सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

आसनयुक्तिः । ५१
सिंहान्वितानि ज्ञेयानि चरणानि युगे (५) क्रमात् ।
पद्मः शङ्खो गजो हंसः सिंहो भृङ्गो मृगो हयः ॥ ३५१ ॥
अष्टौ सिंहासनान्येति नीति-शास्त्र-विदो विदुः ।
आदित्यादि-दशाजानां भूपतीनां यथाक्रमम् ॥ ३५२ ॥
राज्ञः स्वहस्तैरष्टाभिरायाम-परिणाहयोः ।
‘राज पात्र’मिदं नाम सोपानं पुरुषोन्नतम् ॥ ३५३ ॥
तदर्द्धमानन्तन्मध्ये राजासनमुदाहृतम् ।
अर्द्धोन्नत-मिदं रम्यं प्रोक्तं कलि-महीभुजाम् ॥ ३५४ ॥
दिगष्टर्द्धार्ब्बि-(६) कोणः स्याद्ब्रह्मादीनां यथाक्रमम् ॥ ३५५॥
अथाष्टानां लक्षणानि ।
गम्भारी-काष्ठ-घटितः पद्ममालोप-चित्रितः ।
पद्मराग-विचित्राङ्गः शुद्ध-काञ्चन-संस्कृतः (७) ॥ ३५६ ॥
चरणाग्रे पञ्चकोषात् पद्मराग-विचित्रिताः ।
दिक्ष्वष्टौ पुत्तिका राज द्वादशाङ्गुलि-सम्मिताः ॥ ३५७ ॥
राजासन-चतस्रस्तु एवं द्वादश-पुत्तिकाः ।
रत्नैश्च नवभिः कार्य्यं निर्मााणञ्चान्तराऽन्तरा ॥ ३५८ ॥
रक्तावस्त्रावृतं ह्येतत् ‘पद्म-सिंहासनं’ मतम् ।
अत्रोषित्वा नरपतिः प्रतापमति-विन्दति ॥ ३५९ ॥
भद्रन्वाकाष्ठ(८)घटितः शङ्खमालोपशोभितः ।
शुद्धस्फटिक-चित्राङ्गः शुद्ध-रौप्योपशोभितः ॥ ३६० ॥


( ५ ) युगैः क्रमात् इति (ख)-(ग) पुस्तक पाठः ।
( ६ ) दिगष्टर्द्धर्ब्बि इति (ख) दिगष्टार्द्धवि-(ग) पुस्तक पाठः ।
( ७ ) सम्भृत इति (ख)-(ग) पुस्तक पाठः ।
( ८ ) भद्रश्री इति (ख) भद्रं वा (ग) पुस्तक पाठः ।

५२ युक्तिकल्पतरौ—
चरणाग्रे शङ्खनाभिः पुत्रिका-सप्त विंशतिः ।
स्थाने स्थाने विधातव्याः शुद्ध-स्फटिक-संस्कृताः ॥ ३६१ ॥
शुक्लपट्टावृतं ह्येतत् 'शङ्खसिंहासनं' मतम् ।
पनसे नोपघटितो गजमालोपशोभितः ॥ ३६२ ॥
विद्रुमैरपि वैदुर्य्यैः (६) काञ्चनेनापि शोभितः ।
चरणाग्रे गजशिरः पुच्छादेकैकपुत्रिका ॥ ३६३ ॥
माणिक्य रचिता रक्त-वस्त्रादिकं (१०) विभूषणम् ।
'गजसिंहासन'नाम साम्राज्य-फलदायकम् ॥ ३६४ ॥
शालकाष्ठेन घटितो हंसमालोपशोभितः ।
पुष्परागैः काञ्चनेन कुरुविन्दैश्च चित्रितः ॥ ३६५ ॥
चरणाग्रे हंसरूपं पुत्रिकास्त्वेकविंशतिः ।
गोमेदकोपघटिताः (११) पोतवस्त्र-विभूषणम् (१२) ॥ ३६६ ॥
'हंससिंहासनं' नाम सर्व्वानिष्ट-विनाशनम् (१३) ।
चन्दनेनोपघटितः सिंह मालोप-(१४)शोभितः ॥ ३६७ ॥
शुद्ध-हीरकरचित्वाङ्गः शुद्धकाञ्चन-निर्मितः ।
चरणानां सिंह-लेखः पुत्रिकाश्चैकविंशतिः ॥ ३६८ ॥
मुक्ताशुक्तिभिरन्यैश्च निर्मलैरेव भूषणम् ।
शुद्धशुक्लावृतं ह्येतत् 'सिंह-सिंहासनं' मतम् ॥ ३६६ ॥
( ६ ) वैदूर्य्यैः इति (ग) पुस्तक पाठः ।
( १० )—कं विभूषितम् इति (ख)-(ग) पुस्तक पाठः ।
( ११ ) घटिता, घटितो इति (ख)-(ग) पुस्तक पाठः ।
( १२ ) विभूषितम् इति (ख) विभूषणः (ग) पुस्तक पाठः ।
( १३ ) प्रणाशनम् इति (ख) पुस्तक पाठः ।
( १४ ) मानोपशोभितम् इति (ग) पुस्तक पाठः ।

