तु तास्वपत्यानि वक्ष्यते (?) ॥ ३२
एते सर्वे महाभागाः प्राज्ञाः स्वानुष्ठिताः स्थिताः । मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ॥ ३३
श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ॥ ३४
पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा । क्रियायास्तु नयः प्रोक्तो दण्डः समय एव च ॥ ३५
बुद्धेर्बोध सुतश्चापि अप्रमादश्च तावुभौ । लज्जाया विनयः पुत्रो व्यवसायो वयोः सुतः ॥ ३६
क्षेमः शान्तिसुतश्चापि सुखं सिद्धेर्व्यजायत । यशः कीर्तेः सुतश्चापि इत्येते धर्मसूनवः ॥ ३७
कामस्य हर्षः पुत्रो वै देव्यां रत्यां व्यजायत । इत्येष वै सुखोदर्कः सर्गो धर्मस्य कीर्तितः ॥ ३८
जज्ञे हिंसा त्वधर्मार्द्धे निकृतिश्चानृतावुभौ । निकृत्यनृतयोर्जज्ञे भयं नरक एव च ॥ ३९
माया च वेदना चापि मिथुनद्वयमेतयोः । भयाज्जज्ञेऽथ सा माया मृत्युं भूतापहारिणम् ॥ ४०
वेदनायास्ततश्चापि दुःखं जज्ञेऽथ रौरवात् । मृत्योर्व्याधिर्जरा शोकः क्रोधोऽसूया च जज्ञिरे ॥ ४१
दुःखान्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः । नैषां भार्याऽस्ति पुत्रो वा सर्वे ह्यनिधनाः स्मृताः ॥ ४२
इत्येष तामसः सर्गो जज्ञे धर्मनियामकः । प्रजाः सृजेति व्यादिष्टो ब्रह्मणा नीलोहितः ॥ ४३
सोऽभिध्याय सतीं भार्यां निर्ममे ह्यात्मसंभवान् । नाधिकान्न च हीनांस्तान्मानसानात्मनः समान् ॥ ४४
सहस्रं हि सहस्राणामसृजत्क्वातिवाससाम् । तुल्यांश्चैवाऽऽत्मनः सर्वे रूपतेजोबलश्रुतैः ॥ ४५
पिङ्गलांस्संनिषङ्गानां सकपर्दान्विलोहितान् । विवासान्हरिकेशांश्च दृष्टिघ्नांश्च कपालिनः ॥ ४६
बहुरूपान्विरूपांश्च विश्वरूपांश्च रूपिणः । रथिनो वर्मिणश्चैव चर्मिणश्च वरूथिनः ॥ ४७
सहस्रशतबाहूंश्च दिव्यान्भौमान्तरिक्षगान् । स्थूलशीर्षान्ह्रषदंष्ट्रान्विजह्वांस्त्रिलोचनान् ॥ ४८
अन्नादान्पिशितादांश्च आज्यपांन्सोमपांस्तथां । मेढ्रांश्चार्तिकायांश्च शितिकण्ठोग्रमन्यवः ॥ ४९
सोपासङ्गत्वलत्रांश्च धन्विनो ह्यपवर्मिणः । आसीनान्धावतश्चैव जृम्भिनश्चैव धिष्ठितान् । ५०
अध्यापिनोऽथ जपतो युञ्जतो ध्यायतरस्तथा । ज्वलतो वर्षतश्चैव द्योतमानानधूपितान् ॥ ५१
बुद्धान्बुद्ध्यतमांश्चैव बलिष्ठाञ्शुभदर्शनान् । नीलग्रीवान्सहस्राक्षान्सर्वाश्चाथ क्षपाचरान् ॥ ५२
अदृश्यान्सर्वभूतानां महायोगान्महौजसः । रुदतो द्रवतश्चैव एवं युक्तान्सहस्रशः ॥ ५३
अयातयामानसृजद्रूपान्सुरोत्तमान् । ब्रह्मा दृष्ट्वाऽब्रवीदेतान्मा साक्षीरीदृशीः प्रजाः ॥ ५४
स्रष्टव्या नाऽऽत्मनस्तुल्या प्रजा नैवाधिकास्त्वया । अन्याःसृज त्वं भद्रं ते (*प्रजा वै मृत्युसंयुताः
नाऽऽरप्स्यन्ते हि कर्माणि प्रजा विगतमृत्यवः । एवमुक्तोऽब्रवीदेनं नाहं मृत्युसमन्विताः ॥ ५६
