सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 134, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 134

१२६ ॥ विष्णुस्मृतौ ५४ ॥
। २१ । तं च भूयश्चोपनयेत् । २२ । उष्ट्रेण खरेण
वा गत्वा नग्नः स्नात्वा सुप्त्वा भुक्त्वा प्राणायामत्रयं
कुर्यात् । २३ ।
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ २४ ॥
अयाज्ययाजनं कृत्वा परेषामन्त्यकर्म च ।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥ २५ ॥
येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥ २६ ॥
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।
ब्राह्मण्याच्च परित्यक्तास्तेषामप्येतदादिशेत् ॥ २७ ॥
यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसा तथा ॥ २८ ॥
वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ २९ ॥
22. तं प्राग्गवाद्यपशुविक्रयिणम्... 23... इदं च कामतो ऽकामतस्तु
स्नानमेव ।... 25. अयाज्या याजनानर्हाः । ते च द्विविधा जात्या
शूद्रप्रतिलोमादयः कर्मणा पातित्योपपातकादियुक्ताः ।... अभिचारः पर-
मरणार्थो दृष्टोपायः । श्येनयागादिः ।... 26... त्रीन्प्राजापत्यांश्चारयित्वा
यथाविध्युपनाययेत् ।... यत्किंचिदुपनयनाङ्गहीने ऽप्येतदेव नानूच्येत यथा-
विधीति सामान्याभिधानात् ।... 28. गर्हितेन शास्त्रनिषिद्धेन क्षत्रादि-
कर्मणा... गर्हितपदोपादानान्निषिद्धप्रतिग्रहादावप्येतदेव ज्ञेयम् ।... 29.
वेदः स्मृत्युपलक्षकः । तेन श्रौतस्मार्तसंध्यास्नानादिनित्यकर्मलोपे...