आसनयुक्तिः । ५३
अतोषयित्वा नरपतिः कृत्स्नां साधयति क्षितिम् ।
भृङ्ग-मालोपसहितं शुद्धचम्पक-कल्पितत् ॥ ३७० ॥
शुद्धैर्मारकतैर्युक्तं पादाग्रे पद्मकोषिकाः ।
द्वाविंशतिः पुत्रिकास्तु नील-वस्त्रादि-भूषणम् ॥ ३७१ ॥
‘भृङ्ग-सिंहासनं’ नाम शत्रुक्षय-जयप्रदम् ।
निम्ब-काष्ठेन घटना भृङ्गमालोपशोभितम् (१५) ॥ ३७२ ॥
इन्द्रनीलैर्महानीलैः काञ्चनेनापि चित्रितम् ।
चरणाग्रे मृगशिरश्चत्वारिंशच्च पुत्रिकाः ॥ ३७३ ॥
नीलवस्त्रादि-युक्तञ्च ‘मृगसिंहासनं’ मतम् ।
लक्ष्मो-विजय-सम्पत्ति-नैरूज्य-प्रदसत्तमम् ॥ ३७४ ॥
केशरे(वे) णोपघटितं हयमालोपशोभितम् ।
समस्तवस्त्रैर्भूषा च पुत्रिकाः पञ्चसप्ततिः ॥ ३७५ ॥
चरणाग्रे हयशिरः चित्रवस्त्रादि-भूषणम् ।
‘हयसिंहासनं’ नाम लक्ष्मी-विजय-वर्धनम् ॥ ३७६ ॥
इत्येतत्कथितं सारं महासिंहासनाष्टकम् ।
यथा भोजेन लिखितं यथाञ्चान्यैश्चपण्डितैः ॥ ३७७ ॥
एतस्यातिक्रमं दम्भाद् यः कुर्यात् पृथिवो-पतिः ।
अचिरादेव कुरुते तस्य मृत्यु(१६) रितिक्रमम् ॥ ३७८ ॥
परासनस्थो यो राजा यो राजा च निरासनः ।
स परैर्हन्यते सिंहैरिव मत्त-गजाधिपः ॥ ३७९ ॥
स्वलग्न-मित्रासन-मध्य-संस्थिति-
र्नदुष्यतीति प्रवदन्ति तज्ज्ञाः ॥ ३८० ॥
इति श्रीभोजराजीये विशेषासनोद्देशः ॥
(१५) मानोपरशोभितम् इति (ग) पुस्तक पाठः ।
(१६) तस्य मृत्युम् इति (ख) पुस्तक पाठः ।

५४ युक्तिकल्पतरौ—
अथ सामान्यासनोद्देशः ।
ब्रह्म-क्षत्रिय-वैश्यानां चतुःषट् स्व स्व-कोष्ठिकाः ।
खट्टिकाः (१७) सुखसम्भूताः शुक्लरक्तासिताम्बराः ॥ ३८१ ॥
इति खट्टिकोद्देशः ।
अष्टाभिः काष्ठ-खण्डैश्च खट्टेति प्रतिचक्षते * ॥ ३८२ ॥
अथैषां लक्षणानि ।
तिष्ठेद् यदालम्ब्य खट्टा तज्ज्ञेयं चरणाद्वयम् ।
शिरस्थं व्युपधानं स्यात् (१८) अधःस्थं स्यान्निरूपकम् ॥ ३८३ ॥
आलिङ्गने उभे पार्श्वे प्राह भोज-महीपतिः ।
आलिङ्गने चतुर्हस्ते व्युपधानं निरूपके ।
तदर्द्धेन तदर्द्धेन चत्वारश्चरणा इति ॥ ३८४ ॥
सर्व्व षोड़शिका (खट्टा) यथा,—
आलिङ्गने सार्द्धवेदे व्युपधाने निरूपके ।
सार्द्धद्वये च चरणा हस्तैक-परिसम्मिताः ॥ ३८५ ॥
सर्व्वाष्टादशधा खट्टाः (१६) सर्व्व-कामफलप्रदाः ॥ ३८६ ॥
आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके ।
तदर्द्धेन तदर्द्धेन चत्वारश्चरणा इति ॥ ३८७ ॥
(१७) ताः खट्टा इति (ग) पुस्तक पाठः ।
—अत्र क्षुद्रा इयं खट्टा इति खट्टिका ।
(१८) व्युपधेयं स्यात् इति (ख) पुस्तक पाठः ।
(१९) दशधा खट्टा इति (ग) पुस्तक पाठः ।

  • “सर्व्वविंशतिका”—इत्यारभ्य “शरण्याश्चरणा” इत्यन्तः सार्द्धश्लोकः (ख) पुस्तके नास्ति ।