प्रजाः स्रक्ष्यामि भद्रं ते ) स्थितोऽहं त्वं सृज प्रजाः । एते ये वै मया सृष्टा विरूपा नीलोहिताः
सहस्राणां सहस्रं तु आत्मनोपमानिश्चिताः । एते देवा भविष्यन्ति रुद्रा नाम महाबलाः ॥ ५८
पृथिव्यामन्तरिक्षे च रुद्रनाम्ना प्रतिश्रुताः । शतरुद्रसमाम्नाता भविष्यन्तहि यज्ञियाः ॥ ५९
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।
३८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १० श्लो० ६०-८५]
( मन्वन्तरवर्णनम् )
यज्ञभाजो भविष्यन्ति सर्वे देवयुगैः सह । मन्वन्तरेषु ये देवा भविष्यन्तीह च्छन्दजाः ॥ ६०
तैः सार्धमिज्यमानास्ते स्थास्यन्तीह(हा) युगक्षयात् । एवमुक्तस्तदा ब्रह्मा महादेवेन धीमता ॥ ६१
प्रत्युवाच तदा भीमं हृष्यमाणः प्रजापतिः । एवं भवतु भद्रं ते यथा ते व्याहृतं प्रभो ॥ ६२
ब्रह्मणा समनुज्ञाते सदा सर्वभूतिकृत् । ततः प्रभृति देवेशो न प्रासूत वै प्रजाः ॥ ६३
ऊर्ध्वरेताः स्थितः स्थाणुर्यावद्भूतसंप्लवम् । यस्माच्चोक्तं स्थितोऽस्मीति ततः स्थाणुरिति स्मृतः
ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः । स्रष्टृत्वमात्मसंबोधस्त्वधिष्ठातृत्वमेव च ॥ ६५
अथ यानि दशैतानि नित्यं तिष्ठन्ति शंकरे । सर्वान्देवानृषींश्चैव समेतानसुरैःसह ॥ ६६
अत्येति तेजसा देवो महादेवस्ततः स्मृतः । अत्येति दैवानैश्वर्याद्बलेन च महासुरान् ॥
ज्ञानेन च मुनीन्सर्वान्योमाद्भूतानि सर्वशः ॥ । ६७
ऋषय ऊचुः—
योगं तपश्च सत्यं च धर्मं चापि महामुने । माहेश्वरस्य ज्ञानस्य साधनं च प्रचक्ष्व नः ॥ ६८
येन येन च धर्मेण गतिं प्राप्स्यन्ति वै द्विजाः । तत्सर्वं श्रोतुमिच्छामि योगं माहेश्वरं प्रभो ॥ ६९
वायुरुवाच—
पञ्च धर्माः पुराणे तु रुद्रेण समुदाहृताः । माहैश्वर्यं यथा प्रोक्तं रुद्रैरक्लिष्टकर्मभिः ॥ ७०
आदित्यैर्वसुभिः साध्यैरश्विभ्यां चैव सर्वशः । मरुद्भिर्भृगुभिश्चैव ये चान्ये विबुधालयाः ॥ ७१
यमशुकपुरोगैश्च पितृकालान्तकैस्तथा । एतैश्चान्यैश्च बहुभिस्ते धर्मा पर्युपासिताः ॥ ७२
ते वै प्रक्षीणकर्माणः शारदाम्बरनिर्मलाः । उपासते मुनिगणाः संधायाऽऽत्मानमात्मनि ॥ ७३
गुरुप्रियहिते युक्ता गुरूणां वै प्रियेप्सवः । विमुच्य मानुषं जन्म विरहन्ति च देववत् ॥ ७४
महेश्वरेण ये प्रोक्ताः पञ्च धर्माः सनातनाः । तान्सर्वान्क्रमयोगेन( ण ) उच्यमानान्निबोधत ॥ ७५
प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा । स्मरणं चैव योगेऽस्मिन्पञ्च धर्माः प्रकीर्तिताः ॥ ७६
तेषां क्रमविशेषेण लक्षणं कारणं तथा । प्रवक्ष्यामि तथा तत्त्वं यथा रुद्रेण भाषितम् ॥ ७७
प्राणायामगतिश्चापि प्राणस्याऽऽयाम उच्यते । स चापि त्रिविधः प्रोक्तो मन्दो मध्योत्तमस्तथा ॥ ७८
