सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

॥ विष्णुस्मृतौ ४८ ॥ ४९ ॥ १०६
वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम् ।
अलक्ष्मीं कालकर्णीं च नाशयध्वं यवा मम ॥ १९ ॥
श्वशूकरावलीढं च उच्छिष्टोपहतं च यत् ।
मातापिचोरशुश्रूषां तन्पुनीध्वं यवा मम ॥ २० ॥
गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् ।
चौरस्यान्नं नवश्राद्धं पुनीध्वं च यवा मम ॥ २१ ॥
बालधूर्तंमधर्मं च राजद्वारकृतं च यत् ।
सुवर्णस्तेन्यमव्रात्यमयाज्यस्य च याजनम् ॥
ब्राह्मणानां परीवादं पुनीध्वं च यवा मम ॥ २२ ॥ ४८ ॥
मार्गशीर्षशुक्लैकादश्यामुपोषिता द्दश्यां भगवन्तं
वासुदेवमर्चयेत् । १ । पुष्पधूपानुलेपनदीपनैवेद्यैर्ब्रा-
ह्मणतर्पणैश्च । २ । व्रतमेतत्संवत्सरं कृत्वा पापेभ्यः पूतो
20. पुनीध्वं च C1,2. 21. शूद्रसूतकम्। Baudh. 22 om.
C1,2. बालवृद्धम्... अव्रात्यम् Baudh.
19. अलक्ष्मीं कालकर्णीं च सर्वं पुनीत मे यवा इत्यौशनसे ॥ 21.
श्राद्धसहितं सूतकं तथाभक्ष्यम् । सर्वं पुनीत मे यवा इत्यौशनसे ॥ 22.
धूर्तभित्यत्र भावप्रधानो निर्देशः । अव्रतसमूहो ऽव्रात्यम् । सुवर्णस्तेयं
महापातकोपलक्ष्णार्थम् ।... परीवादो निन्दा ॥ XLIX, 3. मार्ग-
शीर्षशुक्लद्वादशीमारभ्य कार्त्तिकाशुक्लद्वादशीपर्यन्तं द्वादशस्वपि शुक्लद्वादशीषु
पूर्वोक्तं व्रतं कृत्वातिपातकादिभ्यो नवविधेभ्यः पापेभ्यो मुक्तः पूतो भवति ।...

gitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgad
१९० ॥ विष्णुस्मृतौ ४६ ॥
भवति । ३ । यावज्जीवं कृत्वा श्वेतद्वीपमाप्नोति । ४ ।
उभयपक्षद्वादशीष्वेवं संवत्सरेण स्वर्गलोकं प्राप्नोति । ५ ।
यावज्जीवं कृत्वा विष्णुलोकम् । ६ । एवमेव पञ्चद-
शीष्वपि । ७ ।
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च ।
योगभूतं परिचरन्केशवं महदाप्नुयात् ॥ ८ ॥
दृश्येते सहितौ यस्यां दिवि चन्द्रबृहस्पती ।
पौर्णमासी तु महती प्रोक्ता संवत्सरे तु सा ॥ ६ ॥
तस्यां दानोपवासाद्यमक्षयं परिकीर्तितम् ।
तथैव द्वादशी शुक्ला या स्याच्छ्रवणसंयुता ॥ १० ॥ ४६ ॥
XLIX, 5 T. om. V¹⁻³. उभयपक्षद्वादशीष्वेवं संवत्सरेण V⁴
Ap.; उभयपक्षद्वादशीष

॥ विष्णुस्मृतौ ५० ॥ ११९
वने पर्णकुटीं कृत्वा वसेत् । १ । त्रिषवणं स्नायात् । २ ।
स्वकर्म चाचक्षाणो ग्रामे ग्रामे भैक्षमाचरेत् । ३ । तृण-
शायी च स्यात् । ४ । एतन्महाव्रतं । ५ । ब्राह्मणं हत्वा
द्वादशसंवत्सरं कुर्यात् । ६ । यागस्थं क्षत्रियं वैश्यं वा । ७ ।
गुर्विणीं रजस्वलां वा । ८ । अविज्ञातां वा नारीम् । ९ ।
मित्रं वा । १० । नृपतिवधे महाव्रतमेव द्विगुणं कुर्यात् ।
११ । पादोनं क्षत्रियवधे । १२ । अर्धं वैश्यवधे । १३ ।
तदर्धं शूद्रवधे । १४ । सर्वेषु शवशिरोध्वजी स्यात् । १५ ।
मासमेकं कृतवापनो गवानुगमनं कुर्यात् । १६ । आ-
सीनास्वांसीत । १७ । स्थितासु स्थितश्च स्यात् । १८ ।
सन्नां चोद्धरेत् । १९ । भयेभ्यश्च रक्षेत् । २० । तासां

L, 7. वैश्यं om. C¹,². च V⁴. 15 C¹,² add सर्वेषु जीवेषु दमी
स्यात् । 16. ०पावनो C¹,². 18. स्थितः C¹,². 19. व्यवसन्नां C¹,².