आसनयुक्तिः । ५५
सर्व्व-विंशतिकाः (२०) खट्टा धनधान्य-जयप्रदाः ।
आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके ।
त्रिहस्तसम्मिते पादा (१) हस्तैक-परिसम्मिताः ॥ ३८८ ॥
सर्व्वत्रिंशतिकाः खट्टा एवमप्युपजायते ।
आलिङ्गने षड् हस्ते च व्युपधाने निरूपके ॥ ३८९ ॥
त्रिहस्त-सम्मिते पादाश्चत्वारश्चरणा इति ।
चतुर्विंशतिका खट्टा सर्व्व-रोग क्षयङ्करौ ॥ ३९० ॥
आलिङ्गने चाष्ट हस्ते व्युपधाने निरूपके ।
चतुर्हस्ते सार्द्धहस्ताश्चत्वारश्चरणा इति ॥ ३९१ ॥
सर्व्वत्रिंशतिका खट्टा सर्व्वकामार्थ-दायिनी ।
एवमष्टविधाः खट्टाः समानेनोपदर्शिताः ॥ ३९२ ॥
आदित्यादि-दशाजानां नृणां सम्पत्ति-दायकाः ।
कार्य्याः शिल्पिभिरेतासु विविधाकृति-कल्पनाः ।
सर्व्व-षोड़शिका खट्टा सर्वेषामेव मुच्यते (२) ॥ ३९३ ॥
अष्टौ खण्डानि यस्याः स्युश्चतुर्हस्त-सुतानि च (३)
'श्रीसर्व्वमङ्गला' नाम खट्टेषा पृथिवी-पतेः ॥ ३९४ ॥
इयं यदा सच्छदना तदा सर्व्वजयाऽभिधा ।
यात्रासिद्धिः सर्व्व-सिद्धिर्विजया चाष्टमङ्गला ॥ ३९५ ॥
एकैकहस्त-वृद्ध्या तु (४) भवेत्तच्च मतःपरम् ।
जयोऽथ मङ्गलः श्रेयान् चित्रकान्तः परो महान् ॥ ३९६ ॥
(२०) सप्तविंशतिका इति (ख) पुस्तक पाठः ।
( १ )—श्चरणाश्चरणा इति (ख) पुस्तक पाठः ।
( २ ) एवमुद्यते इति (क) पुस्तक पाठः
( ३ ) युतानि च (शतानि च) इति (ग) पुस्तक पाठः ।
( ४ ) बुद्धास्तु इति (ख) पुस्तक पाठः ।

५६ युक्तिकल्पतरौ—
एकैक हस्त वृद्ध्या तु मञ्चानामिति लक्षणम् ॥३९७॥
यात्रासिद्धिं समारभ्य येऽमी षोडशकीर्त्तिताः ।
आदित्यादि-दशाजानामाद्यन्तैक द्वयं क्रमात् ॥ ३९८ ॥
दूर-दर्शी दीर्घ-दर्शी दुर्लङ्घ्योऽथ दुरासदः ।
यथोत्तरं दशगुणा पादैक (५) परिणाहिनः ॥ ३९९ ॥
प्रासादसंज्ञकाः कार्या राज्ञा सुखमभीप्सता ।
चत्वार एते सर्व्वेषां भूपतीनां सुखावहाः ॥ ४०० ॥
श्रीभोजमते च,—
सर्व्वं त्रिंशतिकां यावत् आरभ्योभय-षोडशीम् ।
खट्टाणामिति नामानि अष्टौ हस्त-(६) द्वयाधिको ॥ ४०१ ॥
तद्यथा,—
मङ्गला विजया पुष्टिः क्षमा तुष्टिः सुखासनम् ।
प्रचण्डा सर्व्वतोभद्रा खट्टाना मष्टकं विदुः ॥ ४०२ ॥
आसां पूर्ववद् विभागः ।
पराशरसंहितायान्तु,—
अष्टाभिः काष्ठ-खण्डैस्तु योऽयं पिण्डो(७) विभाज्यते ।
स चेत्समो भवेत् खट्टा प्रशस्ता स्याद् यतोऽन्यथा ॥ ४०३ ॥
समे सर्व्वाय-सम्पत्तिर्विषमे विपदास्पदम् ।
तस्मात् खट्वाङ्ग-(८)पिण्डो यः समःकार्य्यः स सूरिभिः ॥ ४०४ ॥
( ५ ) पदैक इति (ख) पुस्तक पाठः ।
( ६ ) ह्रस्वा

आसनयुक्तिः । ५७
इदन्तु सामान्यं सर्वसम्मतञ्च
काष्ठ-नियमस्तु पूर्ववदेव ॥ ४०५ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ खट्टोद्देशः ॥
अथ पीठोद्देशः ।
धातु-पाषाण-काष्ठैश्च पीठस्त्रिविध उच्यते ।
धातवश्च शिलाश्चैव काष्ठानि विविधानि च ।
तदत्र संप्रवक्ष्यामि यथेषामुपपद्यते (९) ॥ ४०६ ॥
अथ मानम् ।
हस्तद्वयन्तु दैर्घ्येण तदर्द्धं परिणाहतः ।
तदर्द्धेनोन्नतः पीठः 'सुख' इत्यभिधीयते ॥ ४०७ ॥
हस्तद्वय-द्वयाधिक्यात् पञ्चपीठा भवन्ति हि ।
सुखो (१०) जयः शुभः सिद्धिः सम्पच्चेति यथाक्रमम् ॥ ४०८ ॥
धनभोग-सुखैश्वर्य्य-वाञ्छितार्थ-प्रदायकः ।
सम-दीर्घ-सुखावाप्तिर्विषमे विषमापदः ॥ ४०९ ॥
आयाम-परिणाहाभ्यां हस्त-द्वयमितो हि यः ।
'राजपीठ' इति ज्ञेयः सकलार्थ-प्रसाधकः ।
अत्राभिषेक-मिच्छन्ति क्षितिपस्य पुराविदः ॥ ४१० ॥
दैर्घ्योन्नति-परिणाहैः षड्हस्तमितो हि यः ।
राज्ञां चित्त-प्रसादार्थं केलि-पीठाभिधानकम् ॥ ४११ ॥
(९) उपयुज्यते (उपगद्यते) इति (ख)-(ग) पुस्तक पाठः ।
(१०) सुखा इति (ख)-(ग) पुस्तक पाठः ।
८

