युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 106, कुल 278 में से
संदर्भ में पढ़ें६६ युक्तिकल्पतरौ—
आदित्यादि-दशाशानां दण्डकाष्ठाष्टकं विदुः ।
चान्दनः छत्र-दण्डस्तु सर्वेषामेव युज्यते ॥
विशुद्ध-कोण-धारं हि तद् वज्रं वज्रधारणम् ॥ ४७५ ॥
इति सदण्ड-लक्षणम् ॥
अथ निर्द्दण्ड-लक्षणम् ।
निर्द्दण्डं दण्ड-रहितं समाकुञ्चन-वर्ज्जितम् ।
मणीनामथ वस्त्राणां निर्णयस्तु सदण्डवत् ॥ ४७६ ॥
मुख्यं जघन्यं द्विविधं तत्र मुख्यमिहायतम् ।
जघन्यं वलयाकारं तयोर्मानं यथा लघु ॥ ४७७ ॥
दैर्घ्यस्य मानं निर्दिष्टं भानु-दिग् नव(सु) मुष्टिभिः ।
वलयस्य हि निर्दिष्टं तावतीभि र्वितस्तिभिः ॥ ४७८ ॥
इति प्रोक्तो विशेषस्य विशेषो भोज-भूभुजाम् ।
इत्थं विचार्य्य यो राजा राजच्छत्रं समाचरेत् ।
सचिरं पाति वसुधां धन-सम्पत्ति-ऋद्धिमान् (१३) ॥ ४७६ ॥
अज्ञानादथवा मोहाद् योऽन्यथा छत्रमाचरेत् ।
सोऽचिरान्मृत्युमाप्नोति भयं रोगं कुल-क्षयम् ॥ ४८० ॥
विधान-शून्यं छत्रन्तु मस्तकोपरि भूपतिः ।
यो धत्ते तस्य दुर्बुद्धेर्लक्ष्मी-कुल-बल-क्षयः ॥ ४८१ ॥
इति विशेष छत्रोद्देशः ।
कुञ्चनाद्दण्डकत्रस्य (१४) छत्रं सामान्यमुच्यते ।
निर्द्दण्डञ्च सदण्डञ्च छत्रन्तु द्विविधं विदुः ॥ ४८२ ॥
(१३) वृद्धिमान् इति (ख) पुस्तक पाठः ।
(१४) दण्डच्छत्त्रन्तु इति (ग) पुस्तक पाठः ।