L, 1...इदानीमकामतस्तेषु प्रायश्चित्तं वक्तुं पञ्चाशत्तमेन ब्रह्महत्यायां
तावदाह ।... 2... त्रिकालग्रहणात्त्रिकालसंध्योपासनमपि गम्यते ।...
6. यः साक्षादकामतो ब्राह्मणं हन्ति सः...।... 7... इदं चाकामतः ।
कामतो द्विगुणम् ... 8... तामकामतो हत्वा... 11... इदं चाका-
मतः ।... 12. यागस्थनृपतिव्यतिरिक्तसद्गुणश्रोत्रियक्षत्रियवधे ... नव-
वार्षिकव्रतं कुर्यात् ॥ 13. यदीक्षितसद्गुणवैश्यवधे... षडब्दं व्रतं कार्यम् ॥
14. सद्गुणशूद्रवधे... त्र्यब्दं व्रतं कार्यम् । इदं चाकामतः । कामतो द्विगुणं
सर्वत्र ।... 19. अनुगम्यमानासु गोषु या सन्ना पतिता पङ्गलग्ना वा
तामुद्धरेत् ।... 20. सिंहव्याघ्रादिजनितेभ्यो भयेभ्यो रक्षेत् ।...

११२ ॥ विष्णुस्मृतौ ५० ॥
शीतादित्राणमकृत्वा नात्मनः कुर्यात् । २१ । गोमूत्रेण
स्नायात् । २२ । गोरसैश्च वर्तेत । २३ । एतद्गोव्रतं गोवधे
कुर्यात् । २४ । गजं हत्वा पञ्च नीलान्वृषभान्दद्यात् ।
२५ । तुरंगं वासः । २६ । एकहायनमनड्वाहं खरवधे ।
२७ । मेषाजवधे च । २८ । सुवर्णकृष्णलमुष्ट्रवधे । २९ ।
श्वानं हत्वा त्रिरात्रमुपवसेत् । ३० । हत्वा मूषकमार्जार-
नकुलमण्डूकडुण्डुभाजगराणामन्यतममुपोषितः कृस-
रान्नं भोजयित्वा लोहदण्डं दक्षिणां दद्यात् । ३१ ।
गोधोलूककाकझषवधे त्रिरात्रमुपवसेत् । ३२ । हंसबला-
कावकमद्गुवानरश्येनभासचक्रवाकानामन्यतमं हत्वा
ब्राह्मणाय गां दद्यात् । ३३ । सर्पं हत्वाऽभ्रीं कार्ष्णाय-
सीम् । ३४ । षण्ढं हत्वा पलालभारकम् । ३५ । वराहं
21. तासां गवां शीतोष्णवातादिभ्यस्त्राणमकृत्वात्मत्राणं न कुर्यात् ।...
22. त्रिकालं गोमूत्रेण स्नायात् । स्नानं त्रिगवयं तस्येति स्मरणात् ।...
25... कामतो हत्वा... 26... इदमकामतः ।... 27... इदं का-
मतः ।... 28... अत्रापि कामादिव्यवस्था पूर्वैव ॥ 29. कामत उष्ट्रं
हत्वा... 30... कामविषयमिदम् ।... 31. अकामतश्चेदम् ।...
32... इदं चाकामतः ।... 33. कामतश्चेदम् ।... 34. कार्ष्णायसीं
लोहमयीमभ्रीं खनित्रीं सर्पवधे दद्यात् ॥ 35. षण्ढो नपुंसकः ।... अत्र
जातिविशेषानुपदानेऽपि समभिव्याहारात्पशुपक्ष्यादिजातिरेव ज्ञेया । न
गोब्राह्मणयोस्तयोर्लिङ्गविशेषानादरेण जातिमात्रवधनिषेधात् । षण्ढ