(ञ्च): it has a horizontal-ish loop ञ् connected to च below/beside it.
Now look at line 4:
First word: काञ्चनो!
Wait, look at the third character: न with ो?
Wait, let's look at काञ्चनो:
क + ा = का
Then ञ्च? Wait, in line 4: क ा ञ्च न ो -> wait, does it have न?
Let's look at the letters:
Letter 1: क with ा -> का
Letter 2: न
Letter 3: क with ो? No, क?
Wait, could it be काञ्चनराजपीठः?
Let's zoom in on line 4:
का followed by न? No, it has न्क?
Wait, look at: क, ा, न, क, ो, र, ा, ज, space, प, ी, ठ, ः.
Wait, why would it be कानकोराज पीठः?
Let's search Yuktikalpataru:
In Yuktikalpataru, the shloka is:
"काञ्चनो

आसनयुक्तिः । ५८
अभिषेके च यात्रायां उत्सवे जय-कर्म्मणि ।
अयस्कान्तोपघटितः * संग्रामे पीठ इष्यते ॥ ४२१ ॥
गरुड़ोद्गार-(१४) रचिते वर्षासु नृपतिर्वसेत् ।
शुद्धरत्न-मयं पीठं भजते घन-गर्जिते ॥ ४२२ ॥
सामान्य-प्रास्तरः पीठो विलासाय (१५) महीभुजाम् ।
एषां मानं गुणांश्चापि विज्ञेया धातुपीठवत् ॥ ४२३ ॥
अथ काष्ठपीठाः ।
तद्यथा, मानन्तु पूर्व्ववदेव ।
सम्पत्ति-सुखवृद्ध्यर्थं गाम्भारि-जनितो जयः ।
जारको रोगनाशाय सुख-शत्रु-विनाशनः ॥ ४२४ ॥
‘सिद्धिः’ सर्व्वार्थ-संसिद्ध्यै विजयाय च वैरिणाम् ।
‘शुभः’ स्यादभिषेके च सम्पद्देरि-निवारणः ॥ ४२५ ॥
पालाशो राजकः पीठः सुख-सम्पत्ति-कारकः ।
‘जयः’ स्यादभिषेके च शुभः शत्रु-विनाशनः ॥ ४२६ ॥
सुखो रोग-विनाशाय सिद्धिः सर्व्वार्थदायिका ।
सम्पदूच्चाटन-विधौ विज्ञेयः पीठ-लक्षणम् ॥ ४२७ ॥
चान्दनस्तु सुखः पीठोऽभिषेके महीभुजाम् ।
जयः स्याद्रोग-नाशाय शुभः सौख्यं प्रयच्छति ॥ ४२८ ॥
(१४) गरुड़ोद्गार इति (ख) पुस्तकपाठः ।
(१५) विश्रालाय इति (ख) पुस्तक पाठः ।

  • अयस्कान्तश्चुम्बकः, कान्तलौह इति केचित् ।

६० युक्तिकल्पतरौ—
तारको गृह्तुष्ट्यर्थं अन्ये तु (१६) रति-दुस्करा ? ।
यत्नतो निर्मितास्ते तु साम्राज्य-फलदायकाः ॥ ४२८ ॥
कालेयको जारकोऽपि भूभुजामभिषेचने ।
पोठा नगरका- १७) दीना मन्ये चन्दन-वद्विदुः ॥ ४३० ॥
वाकुलस्तु शुभः पोठो भूभुजामभिषेचने ।
जयो रोग-विनाशाय सुख-सम्पत्ति-कारकः ॥ ४३१ ॥
सिद्धिः सिद्धि-प्रदा सम्पत् संग्रामे विजय-प्रदः ।
जावको (१८) जरणायस्यादिति भोजस्य सम्मतम् ॥ ४३२ ॥
एवं सुगन्धि-कुसुमाः ससारा ये च पादपाः ।
वाकुलेन समः कार्य्यः एवं पीठस्य निर्णयः ॥ ४३३ ॥
ये शुष्ककाष्ठा वृक्षास्तु मृदवो लघवोऽथवा ।
गाम्भारौ * सदृशः पीठस्तेषां कार्य्यस्तथा गुणः ॥ ४३४ ॥
फलिनश्च ससाराश्च रक्तसाराश्च ये नगाः ।
तेषां पानसवत् पीठस्तथैव गुणमावहेत् ॥ ४३५ ॥
—*—
अथनिषेधः ।
विज्ञेयो निन्दितः पीठः लोहोत्थः सर्वधातुजे ।
शिलोत्थः शार्करो वञ्जरः कर्करश्च विशेषतः ॥
काष्ठजेषु च पीठेषु नासारा नातिसारिणः ॥ ४३६ ॥
( १६ ) अन्यत्तरति (अन्य तु) ) (क)—(ग) पुस्तक पाठः ।
( १७ ) नागरका इति (ख) पुस्तक पाठः ।
( १८ ) जारक (जीवक) इति (क)-(ग) पुस्तक पाठः ।

