वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
ऋषिभिर्देवगन्धवैरप्सरोभिर्महोरगैः । सेवितानि महाभागैरुपस्थानगतैः सदा ॥ ९३
११४ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ३४-३५श्लो० ९२ ९६-१-१४]
(जम्बूद्वीपवर्णनम् )
महाविमानान्चेतानि दिक्ष्वष्टासु शुभानि हि । अष्टानां देवमुख्यानामिन्द्रादीनां महात्मनाम् ॥ ९२
ऋषिभिर्देवगन्धवैरप्सरोभिर्महोरगैः । सेवितानि महाभागैरुपस्थानगतैः सदा ॥ ९३
नाकपृष्ठं दिवं स्वर्गमिति यैः परिपठ्यते । वेदवेदाङ्गविद्भिर्हि शब्दैः पर्यायवाचकैः ॥ ९४
तदेतत्सर्वदेवानामधिवासे कृतात्मनाम् । देवलोको गिरौ तस्मिन्सर्वश्रुतिषु गीयते ॥ ९५
नियमैर्विविधैर्यज्ञैर्बहुभिर्नियतात्मभिः । पुण्यैरन्यैश्च विविधैर्नैकजातिशताजितैः ॥
प्राप्नोति देवलोकं तं स स्वर्ग इति चोच्यते ॥ ९६
इति श्रीमहापुराणे वायुप्रोक्ते जम्बूद्वीपवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
आदितः श्लोकानां समष्ट्यङ्काः—२७३६
अथ पञ्चत्रिंशोऽध्यायः ।
जम्बूद्वीपवर्णनम् ।
सूत उवाच—
यत्तद्वै कर्णिकामूलमिति वै संप्रकीर्तितम् । तद्योजनसहस्राणां सप्ततीनामधः स्मृतम् ॥ १
चत्वारिंशत्तथाऽष्टौ च सहस्राण्यत्र मण्डलम् । शैलराजवृतं रम्यं मेरुमूलमिति श्रुतिः ॥ २
तेषां गिरिसहस्राणामनेकेषु महोच्छ्रिताः । दिक्षु सर्वासु पर्यन्तैर्मर्यादाः पर्वताः स्मृताः ॥ ३
निकुञ्जकन्दरनदीगुहानिर्झरशोभिताः । बहुप्रासादकटकैस्तटैश्च कुसु्मोज्ज्वलैः ॥ ४
नितम्बपुष्पमालौघैः सानुभिर्धातुमण्डितैः । शिखरैर्हेमकपिलैर्नैकप्रस्रवणावृतैः ॥
शोभिता गिरयः सर्वे पृष्टे रत्नसमर्पितैः ॥ ५
विहंगशतसंघुष्टैः कुञ्जरैरुपमौरपि । सिंहशार्दूलशरभैर्नैकैश्चामरवारणैः ॥
नानावर्णाकृतिधरैः सेविता विविधैर्मृगैः ॥ ६
सप्ताधहारिकृष्णाङ्गमौकैकं दशपर्वतम् । बाह्यमाभ्यन्तरा ये तु त्रिवाहास्तु समाः स्मृतः ॥ ७
जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ । तौ दक्षिणोत्तरायामावानीलानिषधायतौ ॥ ८
कैलासो हिमवांश्चैव दक्षिणोत्तरपर्वतौ । पूर्वपश्चायतावेतावर्णावान्तव्यवस्थितौ ॥ ९
येऽसौ मेरुर्द्विजश्रेष्ठाः प्रांशुः कनकपर्वतः । विष्कम्भं तस्य वक्ष्यामि तन्मे निगदतः शृणु ॥ १०
महापादास्तु चत्वारो मेरोरथ चतुर्दिशम् । यैर्धृतत्वान्न चलति सप्तद्वीपवती मही ॥ ११
दशयोजनसाहस्र आयामस्तेषु पठ्यते । देवगन्धर्वयक्षाणां नानारत्नोपशोभिताः ॥
नैकनिर्झरवप्राढ्या रम्यकन्दरनिर्मिताः ॥ १२
नितम्बपुष्पकादम्बैः शोभिताश्चित्रसानवः । मनःशिलादरीभिश्च हरितालतलैस्तथा ॥ १३
सुवर्णमणिचित्राभिर्गुहाभिश्च समन्ततः । शुद्धहिङ्गुलकप्रख्यैः काञ्चनेर्धातुमाण्डितैः ॥ १४
[अ० ३५ श्लो० १५-४२] वायुपुराणम् । ११५
(जम्बूद्वीपवर्णनम् )
वरकाञ्चनचितैश्च प्रवालैः समलंकृताः । रुचिराः शतपर्वाणः सिद्धवासा मुदान्विताः ॥
