सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 99, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 99

आसनयुक्तिः । ५८
अभिषेके च यात्रायां उत्सवे जय-कर्म्मणि ।
अयस्कान्तोपघटितः * संग्रामे पीठ इष्यते ॥ ४२१ ॥
गरुड़ोद्गार-(१४) रचिते वर्षासु नृपतिर्वसेत् ।
शुद्धरत्न-मयं पीठं भजते घन-गर्जिते ॥ ४२२ ॥
सामान्य-प्रास्तरः पीठो विलासाय (१५) महीभुजाम् ।
एषां मानं गुणांश्चापि विज्ञेया धातुपीठवत् ॥ ४२३ ॥
अथ काष्ठपीठाः ।
तद्यथा, मानन्तु पूर्व्ववदेव ।
सम्पत्ति-सुखवृद्ध्यर्थं गाम्भारि-जनितो जयः ।
जारको रोगनाशाय सुख-शत्रु-विनाशनः ॥ ४२४ ॥
‘सिद्धिः’ सर्व्वार्थ-संसिद्ध्यै विजयाय च वैरिणाम् ।
‘शुभः’ स्यादभिषेके च सम्पद्देरि-निवारणः ॥ ४२५ ॥
पालाशो राजकः पीठः सुख-सम्पत्ति-कारकः ।
‘जयः’ स्यादभिषेके च शुभः शत्रु-विनाशनः ॥ ४२६ ॥
सुखो रोग-विनाशाय सिद्धिः सर्व्वार्थदायिका ।
सम्पदूच्चाटन-विधौ विज्ञेयः पीठ-लक्षणम् ॥ ४२७ ॥
चान्दनस्तु सुखः पीठोऽभिषेके महीभुजाम् ।
जयः स्याद्रोग-नाशाय शुभः सौख्यं प्रयच्छति ॥ ४२८ ॥
(१४) गरुड़ोद्गार इति (ख) पुस्तकपाठः ।
(१५) विश्रालाय इति (ख) पुस्तक पाठः ।

  • अयस्कान्तश्चुम्बकः, कान्तलौह इति केचित् ।