सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 102, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 102

६२ युक्तिकल्पतरौ—
अथ छत्र-युक्तिः * ।
विशेषश्चाथ सामान्यं छत्रस्य द्विविधा भिदा ।
राज्ञाञ्च(सू)त्रं विशेषाख्यं सामान्यं चान्यदुच्यते ॥ ४४५ ॥
तत्र विशेष छत्रोद्देशः।
सदण्डं चाथनिर्द्दण्डं तज्ज्ञेयं द्विविधं पुनः ।
सदण्डं तत्र विज्ञेयं सारणाऽऽकुञ्चनात्मकम् ॥ ४४६ ॥
दण्डः (१) कन्दं शलाकाश्च रज्जुर्वस्त्रञ्च कौलकम् ।
षड्भिरेतैः सुसन्दिष्टै(२)श्छत्र * मित्यभिधीयते ॥ ४४७ ॥
दिगष्ट-षट् चतुर्हस्त-दीर्घो दण्डो युग-क्रमात् ।
षड् वाण-वेद-नयन-वितस्त्या कन्द उच्यते ॥ ४४८ ॥
शतान्यशीतिः षड्भिश्च चत्वारिंशद् युग-क्रमात् ।
शलाकाः षट्पञ्च-वेद-त्रि-हस्तैः सम्मिताः क्रमात् ॥ ४४९ ॥
नवभिस्तन्तुभिः सूत्रं सूत्रैस्तु नवभिर्गुणः ।
गुणैस्तु नवभिः पाशो रश्मिस्तै र्नवभिर्भवेत् ॥ ४५० ॥
( १ ) कुण्ड इति (क) पुस्तक पाठः ।
( २ ) सन्दिष्टे इति (क) पुस्तक पाठः ।

  • राज्ञोऽदेयमेतत् त्रयं छत्रमुभेचामरे च ।
    “अदेयमेतत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे ।”
    “छत्रन्ते वारुणं गेहे” इति मार्कण्डेयपुराणे ।
    केचन सूरयः, छत्रदण्डचामराणामितत्त्रयं अदेयमिति भूभुजो मन्यन्ते ।
    “छत्रीवर्षातपे नित्यम्” इति स्मृतिः ।
  • अत्र दण्डकन्द-शलाका-रज्जु-वस्त्र-कौलकानां छत्रनिर्माणे सम्भूय कारित्वं
    ज्ञेयम् । तथा च प्राञ्चः प्रोचुस्त्रैविध्यमथ—
    “देवच्छत्रं राजच्छत्रं नर-छत्रन्तु भूसुराः ।
    छादनाच्छत्रमित्येतत् त्रिविधं संप्रकीर्त्तितम् ॥”