महाविमानैः श्रीमद्भिः समन्तात्परिदीपिताः ॥ १५
पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ॥ १६
तेषां सहस्रशृङ्गेषु वज्रवैदूर्यवेदिकाः । शाखासहस्रकलिताः सुमूलाः सुप्रतिष्ठिता ॥ १७
स्निग्धैर्नीलैर्घनैः पर्णैः संच्छन्नविविधाश्रयाः । अनेकयोजनोत्सेधाः सदा पुष्पफलोपगाः ॥ १८
यक्षगन्धर्वसेवाश्च सेविताः सिद्धचारणैः । महावृक्षाः समुत्पन्नाश्चत्वारो द्वीपकेतवः ॥ १९
मन्दरस्य गिरेः शृङ्गे महावृक्षः स केतुराट् । आलम्बशाखाशिखरः कन्दरश्चैव पादपः ॥ २०
महाकुम्भप्रमाणैस्तु पुष्पैर्विकचक्रेसरैः । महागन्धैर्मनोज्ञैश्च शोभितः सर्वकालजैः ॥ २१
सहस्रमधिकं सोऽथ गन्धेनाऽऽपूरयन्दिशः । योजनानां समन्ताद्वै मन्दमारुतवीजितः ॥ २२
वरकेतुरेष प्रथितो भद्राश्वो नाम यो द्विजाः । यत्र साक्षाद्धृषीकेशः सिद्धसंघैर्महीयते ॥ २३
तस्य रुद्रकदम्बस्य तदा श्वेतहरो हरिः । प्राप्तवानमरश्रेष्ठः स तत्र सहितः पुरा ॥ २४
तेन चाऽऽलोकितं सर्वं द्वीपं द्विपदनायकाः । यस्य नाम्ना समाख्यातो भद्राश्वो नाम नामतः ॥ २५
दक्षिणस्यापि शैलस्य शिखरे देवसेविता । जम्बूः सदा पुष्पफला सदा माल्योपशोभिता ॥ २६
महामूलैर्महास्कन्धैः स्निग्धवर्णैर्विभूषिता । नवैः सदापुष्पफलैः शाखाभिश्चोपशोभिता ॥ २७
तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च । फलान्यमृतकल्पानि पतन्ति गिरिमूर्धनि ॥ २८
तस्माद्गिरिवरप्रस्थात्पुनः प्रस्यन्दवाहिनी । नदी जम्बूनादी नाम प्रवृत्ता मधुवाहिनी ॥ २९
तत्र जम्बूनदं नाम सुवर्णं ज्वलनप्रभम् । देवालंकारमतुलं जायते पापनाशनम् ॥ ३०
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । तत्पिबन्त्यमृतप्रख्यं मधु जम्बूरसस्रवम् ॥ ३१
स केतुर्दक्षिणे द्वीपे जम्बूलोकेषु विश्रुता । यस्या नाम्ना स विख्यातो जम्बूद्वीपः सनातनः ॥ ३२
विपुलस्यापि शैलस्य पश्चिमस्य महात्मनः । जातः शृङ्गेऽतिसुमहानश्वत्थश्चैव पादपः ॥ ३३
विलाम्बिवरमालाढ्यः सुवर्णमणिवेदिकः । महोच्चस्कन्धविटपो नैकसत्त्वगुणालयः ॥ ३४
कुम्भप्रमाणैः सुस्वादैः फलैः सर्वर्तुकैः शुभैः । सकेतुः केतुमालानां देवगन्धर्वसेवितः ॥ ३५
केतुमालेति च यथा तस्या नाम प्रकीर्तितम् । तन्निबोधत विप्रेन्द्रा निरुक्तं नाम कर्मतः ॥ ३६
क्षीरोदमथने वृत्ते दैत्यपक्षे पराजिते । महासमरसंमर्दवृक्षक्षोभाविमर्दिता ॥ ३७
सहस्राक्षेण विहिता माला तस्य सुतानता । तस्य स्कन्धे समासक्त्या ह्यश्वत्थस्य वनस्पतेः ॥ ३८
सा तथैव महागन्धा ह्यम्लाना सर्वकामिकी । इज्यते सुमहाभागा विविधैः सिद्धचारणैः ॥ ३९
तस्य केतोः सदा माला देवदत्ता विराजते । पवनेनेरिता दिव्यं वाति गन्धं मनोरमम् ॥ ४०
ताभ्यां नामाङ्कितो द्वीपः पश्चिमे बहुविस्तरः । केतुमाल इति ख्यातो दिवि चेह च सर्वशः ॥ ४१
स्वपार्श्वस्योत्तरे चापि शृङ्गे जातो महाद्रुमः । न्यग्रोधो विपुलस्कन्धोऽनेकयोजनमण्डलः ॥ ४२