प्राणानां च निरोधस्तु स प्राणायामसंज्ञितः । प्राणायामप्रमाणं तु मात्रा वै द्वादश स्मृताः ॥ ७९
मन्दो द्वादशमात्रस्तु उद्घाता द्वादश स्मृताः । मध्यमश्च द्विरुद्घातश्चतुर्विंशतिमात्रिकः ॥ ८०
उत्तमस्त्रिरुद्घातो मात्राः षट्त्रिंशदुच्यते । स्वेदकम्पविषादानां जननो ह्युत्तमः स्मृतः ॥ ८१
इत्येतात्त्रिविधं प्रोक्तं प्राणायामस्य लक्षणम् । प्रमाणं स समासेन लक्षणं च निबोधत ॥ ८२
सिंहो वा कुञ्जरो वापि तथाऽन्यो वा मृगो वने । गृहीतः सेव्यमानस्तु मृदुः समुपजायते ॥ ८३
( * तथा प्राणो दुराधर्षः सर्वेषामकृतात्मनाम् । योगतः सेव्यमानस्तु स एवाभ्यासतो व्रजेत् ॥ ८४
स चैव हि यथा सिंहः कुञ्जरो वापि दुर्बलः । कालान्तरवशाद्योगाद्गम्यते परिमर्दनात् ॥ ८५
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
[अ०११श्लो० १-१४] वायुपुराणम् । ३९
( पाशुपतयोगः )
परिधाय मनो मन्दं वश्यत्वं चाधिगच्छति । परिधाय मनोदेवं तथा जीवति मारुतः ॥ ८६
वश्यत्वं हि यथा वायुर्गच्छते योगमास्थितः । तदा स्वच्छन्दतः प्राण नयते यत्र चेच्छति ॥ ८७
यथा सिंहो गजो वाऽपि वश्यत्वादवतिष्ठते । अभयाय मनुष्याणां मृगेभ्यः संप्रवर्तते ॥ ८८
यथा परिचितश्चायं वायुर्वे विश्वतोमुखः । परिध्यायमानः संरुद्धः शरीरे किल्विषं दहेत् ॥ ८९
प्राणायामेन युक्तस्य विप्रस्य नियमात्मनः । सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते ॥ ९०
तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये । सर्वयज्ञफलं चैव प्राणायामश्च तत्समः ॥ ९१
अब्बिन्दुं यः कुशाग्रेण मासि मासि समश्रुते । संवत्सरशतं साग्रं प्राणायामं च तत्समम् ॥ ९२
प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् । प्रत्याहारेण विषयान्ध्यानेनानीश्वरान्गुणान् ॥ ९३
तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् । सर्वपापविशुद्धात्मा परं ब्रह्माधिगच्छति ॥ ९४
इति श्रीमहापुराणे वायुप्रोक्ते पाशुपतयोगे मन्वन्तरादिवर्णनं नाम दशमोऽध्यायः ॥ १० ॥
आदितः श्लोकानां समष्ट्यङ्काः- १००२
अथैकादशोऽध्यायः ।
पाशुपतयोगः ।
+वायुरुवाच--
एकं महान्तं दिवसमहोरात्रमथापि वा । अर्धमासं तथा मासमयनाद्द्वयुगानि च ॥ १
महायुगसहस्राणि ऋशयस्तपसि स्थिताः । उपासते महात्मानः प्राणं दिव्येन चक्षुषा ॥ २
अत ऊर्ध्वं प्रवक्ष्यामि प्राणायामप्रयोजनम् । फलं चैव विशेषेण यथाऽऽह भगवान्प्रभुः ॥ ३
प्रयोजनानि चत्वारि प्राणायामस्य विद्धि वै । शान्तिः प्रशान्तिर्दीप्तिश्च प्रसादश्च चतुष्टयम् ॥ ४
घोराकाराशिवानां तु कर्मणां फलसंभवम् । स्वयंकृतानि कालेन इहामुत्र च देहिनाम् ॥ ५
पितृमातृप्रदुष्टानां ज्ञातिसंबन्धिसंकरैः । क्षपणं हि कषायाणां पापानां शान्तिरुच्यते ॥ ६
