सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 124, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 124

११६ ॥ विष्णुस्मृतौ ५१ ॥
राणां च । १९ । अनर्चितं वृथामांसं च । २० । पाठी-
नरोहितराजीवसिंहतुण्डशकुलवर्जं सर्वमत्स्यमांसाशने
चिरात्रमुपवसेत् । २१ । सर्वजलजमांसाशने च । २२ ।
अपः सुराभाण्डस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं
पयः पिबेत् । २३ । मद्यभाण्डस्थाश्च पञ्चरात्रम् । २४ ।
सोमपः सुरापस्याघ्राय गन्धमुदकमग्नस्त्रिरघमर्षणं जप्त्वा
घृतप्राशनमाचरेत् । २५ । खरोष्ट्रकाकमांसाशने चान्द्रा-
यणं कुर्यात् । २६ । प्राश्याज्ञातं स्वेनास्थं शुष्कमांसं च । २७ ।
क्रव्यादमृगपक्षिमांसाशने तप्तकृच्छ्रम् । २८ । कलवि-
ङ्कप्लवचक्रवाकहंसरज्जुदालसारसदात्यूहशुकसारिकाब-
लाकावककोकिलखञ्जरीटा