विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 123, कुल 392 में से
संदर्भ में पढ़ें॥ विष्णुस्मृतौ ५१ ॥ ११५
रात्रमुपवसेत् । ६। गणगणिकास्तेनगायनान्नानि भुक्त्वा
सप्तरात्रं पयसा वर्तेत । ७ । तक्षकान्नं चर्मकर्तुश्च । ८।
वार्धुषिककदर्यदीक्षितबन्धनिकाभिशस्तषण्ढानां च । ६।
पुंश्चलीदाम्भिकचिकित्सकलुब्धक्रू रोग्रोच्छिष्टभोजिनां
च । १०। अवीरास्त्रीसुवर्णकारसपत्नपतितानां च । ११।
पिशुनानृतवाद्दिक्षतधर्मात्मरसविक्रयिणां च । १२।
शैलूषतन्तुवायकृतघ्न्ररजकानां च । १३ । कर्मकारनि-
षादरङ्गावतारिवेणशस्त्रविक्रयिणां च । १४। स्वजीवि-
शौण्डिकतैलिकचैलनिर्णेजकानां च । १५। रजस्व-
लासहोपपतिवेश्मनां च । १६! भ्रूणघ्नावेक्षितमुदक्या-
संस्पृष्टं पतत्रिणावलीढं शुना संस्पृष्टं गवा घ्रातं च
। १७। कामतः पदा स्पृष्टमवक्षुतम् । १८। मत्तक्रुद्धात्तु-
LI, 9. ॰बन्धनिका॰ V¹; ॰बद्धनिगडा॰ V¹⁻³ C¹˒² N. See
Gautama XVII, 17. 18. कामतो यदा संस्पृष्टम्० C¹˒².
6... अकामतस्वेदम् ।... 9... बद्धो रज्ज्वादिना निगडः शृङ्खला सा-
स्यास्तीति ।... 10. क्रूरो दृढकोपः । उग्रो वाक्कायाभ्यामुद्वेजकः ।...
11...सपत्नः शत्रुः ।... 12. पिशुनः सूचकः ।... क्षतधर्मो विधिनिषेधा-
तीतः ।... 13...रजको वस्त्ररागकृत् ॥ 14...निषादो मत्स्याघातजीवी ।
रङ्गावतारी मल्लादिः । वेणो वेणुच्छेदजीवी प्रतिलोमजः ।... 15. श्वजीवी
कुक्कुरपोषणादिभिः ।... 16. रजस्वलोदक्या तत्स्वामिकं तदर्थं पक्वं च ।
उपपतिना जारेण सह वर्तमानं वेश्म यस्यासौ सहोपपतिवेश्मा खट्वे
स्थितजारः ।... 17. भ्रूणघ्नो ब्रह्मगर्भहा तेन चावेक्षितम् ।...