सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 100, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 100

६० युक्तिकल्पतरौ—
तारको गृह्तुष्ट्यर्थं अन्ये तु (१६) रति-दुस्करा ? ।
यत्नतो निर्मितास्ते तु साम्राज्य-फलदायकाः ॥ ४२८ ॥
कालेयको जारकोऽपि भूभुजामभिषेचने ।
पोठा नगरका- १७) दीना मन्ये चन्दन-वद्विदुः ॥ ४३० ॥
वाकुलस्तु शुभः पोठो भूभुजामभिषेचने ।
जयो रोग-विनाशाय सुख-सम्पत्ति-कारकः ॥ ४३१ ॥
सिद्धिः सिद्धि-प्रदा सम्पत् संग्रामे विजय-प्रदः ।
जावको (१८) जरणायस्यादिति भोजस्य सम्मतम् ॥ ४३२ ॥
एवं सुगन्धि-कुसुमाः ससारा ये च पादपाः ।
वाकुलेन समः कार्य्यः एवं पीठस्य निर्णयः ॥ ४३३ ॥
ये शुष्ककाष्ठा वृक्षास्तु मृदवो लघवोऽथवा ।
गाम्भारौ * सदृशः पीठस्तेषां कार्य्यस्तथा गुणः ॥ ४३४ ॥
फलिनश्च ससाराश्च रक्तसाराश्च ये नगाः ।
तेषां पानसवत् पीठस्तथैव गुणमावहेत् ॥ ४३५ ॥
—*—
अथनिषेधः ।
विज्ञेयो निन्दितः पीठः लोहोत्थः सर्वधातुजे ।
शिलोत्थः शार्करो वञ्जरः कर्करश्च विशेषतः ॥
काष्ठजेषु च पीठेषु नासारा नातिसारिणः ॥ ४३६ ॥
( १६ ) अन्यत्तरति (अन्य तु) ) (क)—(ग) पुस्तक पाठः ।
( १७ ) नागरका इति (ख) पुस्तक पाठः ।
( १८ ) जारक (जीवक) इति (क)-(ग) पुस्तक पाठः ।

  • "गाम्भारौ निर्मितं शस्तं नान्यदारुमयं शुभम्" इति तन्त्रशास्त्रे ।