लोभमानात्मकानां हि पापानामपि संयमः । इहामुत्र हितार्थाय प्रशान्तिस्तप उच्यते ॥ ७
सूर्येन्दुग्रहताराणां तुल्यस्तु विषयो भवेत् । ऋषीणां च प्रसिद्धानां ज्ञानविज्ञानसंपदाम् ॥ ८
अतीतानागतानां च दर्शनं सांप्रतस्य च । बुद्धस्य समतां यान्ति दीप्तिः स्मान्तप उच्यते ॥ ९
*इन्द्रियाणीन्द्रियार्थांश्च मनः पञ्च च मारुतान् । प्रसादयति येनासौ प्रसाद इति संज्ञितः ॥ १०
इत्येष धर्मः प्रथमः प्राणायामश्चतुर्विधः । (÷सांनिकृष्टफलो ज्ञेयः सद्यःकालप्रसादजः ॥ ११
अत ऊर्ध्वं प्रवक्ष्यामि प्राणायामस्य लक्षणम् । आसनं च यथा तत्त्वं युञ्जतो योगमेव च ॥ १२
ओंकारं प्रथमं कृत्वा चन्द्रसूर्यो नमस्य च । आसनं स्वस्तिकं कृत्वा पद्ममर्धासनं तथा ॥ १३
समजानुरेकजानुरुत्तानः सुस्थितोऽपि च । समो दृढासनो भूत्वा संहृत्य चरणावुभौ ॥ १४
+ख. पुस्तके सूत उवांचेति पाठः । *इदमर्धं नास्ति घ. पुस्तके । ÷धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
४० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०११श्लो०१५-४५]
( पाशुपतयोगः)
संवृतास्योऽववद्धाक्ष उरो विष्टभ्य चायतः । पार्ष्णिभ्यां वृषणौ छाद्य तथा प्रजननं यतः ॥ १५
किंचिदुन्नामितशिराः शिरो ग्रीवां तथैव च । संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १६
तमः प्रच्छाद्य रजसा रजः सत्त्वेन च्छादयेत् । ततः सत्त्वस्थितो भूत्वा योगं युञ्जन्समाहितः ॥ १७
इन्द्रियाणीन्द्रियार्थांश्च मनः पञ्च समारुतान् । निगृह्य समवायेन ) प्रत्याहारमुपक्रमेत् ॥ १८
यस्तु प्रत्याहरेत्कामान्कूर्मो ज्ञानीव सर्वतः । तथाऽऽत्मरतिरेकस्थः पश्यत्यात्मानमात्मनि ॥ १९
पूरयित्वा शरीरं तु सबाह्याभ्यन्तरं शुचिः । आकण्ठनाभियोगेन प्रत्याहारमुपक्रमेत् ॥ २०
कलामात्रस्तु विज्ञेयो निमेषोन्मेष एव च । तथा द्वादशमात्रस्तु प्राणायामो विधीयते ॥ २१
धारणाद्वादशायामो योगो वै धारणाद्वयम् । तथा वै योगयुक्तश्च ऐश्वर्यं प्रतिपद्यते ॥ २२
वीक्षते परमात्मानं दीप्यमानं स्वतेजसा । प्राणायामेन युक्तस्य विप्रस्य नियतात्मनः ॥ २३
सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते । एवं वै नियताहारः प्राणायामपरायणः ॥ २४
जित्वा जित्वा सदा भूमिमारोहेत्तु सदा मुनिः । अजिता हि महाभूमिर्दोषानाुत्पादयेद्बहून् ॥ २५
विवर्धयति संमोहं न रोहेदजितां ततः । नालेन तु यथा तोयं यन्त्रेणैव बलान्वितः ॥ २६
आपिबेत् प्रयत्नेन तथा वायुं जितश्रमः । नाभ्यां च हृदये चैवै कण्ठे उरसि चाऽऽनने ॥ २७
नासाग्रे तु तथा नेत्रे भ्रुवोर्मध्येऽथ मूर्धनि । किंचिदूर्ध्वं परास्मिंश्च धारणा परमा स्मृता ॥ २८
प्राणायामंसमारोधात्प्राणायामः स कथ्यते । मनसो धारणा चैव धारणेति प्रकीर्तिता ॥ २९
