सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 96, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 96

५६ युक्तिकल्पतरौ—
एकैक हस्त वृद्ध्या तु मञ्चानामिति लक्षणम् ॥३९७॥
यात्रासिद्धिं समारभ्य येऽमी षोडशकीर्त्तिताः ।
आदित्यादि-दशाजानामाद्यन्तैक द्वयं क्रमात् ॥ ३९८ ॥
दूर-दर्शी दीर्घ-दर्शी दुर्लङ्घ्योऽथ दुरासदः ।
यथोत्तरं दशगुणा पादैक (५) परिणाहिनः ॥ ३९९ ॥
प्रासादसंज्ञकाः कार्या राज्ञा सुखमभीप्सता ।
चत्वार एते सर्व्वेषां भूपतीनां सुखावहाः ॥ ४०० ॥
श्रीभोजमते च,—
सर्व्वं त्रिंशतिकां यावत् आरभ्योभय-षोडशीम् ।
खट्टाणामिति नामानि अष्टौ हस्त-(६) द्वयाधिको ॥ ४०१ ॥
तद्यथा,—
मङ्गला विजया पुष्टिः क्षमा तुष्टिः सुखासनम् ।
प्रचण्डा सर्व्वतोभद्रा खट्टाना मष्टकं विदुः ॥ ४०२ ॥
आसां पूर्ववद् विभागः ।
पराशरसंहितायान्तु,—
अष्टाभिः काष्ठ-खण्डैस्तु योऽयं पिण्डो(७) विभाज्यते ।
स चेत्समो भवेत् खट्टा प्रशस्ता स्याद् यतोऽन्यथा ॥ ४०३ ॥
समे सर्व्वाय-सम्पत्तिर्विषमे विपदास्पदम् ।
तस्मात् खट्वाङ्ग-(८)पिण्डो यः समःकार्य्यः स सूरिभिः ॥ ४०४ ॥
( ५ ) पदैक इति (ख) पुस्तक पाठः ।
( ६ ) ह्रस्वा