युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 105, कुल 278 में से
संदर्भ में पढ़ेंछत्रयुक्तिः । १५
अर्कवड्डा(द्धा)भिधो विप्रश्चटवड्ड(ष्ठ)स्तु क्षत्रियः ।
तपवड्डस्तु वैश्यः स्याद् यशोवड्डस्तु शूद्रकः ॥ ४६९ ॥
अन्यानि यानि छत्राणि विविधाकृति-मन्ति च ।
तानि चित्त-प्रमोदार्थं कार्याणि त्रितयन्विदम् ॥ ४७० ॥
नवदण्डोऽभिषेके च वारे कनक-दण्डयोः ।
मनोहरं प्रयाणेषु छत्रो (१०) भोजस्य सम्मतम् ॥ ४७१ ॥
मनोहरं स्त्रो(११)कनक-दण्डञ्च नवदण्डकम् ।
छत्रञ्च त्रिविधं ज्ञेयं त्रिविधानां मही-भुजाम् ॥ ४७२ ॥
मण्डलेशश्च राजा च चक्रवर्त्ती च यो नृपः ।
आनूपो जाङ्गलो देशः साधारण-गतिस्त्रिधा ॥
देशत्रयाधीश्वराणां छत्र-त्रयमिदं क्रमात् ॥ ४७३ ॥
दण्डनियमस्तु अन्यत्र ।
चम्पकः पनसः शालः श्रीफलश्चन्दनस्तथा ।
बकुलश्चाथ निम्बश्च वज्रवारण (१२) मित्यपि * ॥ ४७४ ॥
( १० ) 'छत्रं' इति (ख) पुस्तक पाठः ।
( ११ ) स्त्रो (न्तु) कनक इति (ख) पुस्तक पाठः ।
( १२ ) वज्रधारणम् इति (ख) पुस्तकः पाठः ।
- अत्र वज्र वारका बहवः सन्ति-यथा, - वृक्षेषु मुण्डो, नारीकेलः, तुलसी च एतान्
गृहोपरि आर्थ्याः प्राञ्चोरचितवन्तः । लोहे- अयस्कान्त-चुम्बकौ त्रिशूलाकारौ । एवं मन्त्रेषु-
“मुनेः कल्याण-मित्रस्य जैमिनेश्चापि कीर्त्तनात् ।
विद्युदग्नि-भयं नस्यात् स्थापिते च गृहोदरे ॥”
“प्रचण्ड पवनाघाते निर्घोषेऽशनितेऽपि च ।
वि-पठेत् जैमिनिन्तत्र प्राङ्मुखो वा ह्युदङ्मुखः ॥’’
“जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च ।
पुलहः क्रतु पुलस्त्यो षड़ेते वज्रवारकाः ॥”
“रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरम् ।
ये स्मरन्ति विरूपाक्षं न तेषां विद्युती भयम् ।”
इति योगविज्ञानशास्त्रे ।
६