निवृत्तिर्विषयाणां तु प्रत्याहारस्तु संज्ञितः । सर्वेषां समवाये तु सिद्धिः स्याद्योगलक्षणा ॥ ३०
तयोत्पन्नस्य योगस्य ध्यानं वै सिद्धिलक्षणम् । ध्यानयुक्तः सदा पश्येदात्मानं सूर्यचन्द्रवत् ॥ ३१
सत्त्वस्यानुपपत्तौ तु दर्शनं तु न विद्यते । अदेशकालयोर्गस्य दर्शनं तु न विद्यते ॥ ३२
अग्न्यभ्यासे वने वाऽपि शुष्कपर्णचये दथा । जन्तुव्याप्ते श्मशाने वा जीर्णगोष्ठे चतुष्पथे ॥ ३३
सशब्दे सभये वाऽपि चैत्यवल्मीकसंचये । उदपाने तथा नद्यां न चाऽऽध्मातः कदाचन ॥ ३४
क्षुधाविष्टास्तथाऽप्रीता न च व्याकुलचेतसः । युञ्जीत परमं ध्यानं योगी ध्यानपरः सदा ॥ ३५
एतान्दोषान्विनिश्चित्य प्रमादाद्यो युनक्ति वै । तस्य दोषाः प्रकुप्यन्ति शरीरे विघ्नकारकाः ॥ ३६
जडत्वं बधिरत्वं च मूकत्वं चाधिगच्छति । अन्धत्वं स्मृतिलोपश्च जरा रोगस्तथैव च ॥ ३७
एते दोषाः प्रकुप्यन्ति अज्ञानाद्यो युनक्ति वै । तस्माज्ज्ञानेन शुद्धेन योगी युञ्जीतसमाहितः ॥ ३८
अप्रमत्तः सदा चैव न देषान्प्राप्नुयात्क्वचित् । तेषां चिकित्सां वक्ष्यामि दोषाणां च यथाक्रमम् । ३९
यथा गच्छन्ति ते दोषाः प्राणायामसमुत्थिताः । स्निग्धां यवागूमृत्युष्णां भुक्त्वा तत्रावधारयेत् ॥ ४०
एतेन क्रमयोगेन(ण) वातगुल्मं प्रशाम्यति । गु(उ)दावर्तप्रतीकारमिदं कुर्याच्चिकित्सितम् ॥ ४१
भुक्त्वा दधि यवागूं वा वायुरूर्ध्वं ततो व्रजेत् । वायुग्रन्थिं ततो भित्त्वा वायुदेशे प्रयोजयेत् ॥ ४२
तथाऽपि न विशेषः स्याद्धारणां मूर्ध्नि धारयेत् । युञ्जानस्य तनुं तस्य सत्त्वस्थस्यैव देहिनः ॥ ४३
गु(उ)दावर्तप्रतीवाते एतत्कुर्याच्चिकित्सितम् । सर्वगात्रप्रकंपेन(ण) समारब्धस्य योगिनः ॥ ४४
इमां चिकित्सां कुर्वीत तया संपद्यते सुखी । मनसा पर्वतं किंचिद्विष्टम्भाकृत्य धारयेत् ॥ ४५
[अ० १२ श्लो० १-५] वायुपुराणम् । ४१
( योगोपसर्गकथनम् )
उरोऽघात उरःस्थानं कण्ठदेशे च धारयेत् । त्वचोऽवघाते तां वाचि बाधिर्ये श्रोत्रयोस्तथा ॥ ४६
जिह्वास्थाने तृषार्तस्तु अग्नेः स्नेहांश्च तन्तुभिः । फलं वै चिन्तयेद्योगी ततः संपद्यते सुखी ॥ ४७
क्षये कुष्ठे सकीलासे धारयेत्सर्वसात्विकीम् । यस्मिन्यस्मिन्त्रजोदेशे तस्मिन्युक्तो विनिर्दिशेत् ॥ ४८
योगोत्पन्नस्य विप्र(घ्न)स्य इदं कुर्याच्चिकित्सितम् । वंशकीलेन मूर्धानं धारयान(ण)स्य ताडयेत्॥४९
मूर्धिन कीलं प्रतिष्ठाप्य काष्ठं काष्ठेन ताडयेत् । भयभीतस्य सा संज्ञा ततः प्रत्यागमिष्यति ॥ ५०
अथ वा लुप्तसंज्ञस्य हस्ताभ्यां तत्र धारयेत् । प्रतिलभ्य ततः संज्ञां धारणां मूर्ध्नि धारयेत् ॥ ५१
स्निग्धमल्पं च भुञ्जीत ततः संपद्यते सुखी । अमानुषेण सत्त्वेन यदा बुध्यति योगवित् ॥ ५२
दिव्यं च पृथिवीं चैव वायुमग्निं च धारयेत् । प्राणायामेन तत्सर्वं दह्यमानं वशी भवेत् ॥ ५३