  • "गाम्भारौ निर्मितं शस्तं नान्यदारुमयं शुभम्" इति तन्त्रशास्त्रे ।

आसनयुक्तिः । ६१
तथाहि,—
आम्र-जम्बु-कदम्बानां आसनं वंशनाशनम् ॥ ४३७ ॥
भोजस्त्वाह—
गुरुः पीठो गौरवाय लघुर्लाघव-कारकः ॥ ४३८ ॥
पराशरस्तु,—
नाग्रन्थिर्नातिग्रन्थिश्च नागुरु र्ना समाकृतिः ।
पीठः स्यात् सुखसम्पत्त्यै नातिदीर्घो नवामनः (१६) ॥४३६॥
ये चान्ये पीठ-सदृशा दृश्याः शिल्पिविनिर्मिताः ।
गुणान् दोषांश्च मानञ्च तेषां पीठवदादिशेत् ॥ ४४० ॥
विचार्य्य तेन विधिना यः शुद्धं पीठमाचरेत् ।
तस्य लच्छ्मीरिदं (२०) वेश्म कदाचिन्न विमुञ्चति ॥ ४४१ ॥
अज्ञानादथवा मोहाद्योऽन्यथा पीठमाचरेत् ।
एतानि तस्य नश्यन्ति लच्छ्मोरायुः कुलं बलम् ॥ ४४२ ॥
इति पीठो

६२ युक्तिकल्पतरौ—
अथ छत्र-युक्तिः * ।
विशेषश्चाथ सामान्यं छत्रस्य द्विविधा भिदा ।
राज्ञाञ्च(सू)त्रं विशेषाख्यं सामान्यं चान्यदुच्यते ॥ ४४५ ॥
तत्र विशेष छत्रोद्देशः।
सदण्डं चाथनिर्द्दण्डं तज्ज्ञेयं द्विविधं पुनः ।
सदण्डं तत्र विज्ञेयं सारणाऽऽकुञ्चनात्मकम् ॥ ४४६ ॥
दण्डः (१) कन्दं शलाकाश्च रज्जुर्वस्त्रञ्च कौलकम् ।
षड्भिरेतैः सुसन्दिष्टै(२)श्छत्र * मित्यभिधीयते ॥ ४४७ ॥
दिगष्ट-षट् चतुर्हस्त-दीर्घो दण्डो युग-क्रमात् ।
षड् वाण-वेद-नयन-वितस्त्या कन्द उच्यते ॥ ४४८ ॥
शतान्यशीतिः षड्भिश्च चत्वारिंशद् युग-क्रमात् ।
शलाकाः षट्पञ्च-वेद-त्रि-हस्तैः सम्मिताः क्रमात् ॥ ४४९ ॥
नवभिस्तन्तुभिः सूत्रं सूत्रैस्तु नवभिर्गुणः ।
गुणैस्तु नवभिः पाशो रश्मिस्तै र्नवभिर्भवेत् ॥ ४५० ॥
( १ ) कुण्ड इति (क) पुस्तक पाठः ।
( २ ) सन्दिष्टे इति (क) पुस्तक पाठः ।

  • राज्ञोऽदेयमेतत् त्रयं छत्रमुभेचामरे च ।
    “अदेयमेतत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे ।”
    “छत्रन्ते वारुणं गेहे” इति मार्कण्डेयपुराणे ।
    केचन सूरयः, छत्रदण्डचामराणामितत्त्रयं अदेयमिति भूभुजो मन्यन्ते ।
    “छत्रीवर्षातपे नित्यम्” इति स्मृतिः ।
  • अत्र दण्डकन्द-शलाका-रज्जु-वस्त्र-कौलकानां छत्रनिर्माणे सम्भूय कारित्वं
    ज्ञेयम् । तथा च प्राञ्चः प्रोचुस्त्रैविध्यमथ—
    “देवच्छत्रं राजच्छत्रं नर-छत्रन्तु भूसुराः ।
    छादनाच्छत्रमित्येतत् त्रिविधं संप्रकीर्त्तितम् ॥”

छत्रयुक्तिः । ६३
नवाष्ट-सप्त-षट्-संख्यै रश्मिभौरज्जवः क्रमात् ।
वस्त्रं शलाका-द्विगुणमायामेन प्रतिष्ठितम् ॥ ४५१ ॥
भानु-दिग्ग्रह-वसुभिरङ्गुलोभिस्तु कीलकः ।
षण्णां यन्मानमुदिततद्राज्ञा(३)मेव भूतये ॥ ४५२ ॥
पादोनं युवराजस्य अन्येषान्तु तदर्द्धतः ।
एतेन राज्ञो दण्डोऽभूद् युवराजस्य तत्पुनः ॥ ४५३ ॥
अन्येषां तदेव ।
विशुद्ध-काष्ठस्य तु दण्ड-कन्दौ,
तथा शलाका अपि शुद्धवंशजाः ॥
रज्जुश्च रक्ता वसनञ्च रक्तम् ;
छत्रं प्रसादं नृपतेर्वदन्ति ॥ ४५४ ॥
प्रसादं इति प्रसादार्हम् ।
नौलोदण्डश्च वस्त्रञ्च शिरः कुम्भस्तु (४) कानकः ।
सौवर्णं युवराजस्य प्रतापं नामविश्रुतम् ॥ ४५५ ॥
चान्दनौ दण्डकन्दौ चेत् सुशुक्ले रज्जुवाससौ ।
छत्रं मनोहरं राज्ञां स्वर्ण-कुम्भोपशोभितम् ॥ ४५६ ॥
कानकौ दण्डकन्दौ तु शलाकाऽपि कानका ।
शुक्लानि रज्जु-वासांसि स्वर्णकुम्भस्तथोपरि ।
इदं कनकदण्डाख्यं छत्रं सर्व्वार्थ-साधकम् ॥ ४५७ ॥
दण्ड-कन्द-शलाकाश्च शुद्ध-स्वर्णेन निर्मिताः ।
कीलकं स्वर्ण-घटितं अशुक्ले रज्जु-वाससौ ।
कुम्भादि रथ हंसादिचामरादिर्यथाक्रमम् ॥ ४५८ ॥
( ३ ) तद्दण्डानेव इति (ग) पुस्तक पाठः ।
( ४ ) कीलक ति (ख) पुस्तक पाठः ।

