विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 135, कुल 392 में से
संदर्भ में पढ़ेंtized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalg
॥ विष्णुस्मृतौ ५४ ॥ ५५ ॥ १२७
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ३० ॥
एनस्विभिरनिर्णिक्तैर्नार्थं कंचित्समाचरेत् ।
कृतनिर्णेजनांश्चैतान्न जुगुप्सेत धर्मवित् ॥ ३१ ॥
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।
शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ ३२ ॥
अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥ ३३ ॥
अनुक्तनिष्कृतीनां तु पापानामपनुत्तये ।
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ ३४॥५४॥
अथ रहस्यप्रायश्चित्तानि भवन्ति । १ । स्रवन्तीमा-
साद्य स्नातः प्रत्यहं षोडश प्राणायामान्कृत्त्वैककालं
हविष्याशी मासेन ब्रह्महा पूतो भवति । २ । कर्मणो
LV, 2. प्राणायामान्सलक्षणान्कृत्त्वै० V⁴. सलक्षणान् from the C.
30. विप्रजिघांसया दण्डाद्युद्यमे ऽवगूरणम् । तत्तत्त्वा कृच्छ्रं प्राजाप-
त्यम् ।... 32... न संवसेन्न व्यवहरेदिति वाचनिकोऽयं निषेधः ।...
LV, 1. द्विविधं पापं प्रकाशं रहस्यं च । प्रकाशं लोकविदितं रहस्यं
कर्तृमात्रज्ञातम् ।... 2. स्रवन्तीं नदीं तामासाद्य गत्वा तत्र स्नात्वा
मासं प्रत्यहं षोडश प्राणायामान्सलक्षणान्कृत्त्वैकवारमेव हविष्यभुग्ब्रह्महा
शुध्यति ।... 3. उक्तस्य कर्मणः समाप्तौ
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry