सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 92, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 92

५२ युक्तिकल्पतरौ—
चरणाग्रे शङ्खनाभिः पुत्रिका-सप्त विंशतिः ।
स्थाने स्थाने विधातव्याः शुद्ध-स्फटिक-संस्कृताः ॥ ३६१ ॥
शुक्लपट्टावृतं ह्येतत् 'शङ्खसिंहासनं' मतम् ।
पनसे नोपघटितो गजमालोपशोभितः ॥ ३६२ ॥
विद्रुमैरपि वैदुर्य्यैः (६) काञ्चनेनापि शोभितः ।
चरणाग्रे गजशिरः पुच्छादेकैकपुत्रिका ॥ ३६३ ॥
माणिक्य रचिता रक्त-वस्त्रादिकं (१०) विभूषणम् ।
'गजसिंहासन'नाम साम्राज्य-फलदायकम् ॥ ३६४ ॥
शालकाष्ठेन घटितो हंसमालोपशोभितः ।
पुष्परागैः काञ्चनेन कुरुविन्दैश्च चित्रितः ॥ ३६५ ॥
चरणाग्रे हंसरूपं पुत्रिकास्त्वेकविंशतिः ।
गोमेदकोपघटिताः (११) पोतवस्त्र-विभूषणम् (१२) ॥ ३६६ ॥
'हंससिंहासनं' नाम सर्व्वानिष्ट-विनाशनम् (१३) ।
चन्दनेनोपघटितः सिंह मालोप-(१४)शोभितः ॥ ३६७ ॥
शुद्ध-हीरकरचित्वाङ्गः शुद्धकाञ्चन-निर्मितः ।
चरणानां सिंह-लेखः पुत्रिकाश्चैकविंशतिः ॥ ३६८ ॥
मुक्ताशुक्तिभिरन्यैश्च निर्मलैरेव भूषणम् ।
शुद्धशुक्लावृतं ह्येतत् 'सिंह-सिंहासनं' मतम् ॥ ३६६ ॥
( ६ ) वैदूर्य्यैः इति (ग) पुस्तक पाठः ।
( १० )—कं विभूषितम् इति (ख)-(ग) पुस्तक पाठः ।
( ११ ) घटिता, घटितो इति (ख)-(ग) पुस्तक पाठः ।
( १२ ) विभूषितम् इति (ख) विभूषणः (ग) पुस्तक पाठः ।
( १३ ) प्रणाशनम् इति (ख) पुस्तक पाठः ।
( १४ ) मानोपशोभितम् इति (ग) पुस्तक पाठः ।