॥ विष्णुस्मृतौ ५० ॥ ११३
हत्वा घृतकुम्भम् । ३६ । तित्तिरिं तिलद्रोणम् । ३७ ।
शुकं द्विहायनं वत्सम् । ३८ । क्रौञ्चं त्रिहायनम् । ३९ ।
क्रव्यादमृगवधे पयस्विनीं गां दद्यात् । ४० । अक्रव्याद-
मृगवधे वत्सतरीम् । ४१ । अनुक्तमृगवधे त्रिरात्रं पयसा
वर्तेत । ४२ । पक्षिवधे नक्ताशी स्यात् । ४३ । रूप्य-
माषं वा दद्यात् । ४४ । हत्वा जलचरमुपवसेत् । ४५ ।
अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे ।
पूर्णे चानस्यनस्थां तु शूद्रहत्याव्रतं चरेत् ॥ ४६ ॥
किंचिदेव तु विप्राय दद्यादस्थिमतां वधे ।
अनस्थां चैव हिंसायां प्राणायामेन शुध्यति ॥ ४७ ॥
फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ ४८ ॥
46. चास्थिमताच C¹,² (see M. XI, 141).
36... कामतश्चेदम् ।... 37... कामतश्चेदम् ।... 38... कामत-
श्चेदम् । अकामतः शङ्खलिखिताक्ता वत्सतरी देया ॥ 39. कामतः क्रौञ्चवधे
त्रिवर्षो वत्सो देयः ।... 40... इदमकामतः ।... 41... इदं चाकामतः ।...
42... कामतश्चेदम् ।... 43. येषां पक्षिणां वधे प्रायश्चित्तं नोक्तं तत्र
नक्ताशी स्यात् । तत्राशक्तावाह ॥ 45. जलचरा मत्स्यादयः । अकामतः
सकृद्वधे चेदम् ।... 46. अस्थन्वतां सास्थ्नां सत्त्वानां प्राणिनां कृकलासा-
दीनाम्... 47... एकैकवधेऽप्येतदेव... 48. फलदा वृक्षाः पनसाम्रा-
दयः । गुल्मादयः पूर्वोक्ताः । पुष्पिता वीरुधो मालत्यादयः । तेषां छेदने
ऋचो गायत्र्याः शतं जप्यम् । अकामतश्चेदम् ।...
15

११४ ॥ विष्णुस्मृतौ ५० ॥ ५१ ॥
अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ ४९ ॥
कृष्टजानामौषधीनां जातानां च स्वयं वने ।
वृथालम्भे तु गच्छेद्गां दिनमेकं पयोव्रतः ॥ ५० ॥ ५० ॥
सुरापः सर्वकर्मवर्जितः कणान्वर्षमश्नीयात् । १ ।
मद्यानां मद्यानां चान्यतमस्य प्राशने चान्द्रायणं कुर्यात्
। २ । लशुनपलाण्डुगृञ्जनैतद्गन्धिबिड्वराहग्रामकुक्कुटवा-
नरगोमांसभक्षणे च । ३ । सर्वेष्वेतेषु द्विजानां प्रायश्चि-
त्तान्ते भूयः संस्कारं कुर्यात् । ४ । वपनमेखलादण्डभै-
क्ष्यचर्याव्रतानि पुनःसंस्कारकर्मणि वर्जनीयानि । ५ ।
शशकशल्यकगोधाखड्गकूर्मवर्जं पञ्चनखमांसाशने सप्त-
49. अन्नजानां C¹, ². See M. XI, 144.
49. अन्नमोदनादि । आद्यं मोदकादि । रसा गुडादयः ।... सर्वशः-
शब्देन जलादिजातानामपि वध एतदेव । अकामतश्चेदम् ।... 50.
कृष्टजा यवव्रीह्यादयः । वने स्वयमेवाकृष्टजा नीवारादयः ।... LI, 1...
सर्वैः संध्यावन्दनसाग्नित्रैर्यजनयाजनादिकर्मभिर्वर्जितः सन्... 2... मद्यानि
मधूकादीनि पूर्वोक्तानि दश द्वादशेति तालमैरादिष्टानामुपलक्षणम् ।...
3... एतेषामिव गन्धो यस्य तत्कन्दादिदिलादिः ।... इदं च ग्रामवासि-
पक्षिमात्रोपलक्षणम् । सर्वांश्च च ग्रामवासिन इति योगिस्मरणात् (Y.
I, 172) ।... कामतश्चेदम् ।... 5. पुनःसंस्कारेषूपनयने क्रियमाणे वपना-
दीनि व्रतानि ब्रह्मचर्यादिधर्मा अगन्धमाल्यादिवर्जनादयः ।...

॥ विष्णुस्मृतौ ५१ ॥ ११५

रात्रमुपवसेत् । ६। गणगणिकास्तेनगायनान्नानि भुक्त्वा
सप्तरात्रं पयसा वर्तेत । ७ । तक्षकान्नं चर्मकर्तुश्च । ८।
वार्धुषिककदर्यदीक्षितबन्धनिकाभिशस्तषण्ढानां च । ६।
पुंश्चलीदाम्भिकचिकित्सकलुब्धक्रू रोग्रोच्छिष्टभोजिनां
च । १०। अवीरास्त्रीसुवर्णकारसपत्नपतितानां च । ११।
पिशुनानृतवाद्दिक्षतधर्मात्मरसविक्रयिणां च । १२।
शैलूषतन्तुवायकृतघ्न्ररजकानां च । १३ । कर्मकारनि-
षादरङ्गावतारिवेणशस्त्रविक्रयिणां च । १४। स्वजीवि-
शौण्डिकतैलिकचैलनिर्णेजकानां च । १५। रजस्व-
लासहोपपतिवेश्मनां च । १६! भ्रूणघ्नावेक्षितमुदक्या-
संस्पृष्टं पतत्रिणावलीढं शुना संस्पृष्टं गवा घ्रातं च
। १७। कामतः पदा स्पृष्टमवक्षुतम् । १८। मत्तक्रुद्धात्तु-


LI, 9. ॰बन्धनिका॰ V¹; ॰बद्धनिगडा॰ V¹⁻³ C¹˒² N. See
Gautama XVII, 17. 18. कामतो यदा संस्पृष्टम्० C¹˒².


