सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 122, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 122

११४ ॥ विष्णुस्मृतौ ५० ॥ ५१ ॥
अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ ४९ ॥
कृष्टजानामौषधीनां जातानां च स्वयं वने ।
वृथालम्भे तु गच्छेद्गां दिनमेकं पयोव्रतः ॥ ५० ॥ ५० ॥
सुरापः सर्वकर्मवर्जितः कणान्वर्षमश्नीयात् । १ ।
मद्यानां मद्यानां चान्यतमस्य प्राशने चान्द्रायणं कुर्यात्
। २ । लशुनपलाण्डुगृञ्जनैतद्गन्धिबिड्वराहग्रामकुक्कुटवा-
नरगोमांसभक्षणे च । ३ । सर्वेष्वेतेषु द्विजानां प्रायश्चि-
त्तान्ते भूयः संस्कारं कुर्यात् । ४ । वपनमेखलादण्डभै-
क्ष्यचर्याव्रतानि पुनःसंस्कारकर्मणि वर्जनीयानि । ५ ।
शशकशल्यकगोधाखड्गकूर्मवर्जं पञ्चनखमांसाशने सप्त-
49. अन्नजानां C¹, ². See M. XI, 144.
49. अन्नमोदनादि । आद्यं मोदकादि । रसा गुडादयः ।... सर्वशः-
शब्देन जलादिजातानामपि वध एतदेव । अकामतश्चेदम् ।... 50.
कृष्टजा यवव्रीह्यादयः । वने स्वयमेवाकृष्टजा नीवारादयः ।... LI, 1...
सर्वैः संध्यावन्दनसाग्नित्रैर्यजनयाजनादिकर्मभिर्वर्जितः सन्... 2... मद्यानि
मधूकादीनि पूर्वोक्तानि दश द्वादशेति तालमैरादिष्टानामुपलक्षणम् ।...
3... एतेषामिव गन्धो यस्य तत्कन्दादिदिलादिः ।... इदं च ग्रामवासि-
पक्षिमात्रोपलक्षणम् । सर्वांश्च च ग्रामवासिन इति योगिस्मरणात् (Y.
I, 172) ।... कामतश्चेदम् ।... 5. पुनःसंस्कारेषूपनयने क्रियमाणे वपना-
दीनि व्रतानि ब्रह्मचर्यादिधर्मा अगन्धमाल्यादिवर्जनादयः ।...