विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
DevanagariSanskritpublished392 पृष्ठ
पृष्ठ 127, कुल 392 में से
संदर्भ में पढ़ेंपृष्ठ 127
॥ विष्णुस्मृतौ ५१ ॥ ११६
शूद्रोच्छिष्टाशी च । ५६ । चण्डालान्नं भुक्त्वा चिराच-
मुपवसेत् । ५७ । सिद्धं भुक्त्वा पराकः ॥ ५८ ॥
असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कथं च न ।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ ५६ ॥
यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् ।
वृथापशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ॥ ६० ॥
यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा ।
यज्ञो हि भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ ६१ ॥
न तादृशं भवत्येनो मृगहन्तुर्धनांर्थिनः ।
यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ ६२ ॥
ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रिती