अथापि प्रविशेद्देहं ततस्तं प्रतिषेधयेत् । ततः संस्तभ्य योगेन धारयान( ण )स्य मूर्धनि ॥ ५४
प्राणायामाग्निना दग्धं तत्सर्वं विलयं व्रजेत् । कृष्णसर्पपराधं तु धायरेद्धृदयोदरे ॥ ५५
महो जनस्तपः सत्यं हृदि कृत्वा तु धारयेत् । विषस्य तु फलं पीत्वा विशल्यां धारयेत्ततः ॥ ५६
सर्वतः सनगां पृथ्वीं कृत्वा मनासि धारयेत् । हृदि कृत्वा समुद्रांश्च तथा सर्वाश्च देवताः ॥ ५७
सहस्रेण घटानां च युक्तः स्नायीत योगवित् । उदके कण्ठमात्रे तु धारणां मूर्ध्नि धारयेत् ॥ ५८
प्रतिस्रोतोविषाविष्टो धारयोत्सर्वंगावित्रीकीम् । शीर्णोऽर्कपत्रपुटकैः पिबेद्वल्मीकमृत्तिकाम् ॥ ५९
चिकित्सितविधिह्यैष विश्रुतो योगनिर्मितः । व्याख्यातस्तु समासेन योगदृष्टेन हेतुना ॥ ६०
ब्रुवतो लक्षणं विद्धि विप्रस्य कथयेत्क्वचित् । अथापि कथयेन्मोहात्तद्विज्ञानं प्रलीयते ॥ ६१
तस्मात्प्रवृत्तियोगंस्य न वक्तव्या कथंचन ॥ ६२
सत्त्वं तथाऽऽरोग्यमलोल्पत्वं वर्णप्रभा सुस्वरसौम्यता च ।
गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिः प्रथमा शरीरे ॥ ६३
आत्मानं पृथिवीं चैव ज्वलन्तीं यदि पश्यति । कृत्वाऽन्यं विशते चैव विद्यासिद्धिमुपस्थिताम् ॥ ६४
इति श्रीमहापुराणे वायुप्रोक्ते पाशुपतयोगो नामैकादशोऽध्यायः ॥ ११ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१०६६
अथ द्वादशोऽध्यायः ।
योगोपसर्गकथनम् ।
सूत उवाच--
अत ऊर्ध्वं प्रवक्ष्यापि उपसर्गा यथा तथा । प्रादुर्भवन्ति ये दोषा दृष्टतत्त्वस्य देहिनः ॥ १
मानुष्यान्विविधान्कामान्कामयेत ऋतुं स्त्रियः । विद्यादानफलं चैव अपसृष्टस्तु योगवित् ॥ २
अग्निहोत्रं हविर्यज्ञमेतमतपनं तथा । मायाकर्म धनं स्वर्गमुपसृष्टस्तु काङ्क्षति ॥ ३
एषु कर्मसु युक्तस्य सोऽविद्यावशमागतः । उपसृष्टं तु जानीयाद्बुद्ध्वा चैव विसर्जयेत् ॥ ४
नित्यं ब्रह्मपरो युक्त उपसर्गात्प्रमुच्यते । जितप्रत्युपसर्गस्य जितश्वासस्य देहिनः ॥ ५
६
४२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० १२ श्लो० ६-३२]
( योगोपसर्गकथनम् )
उपसर्गाः प्रवर्तन्ते सात्त्वराजसतामसाः । प्रतिभा श्रवणे चैव देवानां चैव दर्शनम् ॥ ६
भ्रमावर्तश्च इत्येते सिद्धिलक्षणसंज्ञिताः । विद्या काव्यं तथा शिल्पं सर्ववाचाकृतानि तु ॥ ७
विद्यार्थाश्चोपतिष्ठन्ति प्रभावस्यैव लक्षणम् । शृणोति शब्दाञ्श्रोतव्यान्योजनानां शतादपि ॥ ८
सर्वज्ञश्च विधिज्ञश्च योगी चोन्मत्तवद्भवेत् । यक्षराक्षसगन्धर्वांन्वीक्षते दिव्यमानुषान् ॥ ९
वेत्ति तांश्च महायोगी उपसर्गस्य लक्षणम् । देवदानवगन्धर्वानृषींश्चापि यथा पितॄन् ॥ १०
प्रेक्षते सर्वतश्चैव उन्मत्तं तं विनिर्दिशेत् । भ्रमेण भ्राम्यते योगी चोद्यमानोऽन्तरात्मना ॥ ११