:
चामरश्चासपत्त्रानि? No, is the 5th letter स?
Let's compare:
चामरश्चासपत्त्रानि?
Look at स in हंसश्चासः (line 12):
हं स श्चा सः!
Notice श्चा!
In line 15:
चा म र श्चा स...
Wait! The letter after श्चा is स!
Look at the loop on the left and the right vertical: it is स!
Wait, is it स?
Let's look at त in अथ कुम्भादिः (line 9): त does not have a left loop with a gap; स has a loop on top-left, a diagonal down, and a horizontal stroke connecting to the right vertical!
In line 15, letter 5: it has a top bar, a loop on left, a diagonal/vertical down, a crossbar to the right vertical. That is DEFINITELY स!
Wait, so is it चामरश्चासपत्तानि?
Wait, what is letter 6? प!
What is letter 7? It has a vertical, with two horizontal tines

छत्रयुक्तिः । १५
अर्कवड्डा(द्धा)भिधो विप्रश्चटवड्ड(ष्ठ)स्तु क्षत्रियः ।
तपवड्डस्तु वैश्यः स्याद् यशोवड्डस्तु शूद्रकः ॥ ४६९ ॥
अन्यानि यानि छत्राणि विविधाकृति-मन्ति च ।
तानि चित्त-प्रमोदार्थं कार्याणि त्रितयन्विदम् ॥ ४७० ॥
नवदण्डोऽभिषेके च वारे कनक-दण्डयोः ।
मनोहरं प्रयाणेषु छत्रो (१०) भोजस्य सम्मतम् ॥ ४७१ ॥
मनोहरं स्त्रो(११)कनक-दण्डञ्च नवदण्डकम् ।
छत्रञ्च त्रिविधं ज्ञेयं त्रिविधानां मही-भुजाम् ॥ ४७२ ॥
मण्डलेशश्च राजा च चक्रवर्त्ती च यो नृपः ।
आनूपो जाङ्गलो देशः साधारण-गतिस्त्रिधा ॥
देशत्रयाधीश्वराणां छत्र-त्रयमिदं क्रमात् ॥ ४७३ ॥
दण्डनियमस्तु अन्यत्र ।
चम्पकः पनसः शालः श्रीफलश्चन्दनस्तथा ।
बकुलश्चाथ निम्बश्च वज्रवारण (१२) मित्यपि * ॥ ४७४ ॥
( १० ) 'छत्रं' इति (ख) पुस्तक पाठः ।
( ११ ) स्त्रो (न्तु) कनक इति (ख) पुस्तक पाठः ।
( १२ ) वज्रधारणम् इति (ख) पुस्तकः पाठः ।

  • अत्र वज्र वारका बहवः सन्ति-यथा, - वृक्षेषु मुण्डो, नारीकेलः, तुलसी च एतान्
    गृहोपरि आर्थ्याः प्राञ्चोरचितवन्तः । लोहे- अयस्कान्त-चुम्बकौ त्रिशूलाकारौ । एवं मन्त्रेषु-
    “मुनेः कल्याण-मित्रस्य जैमिनेश्चापि कीर्त्तनात् ।
    विद्युदग्नि-भयं नस्यात् स्थापिते च गृहोदरे ॥”
    “प्रचण्ड पवनाघाते निर्घोषेऽशनितेऽपि च ।
    वि-पठेत् जैमिनिन्तत्र प्राङ्मुखो वा ह्युदङ्मुखः ॥’’
    “जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च ।
    पुलहः क्रतु पुलस्त्यो षड़ेते वज्रवारकाः ॥”
    “रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरम् ।
    ये स्मरन्ति विरूपाक्षं न तेषां विद्युती भयम् ।”
    इति योगविज्ञानशास्त्रे ।
    ६

२. द्वितीय विभाग: नौका-युक्ति (प्राचीन भारतीय जलयान-विज्ञान, काष्ठ-भेद व पोत-निर्माण)