6... अकामतस्वेदम् ।... 9... बद्धो रज्ज्वादिना निगडः शृङ्खला सा-
स्यास्तीति ।... 10. क्रूरो दृढकोपः । उग्रो वाक्कायाभ्यामुद्वेजकः ।...
11...सपत्नः शत्रुः ।... 12. पिशुनः सूचकः ।... क्षतधर्मो विधिनिषेधा-
तीतः ।... 13...रजको वस्त्ररागकृत् ॥ 14...निषादो मत्स्याघातजीवी ।
रङ्गावतारी मल्लादिः । वेणो वेणुच्छेदजीवी प्रतिलोमजः ।... 15. श्वजीवी
कुक्कुरपोषणादिभिः ।... 16. रजस्वलोदक्या तत्स्वामिकं तदर्थं पक्वं च ।
उपपतिना जारेण सह वर्तमानं वेश्म यस्यासौ सहोपपतिवेश्मा खट्वे
स्थितजारः ।... 17. भ्रूणघ्नो ब्रह्मगर्भहा तेन चावेक्षितम् ।...

११६ ॥ विष्णुस्मृतौ ५१ ॥
राणां च । १९ । अनर्चितं वृथामांसं च । २० । पाठी-
नरोहितराजीवसिंहतुण्डशकुलवर्जं सर्वमत्स्यमांसाशने
चिरात्रमुपवसेत् । २१ । सर्वजलजमांसाशने च । २२ ।
अपः सुराभाण्डस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं
पयः पिबेत् । २३ । मद्यभाण्डस्थाश्च पञ्चरात्रम् । २४ ।
सोमपः सुरापस्याघ्राय गन्धमुदकमग्नस्त्रिरघमर्षणं जप्त्वा
घृतप्राशनमाचरेत् । २५ । खरोष्ट्रकाकमांसाशने चान्द्रा-
यणं कुर्यात् । २६ । प्राश्याज्ञातं स्वेनास्थं शुष्कमांसं च । २७ ।
क्रव्यादमृगपक्षिमांसाशने तप्तकृच्छ्रम् । २८ । कलवि-
ङ्कप्लवचक्रवाकहंसरज्जुदालसारसदात्यूहशुकसारिकाब-
लाकावककोकिलखञ्जरीटा

॥ विष्णुस्मृतौ ५१ ॥ ११७
एकशफोभयदन्ताशने च । ३० । तित्तिरिकपिञ्जल-
लावकवर्तिकामयूरवर्जं सर्वपक्षिमांसाशने चाहोरा-
त्रम् । ३१ । कीटाशने दिनमेकं ब्रह्मसुवर्चलां पिबेत् ।
३२ । शुनां मांसाशने च । ३३ । छत्राककवकाशने
सांतपनम् । ३४ । यवगोधूमपयोविकारं स्नेहाक्तं सक्तून्
खाण्डवं च वर्जयित्वा पर्युषितं तन्नाश्योपवसेत् । ३५ ।
व्रश्चनामेध्यप्रभवांल्लोहितांश्च वृक्षनिर्यासान् । ३६ । शालू-
ककृशरासरसंयावपायसापूपशष्कुलीदेवान्नानि हवींषि
च । ३७ । गोऽजामहिषीवर्जं सर्वपयांसि च । ३८ ।
अनिर्देशाहानि तान्यपि । ३९ । स्यन्दिनीसंधिनीवि-
31. ॰कपिञ्जल॰ V⁴v Ap; ॰कापि

११८ ॥ विष्णुस्मृतौ ५१ ॥
वत्साक्षीरं च । ४० । अमेध्यभुजञ्च । ४१ । दधिवर्जं
केवलानि च शुक्तानि । ४२ । ब्रह्मचर्याश्रमी श्राद्धभो-
जने त्रिरात्रमुपवसेत् । ४३ । दिनमेकं चोदके वसेत् ।
४४ । मधुमांसाशने प्राजापत्यम् । ४५ । विडालकाक-
नकुलाखूच्छिष्टभक्षणे ब्रह्मसुवर्चलां पिवेत् । ४६ । स्त्रोच्छि-
ष्टाशने दिनमेकमुपोषितः पञ्चगव्यं पिवेत् । ४७ । पञ्च-
नखविण्मूत्राशने सप्तरात्रम् । ४८ । आमश्राद्धाशने
त्रिरात्रं पयसा वर्तेत । ४९ । ब्राह्मणः शूद्रोच्छिष्टाशने
सप्तरात्रम् । ५० । वैश्योच्छिष्टाशने पञ्चरात्रम् । ५१ ।
राजन्योच्छिष्टाशने त्रिरात्रम् । ५२ । ब्राह्मणोच्छिष्टा-
शने त्वेकाहम् । ५३ । राजन्यः शूद्रोच्छिष्टाशी पञ्च-
रात्रम् । ५४ । वैश्योच्छिष्टाशी त्रिरात्रम् । ५५ । वैश्यः


  1. खोच्छिष्टाशने C¹, ².