वर्तनाक्रान्तबुद्धेस्तु ज्ञानं सर्वं प्रणश्यति । (* वार्ता नाशयते चित्तं चोद्यमानोऽन्तरात्मना ॥ १२
वर्तनाक्रान्तबुद्धेस्तु सर्वं ज्ञानं पणश्यति ) । प्रावृत्य मनसा शुक्लं पटं वा कम्बलं तथा ॥ १३
ततस्तु परमं ब्रह्म क्षिप्रमेवानुचिन्तयेत् । तस्माच्चैवाऽऽत्मनो दोषांस्तूपसर्गानुपस्थितान् ॥ १४
परित्यजेत मेधावी यदीच्छेद्वित्सिद्धिमात्मनः । ऋषयो देवगन्धर्वा यक्षोरगमहासुराः ॥ १५
उपसर्गेषु संयुक्ता आवर्तन्ते पुनः पुनः । तस्माद्युक्तः सदा योगी लघ्वाहारो जितेन्द्रियः ॥ १६
तथा सुप्तः सुसूक्ष्मेषु धारणां मूर्ध्नि धारयेत् । ततस्तु योगयुक्तस्य जितनिद्रस्य योगिनः ॥ १७
उपसर्गाः पुनश्चान्ये जायन्ते प्राणसंज्ञकाः । पृथिवीं धारयेद्धर्वी ततश्चापो ह्यनन्तरम् ॥ १८
ततोऽग्निं चैव सर्वेषामाकाशं मन एव च । ततः परां पुनर्बुद्धिं धारयेद्यत्नतो यती ॥ १९
सिद्धीनां चैव लिङ्गानि दृष्ट्वा दृष्ट्वा परित्यजेत् । पृथिवीं धारयमाणस्य मही सूक्ष्मा प्रवर्तते ॥ २०
+आत्मानं मन्यते नित्यं पृथवीगन्धश्च जायते । आपो धारयमाणस्य आपःसूक्ष्मा भवन्ति हि ॥ २१
शीता रसाः प्रवर्तन्ते सूक्ष्मा ह्यमृतसंनिभाः । तेजो धारयमाणस्य तेजः सूक्ष्मं प्रवर्तते ॥ २२
(×आत्मानं मन्यते तेजस्तद्भावमनुपश्यति । = वायुं धारयमाणस्य वायुः सूक्ष्मः प्रवर्तते ॥ २३
आत्मानं मन्यते वायुं वायुवन्मण्डलं भ्रमेत् । आकाशं धारयमाणस्य व्योम सूक्ष्मं प्रवर्तते ) ॥ २४
पश्यते मण्डलं सूक्ष्मं घोषश्चास्य प्रवर्तते । () आत्मानं मन्यते नित्यं वायुः सूक्ष्मः प्रवर्तते ॥ २५
तथा मनो धारयतो मनः सूक्ष्मं प्रवर्तते । मनसा सर्वभूतानां मनस्तु विशते हि सः ॥ २६
बुद्ध्या बुद्धिं यदा युञ्जेत्तदा विज्ञाय बुध्यते । एतानि सप्त सूक्ष्माणि विदित्वा यस्तु योगवित् ॥ २७
परित्यजति मेधावी स बुद्ध्या परमं व्रजेत् । यस्मिन्यस्मिंश्च संयुक्तो भूत ऐश्वर्यलक्षणे ॥ २८
तत्रैव सङ्गं भजते तेनैव प्रविनश्यति । तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् ॥ २९
परित्यजति यो बुद्ध्या स परं प्राप्नुयाद्विजः । दृश्यते हि महात्मान ऋषयो दिव्यचक्षुषः ॥ ३०
संसक्ताः सूक्ष्मभावेषु ते दोषास्तेषु संज्ञिताः । तस्मान्न निश्चयः कार्यः सूक्ष्मेष्विह कदाचन ॥ ३१
ऐश्वर्याज्जायते रागो विरागं ब्रह्म चोच्यते । विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ॥
प्रधानं विनियोगज्ञः परं ब्रह्माधिगच्छति ॥ ३२
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + इदमर्धं नास्ति क. पुस्तके × धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । = इदमर्धं नास्ति क. पुस्तके । () इदमर्धं ख. ग. घ. ङ. पुस्तकेषु नास्ति ।