६६ युक्तिकल्पतरौ—
आदित्यादि-दशाशानां दण्डकाष्ठाष्टकं विदुः ।
चान्दनः छत्र-दण्डस्तु सर्वेषामेव युज्यते ॥
विशुद्ध-कोण-धारं हि तद् वज्रं वज्रधारणम् ॥ ४७५ ॥
इति सदण्ड-लक्षणम् ॥
अथ निर्द्दण्ड-लक्षणम् ।
निर्द्दण्डं दण्ड-रहितं समाकुञ्चन-वर्ज्जितम् ।
मणीनामथ वस्त्राणां निर्णयस्तु सदण्डवत् ॥ ४७६ ॥
मुख्यं जघन्यं द्विविधं तत्र मुख्यमिहायतम् ।
जघन्यं वलयाकारं तयोर्मानं यथा लघु ॥ ४७७ ॥
दैर्घ्यस्य मानं निर्दिष्टं भानु-दिग् नव(सु) मुष्टिभिः ।
वलयस्य हि निर्दिष्टं तावतीभि र्वितस्तिभिः ॥ ४७८ ॥
इति प्रोक्तो विशेषस्य विशेषो भोज-भूभुजाम् ।
इत्थं विचार्य्य यो राजा राजच्छत्रं समाचरेत् ।
सचिरं पाति वसुधां धन-सम्पत्ति-ऋद्धिमान् (१३) ॥ ४७६ ॥
अज्ञानादथवा मोहाद् योऽन्यथा छत्रमाचरेत् ।
सोऽचिरान्मृत्युमाप्नोति भयं रोगं कुल-क्षयम् ॥ ४८० ॥
विधान-शून्यं छत्रन्तु मस्तकोपरि भूपतिः ।
यो धत्ते तस्य दुर्बुद्धेर्लक्ष्मी-कुल-बल-क्षयः ॥ ४८१ ॥
इति विशेष छत्रोद्देशः ।
कुञ्चनाद्दण्डकत्रस्य (१४) छत्रं सामान्यमुच्यते ।
निर्द्दण्डञ्च सदण्डञ्च छत्रन्तु द्विविधं विदुः ॥ ४८२ ॥


(१३) वृद्धिमान् इति (ख) पुस्तक पाठः ।
(१४) दण्डच्छत्त्रन्तु इति (ग) पुस्तक पाठः ।

छत्रयुक्तिः । ६७
आयाम-परिणाहाभ्यां नवमुष्टि-मितं हि तत् ।
इदं हि सर्व्वतोभद्रं सर्व्वेषामुपयुज्यते ॥ ४८३ ॥
एकैक मुष्टिवृद्ध्यातु यावद्विंशतिमुष्टिकम् ।
मेषादि-लग्नजातानां नृणां छत्रमिदं क्रमात् ॥ ४८४॥
अथ सदण्डम् ।
आयाम-परिणाहेन हस्तद्वयमिदं हि यत् ।
स चतुर्हस्त-दण्डाढ्यो दण्ड-छत्रोति गद्यते ॥ ४८५ ॥
सर्व्वेषां सुखसम्पत्त्यै सर्व्वतैवोपयुज्यते (१५) ।
एकैक वृद्धया मुष्टिस्तु छत्रे दण्डे वितस्तयः (१६) ॥ ४८६ ॥
ब्रह्म-क्षत्रिय-विट्-शूद्र जातीनां क्रमतो विदुः ॥ ४८७ ॥
क्रम नियमस्तु तथैव ।
शलाका वस्त्र-दण्डादि-वर्णः पूर्व्ववदिष्यते ॥ ४८८ ॥
भोजोऽपि—
लघुता दीर्घता चैव दण्ड-सूत्रो-गुणग्रहः ।
इत्थं विचार्य्य यः कुर्य्यात् मानवश्छत्रमात्मनः ॥ ४८६ ॥
स लक्ष्मीं विजयं कीर्त्तिं प्रतापश्चाभिविन्दति ॥ ४६० ।
यो मोहादथवा दम्भात् कुरुते छत्रमन्यथा ।
स विषीदति भोजस्य वाक्यमेतत् असंशयम् (१७) ॥४६१॥
इति भोजराजीये युक्तिकल्पतरौ छत्रयुक्तिः ।
( १५ ) उपजायते इति (ख) पुस्तक पाठः ।
( १६ ) वितस्तयः इति (ग) पुस्तक पाठः ।
( १७ ) असंशयः इति (ख) पुस्तक पाठः ।

१८ युक्तिकल्पतरौ—
तत्रध्वज-युक्तिः ।
सेना-चिह्नं क्षितीशानां दण्डोध्वज इति स्मृतः ।
सपताको निष्पताकः स ज्ञेयो द्विविधो बुधैः ॥ ४६२ ॥
स पातक-ध्व[ज]स्याग्रे यथा हस्तं परिन्यसेत् ।
जय-हस्तो ध्वजो नाम नैनं सामान्यमर्हति ॥ ४६३ ॥
वंशोऽथवा कुलः शालः पालाशश्चम्पकस्तथा ।
नैपो नेषो(१)थवा दण्डस्तथा वैराज-वारणः ॥ ४६४ ॥
अज्ञानादिक-(२) संज्ञानां वर्ण-रूपः प्रकाशितः ।
सर्वेषां चैव वंशस्तु दण्डः सम्पत्ति-कारकः ॥ ४६५ ॥
अकचटतप यशाः ।
पताका सार्द्ध-दैर्घ्येण दण्डस्तु पृथिवी-भुजाम् ।
प्रता पाय पताकास्तु अष्टावेव प्रकाशिताः ॥ ४६६ ॥
पञ्चहस्तायता(यथा) हस्त-परिणाहा जयाभिधाः ।
जया च विजया भीमा चपला वैजयन्तिका ॥ ४६७ ॥
दीर्घा विलासा लोला च ज्ञेया हस्तैक वृद्धितः ।
परिणाहे पादवृद्धि रथ वर्गस्य निर्णयः ॥ ४६८ ॥
रक्तः श्वेतोऽरुणः पीतो चित्रो नीलोऽथ कर्बुरः ।
कृष्णश्चेति पताकानां वर्णः रूपः प्रकाशितः ।
अवर्णा(ज्ञा)दिकसंज्ञानां अष्टाना्राष्टक-चयम् ॥ ४६९ ॥
कलसो दर्पणश्चन्द्रः पद्मकोषो यथाक्रमम् ।
ब्रह्म-क्षत्रिय-विट्शूद्र-जातीनां संप्रकाशितः ॥ ५०० ॥
( १ ) नैषा निम्बो इति (ख) पुस्तक पाठः ।
( २ ) अवर्णादिक इति (ख) पुस्तक पाठः ।