42... कालेनाम्लीभूतानि शुक्तानि दधिव्यतिरिक्तानि शुक्तेकाहोपवासः ।...
दधिग्रहणं तद्विकाराणामप्युपलक्षणम् । 43... अकामतश्चेदम् ।...
45. ब्रह्मचारी मधुमांसाशने प्राजापत्यं कुर्यात् । श्राद्धे ऽश्राद्धे च ।...
46... इदं चाकामतः सकृद्भक्षणे ।... 47... अकामतश्चेदम् ।... 48.
मानुषातिरिक्तं पञ्चनखविण्मूत्राशने सप्ताहोपोषितोऽष्टमेऽह्नि पञ्चगव्यं पि-
बेत् । कामतश्चेदम् । 49. ब्रह्मचर्यतिरिक्तास्यामश्राद्धाशने त्र्यहं पयः-
पानम् । इदं चाकामतः ।...

॥ विष्णुस्मृतौ ५१ ॥ ११६
शूद्रोच्छिष्टाशी च । ५६ । चण्डालान्नं भुक्त्वा चिराच-
मुपवसेत् । ५७ । सिद्धं भुक्त्वा पराकः ॥ ५८ ॥
असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कथं च न ।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ ५६ ॥
यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् ।
वृथापशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ॥ ६० ॥
यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा ।
यज्ञो हि भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ ६१ ॥
न तादृशं भवत्येनो मृगहन्तुर्धनांर्थिनः ।
यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ ६२ ॥
ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रिती

gitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgao
१२० ॥ विष्णुस्मृतौ ५१ ॥
यज्ञार्थेषु पशून्हिंसन्वेदतत्त्वार्थविद्द्विजः ।
आत्मानं च पशूंश्चैव गमयत्युत्तमां गतिम् ॥ ६५ ॥
गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः ।
नावेदविहितां हिंसामापद्यपि समाचरेत् ॥ ६६ ॥
या वेदविहिता हिंसा नियतास्मिंश्चराचरे ।
अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ ६७ ॥
योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया ।
स जीवंश्च मृतश्चैव न क्वचित्सुखमेधते ॥ ६८ ॥
यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति ।
स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ ६९ ॥
यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च ।
तदवाप्नोत्ययत्नेन यो हिनस्ति न किं च न ॥ ७० ॥
नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ ७१ ॥
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ७२ ॥
न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।
स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥ ७३ ॥
65. यो... वेदविहितयज्ञार्थं न तु भक्षणार्थं पशून्हिनस्ति... 69. यः
प्राणिनां वधबन्धादिक्लेशान् चिकीर्षति स सर्वेषामपि हितप्रेप्सुत्वादात्यन्तिक-
सुखमाप्नोति । 73. पिशाचा ह्यविधिनैव मांसं भक्षयन्ति ।...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry

tized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalg
॥ विष्णुस्मृतौ ५१ ॥ ५२ ॥ १२१
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ ७४ ॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
अनभ्यर्च्य पितृन्देवान्ततोऽन्योऽस्त्यपुण्यकृत् ॥ ७५ ॥
वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद्यस्तस्य पुण्यफलं समम् ॥ ७६ ॥
फलमूलाशनैर्दिब्यैर्मुन्यन्नानां च भोजनैः ।
न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥ ७७ ॥
मां स भक्षयितामुत्र यस्य मांसमिहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ ७८ ॥ ५१ ॥
────────────────────────────────────────────────
सुवर्णस्तेयकृद्राज्ञे कर्माचक्षाणो मुसलमर्पयेत् । १ ।
वधाच्चागाद्वा प्रयतो भवति । २ । महाव्रतं द्वादश-
ब्दानि वा कुर्यात् । ३ । निक्षेपापहारी च । ४ । धान्य-
धनापहारी च कृच्छ्रमब्दम् । ५ । मनुष्यस्त्रीकूपक्षेत्र-
────────────────────────────────────────────────
75. देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥ C¹'² (and M. V, 52).
────────────────────────────────────────────────
77. दिव्यैः स्वर्गसाधनैः फलमूलनीवारादिभोजनैत्तादृशी स्वर्गप्राप्तिर्नास्ति
यादृशी मांसवर्जनेन ॥ LII, 1... तत्र ब्राह्मणस्वामिकमेव ।... 3.
अकामतः सुवर्णस्तेय आह ॥ 4... तस्य कामतोऽपहारी ।... 5... च-
कारात्सिद्धान्नं च ब्राह्मणस्यैतदपहृत्याब्दं कृच्छ्रं चरेत् । एतच्च कामतः ।...
6. मनुष्यो दासः । स्त्री दासी । शेषं प्रसिद्धम् । एषां क्षत्रियादिस्वामि-
4
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry

१२२ ॥ विष्णुस्मृतौ ५२ ॥
वापीनामपहारे चान्द्रायणम् । ६ । द्रव्याणामल्पसा-
राणां सांतपनम् । ७ । भक्ष्यभोज्यपानशय्यासनपुष्प-
मूलफलानां पञ्चगव्यपानम् । ८ । तृणकाष्ठद्रुमशुष्कान्न-
गुडवस्त्रचर्मामिषाणां त्रिरात्रमुपवसेत् । ९ । मणिमुक्ता-
प्रवालताम्ररजतायःकांस्यानां द्वादशाहं कणानश्नीयात्
। १० । कार्पासकीटजोर्णाद्यपहरणे त्रिरात्रं पयसा वर्तेत
। ११ । द्विशफैकशफापहरणे त्रिरात्रमुपवसेत् । १२ । पक्षि-
गन्धौषधिरज्जुवैदलाना मपहरणे दिनमुपवसेत् । १३ ।
दत्त्वैवापहृतं द्रव्यं धनिकस्याप्युपायतः ।
प्रायश्चित्तं ततः कुर्यात्कल्मषस्यापनुत्तये ॥ १४ ॥
यद्यत्परेभ्यस्त्वादद्यात्पुरुषस्तु निरङ्कुशः ।
तेन तेन विहीनः स्यात्तत्र यत्राभिजायते ॥ १५ ॥
LII, 8. ०यान० C¹'²v (and M. XI, 160). 12. ०शफहरणे C¹'²v.
कानामपच्छटजातीयानामपहारे चान्द्रायणम् ।... वापीकूपयोर्न स्वरूपेण
हरणम्... किंतु जलवतारेव । वापीकूपजलानां च शुद्धिश्चान्द्रायणं स्मृत-
मिति मानवात् (M. XI, 164) ।... 7. अल्पसाराण्यल्पमूल्यानि त्रपु-
सीसादीनि ।... पञ्चविंशतिपणलभ्यविषयमेतत् ।... 8. भक्ष्यं मोदकादि ।
भोज्यमोदनादि । पानं दुग्धादि ।... 10... कामतश्चेदम् ।... 11...
कार्पासादि शब्दात्तूमादितन्तवः । ... इदं च पादकृच्छ्रतुल्यत्वादकामतः ।...
14. धनस्वामिनेऽपहृतं द्रव्यं साक्षादेव दत्त्वा लज्जादिना साक्षाद्दानाश-
क्तावुपायान्तरेण यौतकादिमिषेणापि दत्त्वा प्रायश्चित्तं कार्यम् ।... 15.
रागाभिभवेन निषेधमगणय्य यद्यद्द्रव्यमपहरति...

॥ विष्णुस्मृतौ ५२ ॥ ५३ ॥ १२९
जीवितं धर्मकामौ च धने यस्मात्प्रतिष्ठितौ ।
तस्मात्सर्वप्रयत्नेन धनहिंसां विवर्जयेत् ॥ १६ ॥
प्राणिहिंसापरो यस्तु धनहिंसापरस्तथा ।
महद्दुःखमवाप्नोति धनहिंसापरस्तयोः ॥ १७ ॥ ५२ ॥
अथागम्यागमने महाव्रतविधानेनाब्दं चीरवासा
वने प्राजापत्यं कुर्यात् । १ । परदारगमने च । २ ।
गोव्रतं गोगमने च । ३ । पुंस्ययोनावाकाशेऽप्सु दिवा
गोयाने च सवासाः स्नानमाचरेत् । ४ । चण्डालीग-
मने तत्साम्यमाप्नुयात् । ५ । अज्ञानतश्चान्द्रायणद्वयं
कुर्यात् । ६ । पशुवेश्यागमने च प्राजापत्यम् । ७ ।
सकृद्दुष्टा स्त्री यत्पुरुषस्य परदारे तद्व्रतं कुर्यात्
। ८ ।
यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ।
तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ ९ ॥ ५३ ॥
15. परेभ्य व्यादद्यात् C$^{1, v}$. LIII, 7. च om. C$^{1, 2}$.
LIII, 1... तत्रागम्या शूद्रा पितृभार्या । तस्यामकामतोगमने...
2. गुरुतल्पतत्समव्यतिरिक्तस्वस्वजातिपरदारगमने ऽपि... 3... आकाशे
ऽन्तरिक्षे वारव्यापारादिना । अप्सु जलमध्ये ।... 5. कामतश्चण्डालीगमन
ग्राह्यं ।... 7. पशवो ऽश्वादयः ।... कामतश्चेदम् ।... 8. सकृदेकवारं
व्यभिचारिता स्त्री... 9... भैक्षं भुञ्जानो गायत्रीं जपन्...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry

१२४ ॥ विष्णुस्मृतौ ५४ ॥
यः पापात्मा येन सह संयुज्यते स तस्यैव प्रायश्चित्तं
कुर्यात् । १ । मृतपञ्चनखात्कूपाद्यत्यन्तोपहताच्चोदकं
पीत्वा ब्राह्मणस्त्रिरात्रमुपवसेत् । २ । द्वहं राजन्यः
। ३ । एकाहं वैश्यः । ४ । शूद्रो नक्तम् । ५ । सर्वे चान्ते
व्रतस्य पञ्चगव्यं पिबेयुः । ६ ।
पञ्चगव्यं पिबेच्छूद्रो ब्राह्मणस्तु सुरां पिबेत् ।
उभौ तौ नरकं यातौ महारौरवसंज्ञितम् ॥ ७ ॥
पर्वानायोग्यवर्जन्नृतावगच्छन्पत्नीं त्रिरात्रमुपवसेत्
। ८ । कूटसाक्षी ब्रह्महत्याव्रतं चरेत् । ९। अनुदकमूत्रपु-
रीषकरणे सचैलं स्नानं महाव्याहृतिहोमश्च । १० ।
सूर्येणाभ्युदितनिर्मुक्तः सचैलस्नातः सावित्र्यष्टशतमावर्त-
येत् । ११ । श्वशृगालविड्वराहखरवानरवायसपुंश्चली-
भिर्दष्टः स्रवन्तीमासाद्य षोडश प्राणायामान्कुर्यात्
। १२ । वेदाग्न्युत्सादी चिपवगाङ्गाध्यधःशायी संवत्सरं
सकृद्भैक्षेण वर्तेत । १३। समुत्कर्षानृते गुरोश्चालीकनिर्वन्धे
LIV, 7. यातौ V¹. 12. षोडश om. V¹.
LIV, 6. सर्वे त्रैवर्णिका उक्तव्रतान्ते पञ्चगव्यं पिबेयुर्न शूद्रस्तस्य वक्ष्य-
माणत्वान्निषेधात् ।... 10... अकामतश्चेदम् ।... 12... नदीं गत्वा
तत्र स्नात्वा जले षोडश प्राणायामान्कुर्यात् ।... 13. वेदात्साध्यधीतवेद-
विसर्जनं । अग्न्युत्साद्याहिताग्नीनामग्नीनां श्रौतस्मार्तानां त्यागः ।...

॥ विष्णुस्मृतौ ५४ ॥ १२५

तदाक्षेपणे च मासं पयसा वर्तेत । १४ । नास्तिको
नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नश्चैते
संवत्सरं भैक्षेण वर्तेरन् । १५ । परिवित्तिः परिवेत्ता
यया च परिविद्यते दाता याजकश्च चान्द्रायणं कुर्यात्
। १६ । प्राणिभूपुण्यसोमविक्रयी तप्तकृच्छ्रम् । १७ ।
आर्द्रौषधिगन्धपुष्पफलमूलचर्मवेणुविदळतुषकपालकेश-
भस्मास्थिगोरसपिण्याकतिलतैलविक्रयी प्राजापत्यम् ।
१८ । श्लेष्मातजतुमधूच्छिष्टशङ्खशुक्तिचपुसीसकृष्णलोहा-
दुम्बरखड्गपात्रविक्रयी चान्द्रायणं कुर्यात् । १९ । रक्त-
वस्त्ररङ्गरत्नगन्धगुड़मधुरसोर्णाविक्रयी चिराचमुपवसेत्
। २० । मांसलवणलाक्षाक्षीरविक्रयी चान्द्रायणं कुर्यात्

  1. या च परिविद्यते V¹⁻³ C¹v ; या च परिवेत्ता या च परिविद्यते C².

  2. ॰लोमविक्रयी C². C¹,² Ap. add कुर्यात् at the end. 18.
    ॰वैदल॰ C¹,².

  3. नास्तिकवृत्तिर्बाह्याचारोपजीवी। नास्तिकेभ्यो वृत्तिजीवनं यस्येति
    वा। ... कूटव्यवहारी कूटेन कपटेन तुलामानादिक्कृतेन क्रयविक्रयकर्ता।
    ब्राह्मणवृत्तिघ्नो राजादिदत्तशासनाद्यपहर्ता। 16. परिवित्त्यादयः पञ्चापि
    चान्द्रायणं कुर्युः। ... 17. प्राणिनो गोमनुष्यादयः। ... पुण्यं यागादिजन्यो
    धर्मः। ... 18. आर्द्रमार्द्रकम्। ओषध्यो यवव्रीह्यादयः। ... विदलं... शूर्प-
    व्यजनादि। ... गोरसो क्षीरदध्यादिः। 19. श्लेष्माणि श्लेष्मातकफलानि।
    जतु लाक्षा! कृष्णलोहमायसम्। औदुम्बरं ताम्रम्। खड्गपात्रं खड्ग-
    शृङ्गमयं पात्रं पितृतर्पणासाध्यम्। ... 20. रक्तवस्त्रमञ्जिष्ठादिरञ्जितम्।
    रङ्गं धातुविशेषः। ... रसा गुडळवणादिव्यतिरिक्तास्तिक्ताकटुकादयः। ...