[अ० १३ श्लो० १-११]
वायुपुराणम् ।
४३
( योगैश्वर्यनिरूपणम् )
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥ ३३
नित्यं ब्रह्मधनो युक्त उपसगैः प्रमुच्यते । जितश्वासोपसर्गस्य जितरागस्य योगिनः ॥ ३४
एका वहिः शरीरेऽस्मिन्धारणा सार्वकामिकी । विशेद्यदा द्विजो युक्तो यत्र यत्रार्पयेन्मनः ॥ ३५
भूतान्याविशते वाऽपि त्रैलोक्यं चापि कम्पयेत् । एतया प्रविशेद्देहं हित्वा देहं पुनस्त्विह ॥ ३६
मनो द्वारं हि योगानामादित्यं च विनिर्दिशेत् । आदानादिक्रियाणां तु आदित्य इति चोच्यते ॥ ३७
एतेन विधिना योगी विरक्तः सूक्ष्मवर्जितः । प्रकृतिं समातिक्रम्य रुद्रलोके महीयते ॥ ३८
(*ऐश्वर्यगुणसंप्राप्तं ब्रह्मभूतं तु तं प्रभुम् । देवस्थानेषु सर्वेषु सर्वतस्तु निवर्तते) ॥ ३९
पैशाचेन पिशाचांश्च राक्षसेन च राक्षसान् । गान्धर्वेण च गन्धर्वान्कौबेरेण कुबेरजान् ॥ ४०
इन्द्रमैन्द्रेण स्थानेन सौम्यं सौम्येन चैव हि । प्रजापतिं तथा चैव प्राजापत्येन साधयेत् ॥ ४१
ब्राह्मं ब्राह्मेन(ण)चाप्येवमुपामन्त्रयते प्रभुम् । तत्र सक्तस्तु उन्मत्तस्तस्मात्सर्वं प्रवर्तते ॥ ४२
नित्यं ब्रह्मपरो युक्तः स्थानान्येतानि वै त्यजेत् । असज्जमानः स्थानेषु द्विजः सर्वगतो भवेत् ॥ ४३
इति महापुराणे वायुप्रोक्ते योगोपसर्गनिरूपणं नाम द्वादशोऽध्यायः ॥ १२ ॥
आदितः श्लोकानां समष्ट्यङ्काः—११०९
अथ त्रयोदशोऽध्यायः ।
योगैश्वर्यनिरूपणम् ।
वायुरुवाच—
अत ऊर्ध्वं प्रवक्ष्यामि ऐश्वर्यगुणविस्तरम् । येन योगविशेषेण सर्वलोकानतिक्रमेत् ॥ १
तत्राष्टगुणमैश्वर्यं योगिनां समुदाहृतम् । तत्सर्वं क्रमयोगेन(ण) उच्यमानं निबोधत ॥ २
अणिमा लघिमा चैव महिमा प्राप्तिरेव च । प्राकाम्यं चैव सर्वत्र ईशित्वं चैव सर्वतः ॥ ३
वशित्वमथ सर्वत्र यत्र कामावसायिता । तच्चापि विविधं ज्ञेयमैश्वर्यं सार्वकामिकम् ॥ ४
सावद्यं निरवद्यं च सूक्ष्मं चैव प्रवर्तते । सावद्यं नाम यत्तत्त्वं पञ्चभूतात्मकं स्मृतम् ॥ ५
निरवद्यं तथा नाम पञ्चभूतात्मकं स्मृतम् । इन्द्रियाणि पुनश्चैव अहंकारश्च वै स्मृतम् ॥ ६
तत्र सूक्ष्मप्रवृत्तस्तु पञ्चभूतात्मकं पुनः । इन्द्रियाणि मनश्चैव बुद्धयहंकारसंज्ञितः ॥ ७
तथा सर्वमयं चैव आत्मस्था ख्यातिरेव च । संयोग एवं त्रिविधः सूक्ष्मेष्वेव प्रवर्तते ॥ ८
पुनरष्टगुणस्यापि तेष्वेवाथ प्रवर्तते । तस्य रूपं प्रवक्ष्यामि यथाऽऽसह भगवान्प्रभुः ॥ ९
त्रैलोक्ये सर्वभूतेषु जीवस्यानियत: स्मृतः । अणिमा च यथायुक्तं सर्वं तत्र प्रतिष्ठितम् ॥ १०
त्रैलोक्ये सर्वभूतानां दुष्प्राप्यं समुदाहृतम् । तच्चापि भवति प्राप्यं प्रथमं योगिनां बलात् ॥ ११
*धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।