सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 93, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 93

आसनयुक्तिः । ५३
अतोषयित्वा नरपतिः कृत्स्नां साधयति क्षितिम् ।
भृङ्ग-मालोपसहितं शुद्धचम्पक-कल्पितत् ॥ ३७० ॥
शुद्धैर्मारकतैर्युक्तं पादाग्रे पद्मकोषिकाः ।
द्वाविंशतिः पुत्रिकास्तु नील-वस्त्रादि-भूषणम् ॥ ३७१ ॥
‘भृङ्ग-सिंहासनं’ नाम शत्रुक्षय-जयप्रदम् ।
निम्ब-काष्ठेन घटना भृङ्गमालोपशोभितम् (१५) ॥ ३७२ ॥
इन्द्रनीलैर्महानीलैः काञ्चनेनापि चित्रितम् ।
चरणाग्रे मृगशिरश्चत्वारिंशच्च पुत्रिकाः ॥ ३७३ ॥
नीलवस्त्रादि-युक्तञ्च ‘मृगसिंहासनं’ मतम् ।
लक्ष्मो-विजय-सम्पत्ति-नैरूज्य-प्रदसत्तमम् ॥ ३७४ ॥
केशरे(वे) णोपघटितं हयमालोपशोभितम् ।
समस्तवस्त्रैर्भूषा च पुत्रिकाः पञ्चसप्ततिः ॥ ३७५ ॥
चरणाग्रे हयशिरः चित्रवस्त्रादि-भूषणम् ।
‘हयसिंहासनं’ नाम लक्ष्मी-विजय-वर्धनम् ॥ ३७६ ॥
इत्येतत्कथितं सारं महासिंहासनाष्टकम् ।
यथा भोजेन लिखितं यथाञ्चान्यैश्चपण्डितैः ॥ ३७७ ॥
एतस्यातिक्रमं दम्भाद् यः कुर्यात् पृथिवो-पतिः ।
अचिरादेव कुरुते तस्य मृत्यु(१६) रितिक्रमम् ॥ ३७८ ॥
परासनस्थो यो राजा यो राजा च निरासनः ।
स परैर्हन्यते सिंहैरिव मत्त-गजाधिपः ॥ ३७९ ॥
स्वलग्न-मित्रासन-मध्य-संस्थिति-
र्नदुष्यतीति प्रवदन्ति तज्ज्ञाः ॥ ३८० ॥
इति श्रीभोजराजीये विशेषासनोद्देशः ॥
(१५) मानोपरशोभितम् इति (ग) पुस्तक पाठः ।
(१६) तस्य मृत्युम् इति (ख) पुस्तक पाठः ।