ध्वजयुक्तिः । ६८
गजादि-युक्ता सा प्रोक्ता जयन्ती सर्व्वमङ्गला ।
गजः सिंहो हयो द्विपो चतुर्णां पृथिवी-भुजाम् ॥ १ ॥
हंसादि-युक्ता विज्ञेया राज्ञा सैवाष्टमङ्गला ।
हंसः केकी शुकः चासो ब्रह्मादीनां यथाक्रमम् ॥ २ ॥
चामरादि-समायुक्ता सा ज्ञेया सर्व्ववुद्धिदा ।
चामरश्वास-पञ्चानि चित्रवस्त्रं तथा सितम् ॥ ३ ॥
चतुर्णां वेदनयन-पञ्चास्व (३) गणिताः क्रमात् ।
तदग्रे यदि विन्यस्तं पताका-द्वितयं भवेत् ॥ ४ ॥
द्वयं (४) हि सर्व्वतोभद्रा पताका चक्रवर्त्तिनः ।
तद्वर्णः पूर्व्ववज् ज्ञेयः प्रमाणं विधि-बोधितम् ॥ ५ ॥
कानकं राजतं ताम्रं नाना धातुमयं क्रमात् ।
कुम्भादिकं प्रशंसन्ति पताकाग्रे मही-भुजाम् ॥ ६ ॥
अत्रापि रत्न-विन्यासो विधेयो रजत-क्रमः ।
चतुर्भिर्मकराद्याद्यैर्मुक्ता चेत् सर्व्व-सिद्धिदा ॥ ७ ॥
तदाश्रेयस्करी नाम सा पताका विजायते ।
मकरोऽथ गजः सिंहः व्याघ्रो वाजी मृगः शुकः ॥ ८ ॥
शुचि (५) ष्वेति समुद्दिष्टमादित्यादि-दशाभुवाम् ।
इति प्रोक्तः पताकानां निर्णयः पृथिवी-भुजाम् ॥ ६ ॥
अन्येषामतिसंक्षेपात् पताका-लक्षणं शृणु ।
गभस्तिरथहस्तश्च तथा हस्तद्वयं क्रमात् ॥ १० ॥
यथोत्तरं द्विगुणितं पत्तौ दशगुणैः क्रमात् ।
एवं सहस्राधिपतेः पताका तौर्य्यहस्तिकी ॥ ११ ॥
( ३ ) पञ्चन्व इति (ख) पुस्तक पाठः ।
( ४ ) द्वदं (द्वमं) इति (ख) पुस्तक पाठः ।
( ५ ) सूची इति (ग) पुस्तक पाठः

७० युक्तिकल्पतरौ—
पताका सार्द्ध-दैर्घ्येण दण्डमानं प्रकीर्त्तितम् ।
वर्णादिकन्तु यत्किञ्चित् तत् सर्व्वं पूर्व्ववन्मतम् ॥ १२ ॥
दैर्घता लघुता चेति सपताक-ध्वजे गुणाः ।
अङ्कुशादिकमन्यच्च ध्वजाग्रे युक्तितोन्यसेत् ॥ १३ ॥
संक्षेपेनेति निर्दिष्टं पताका-विधि-लक्षणम् ।
एवं विमृश्य(ष्य) मतिमान् यः पताकां समाचरेत् ॥ १४ ॥
स प्राप्नोति श्रियं कीर्त्तिं कुलवीर्य्य-बलोन्नतिम् ।
पताकां पृथिवी-पालो योऽज्ञानादन्यथा चरेत् ।
स विषीदति संग्रामे मन्ददन्त (६) इव द्विपाः ॥ १५ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ सपताक-ध्वजयुक्तिः ॥
अथ निष्पताक-ध्वजः ।
पूर्व्ववद्दण्ड-नियमस्तव दैर्घ्ये विशेषणम् ।
दण्डपत्राणि पद्मञ्च कुम्भश्च विहगोमणिः ॥ १६ ॥
निष्पताको ध्वजो राज्ञां षड्भिरेतैः सुसज्जितैः ।
जयः कपालो विजयः चेत्रस्तत्र शिव-क्रमात् ॥ १७ ॥
राज्ञः पुरुषमानेन दण्डमानं प्रकीर्त्तितम् ।
ऊर्द्धाधः क्रमयोगेन तद्दण्डादिकमुच्यते ॥ १८ ॥
केकी चासो मत्स्यरङ्गः(ङ्गः) द्विविधानां महीभुजाम् ।
ध्वजाग्रेषु विधेयानि पत्राणि श्रियमिच्छताम् ।
पद्मं कुम्भश्च विहगो माला चैव यथाक्रमम् ॥ १६ ॥
(६) मन्द दण्डः इति (क)-(ग) पुस्तक पाठः