१२६ ॥ विष्णुस्मृतौ ५४ ॥
। २१ । तं च भूयश्चोपनयेत् । २२ । उष्ट्रेण खरेण
वा गत्वा नग्नः स्नात्वा सुप्त्वा भुक्त्वा प्राणायामत्रयं
कुर्यात् । २३ ।
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ २४ ॥
अयाज्ययाजनं कृत्वा परेषामन्त्यकर्म च ।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥ २५ ॥
येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥ २६ ॥
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।
ब्राह्मण्याच्च परित्यक्तास्तेषामप्येतदादिशेत् ॥ २७ ॥
यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसा तथा ॥ २८ ॥
वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ २९ ॥
22. तं प्राग्गवाद्यपशुविक्रयिणम्... 23... इदं च कामतो ऽकामतस्तु
स्नानमेव ।... 25. अयाज्या याजनानर्हाः । ते च द्विविधा जात्या
शूद्रप्रतिलोमादयः कर्मणा पातित्योपपातकादियुक्ताः ।... अभिचारः पर-
मरणार्थो दृष्टोपायः । श्येनयागादिः ।... 26... त्रीन्प्राजापत्यांश्चारयित्वा
यथाविध्युपनाययेत् ।... यत्किंचिदुपनयनाङ्गहीने ऽप्येतदेव नानूच्येत यथा-
विधीति सामान्याभिधानात् ।... 28. गर्हितेन शास्त्रनिषिद्धेन क्षत्रादि-
कर्मणा... गर्हितपदोपादानान्निषिद्धप्रतिग्रहादावप्येतदेव ज्ञेयम् ।... 29.
वेदः स्मृत्युपलक्षकः । तेन श्रौतस्मार्तसंध्यास्नानादिनित्यकर्मलोपे...

tized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalg
॥ विष्णुस्मृतौ ५४ ॥ ५५ ॥ १२७
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ३० ॥
एनस्विभिरनिर्णिक्तैर्नार्थं कंचित्समाचरेत् ।
कृतनिर्णेजनांश्चैतान्न जुगुप्सेत धर्मवित् ॥ ३१ ॥
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।
शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ ३२ ॥
अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥ ३३ ॥
अनुक्तनिष्कृतीनां तु पापानामपनुत्तये ।
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ ३४॥५४॥
अथ रहस्यप्रायश्चित्तानि भवन्ति । १ । स्रवन्तीमा-
साद्य स्नातः प्रत्यहं षोडश प्राणायामान्कृत्त्वैककालं
हविष्याशी मासेन ब्रह्महा पूतो भवति । २ । कर्मणो
LV, 2. प्राणायामान्सलक्षणान्कृत्त्वै० V⁴. सलक्षणान् from the C.
30. विप्रजिघांसया दण्डाद्युद्यमे ऽवगूरणम् । तत्तत्त्वा कृच्छ्रं प्राजाप-
त्यम् ।... 32... न संवसेन्न व्यवहरेदिति वाचनिकोऽयं निषेधः ।...
LV, 1. द्विविधं पापं प्रकाशं रहस्यं च । प्रकाशं लोकविदितं रहस्यं
कर्तृमात्रज्ञातम् ।... 2. स्रवन्तीं नदीं तामासाद्य गत्वा तत्र स्नात्वा
मासं प्रत्यहं षोडश प्राणायामान्सलक्षणान्कृत्त्वैकवारमेव हविष्यभुग्ब्रह्महा
शुध्यति ।... 3. उक्तस्य कर्मणः समाप्तौ
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry

१२८ ॥ विष्णुस्मृतौ ५५ ॥
ऽन्ते पयस्विनीं गां दद्यात् । ३ । व्रतेनाघमर्षणेन च
सुरापः पूतो भवति । ४ । गायत्रोदशसाहस्रजपेन सुव-
र्णस्तेयकृत् । ५ । त्रिरात्रोपोषितः पुरुषसूक्तजपहो-
माभ्यां गुरुतल्पगः । ६ ।
यथाश्वमेधः क्रतुराट्सर्वपापापनोदकः ।
तथाघमर्षणं सूक्तं सर्वपापापनोदकम् ॥ ७ ॥
प्राणायामं द्विजः कुर्यात्सर्वपापापनुत्तये ।
दह्यन्ते सर्वपापानि प्राणायामैर्द्विजस्य तु ॥ ८ ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ९ ॥
अकारं चाप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयान्निरदुहद्भूर्भुवःस्वरितीति च ॥ १० ॥
त्रिभ्य एव तु