सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 131, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 131

॥ विष्णुस्मृतौ ५२ ॥ ५३ ॥ १२९
जीवितं धर्मकामौ च धने यस्मात्प्रतिष्ठितौ ।
तस्मात्सर्वप्रयत्नेन धनहिंसां विवर्जयेत् ॥ १६ ॥
प्राणिहिंसापरो यस्तु धनहिंसापरस्तथा ।
महद्दुःखमवाप्नोति धनहिंसापरस्तयोः ॥ १७ ॥ ५२ ॥
अथागम्यागमने महाव्रतविधानेनाब्दं चीरवासा
वने प्राजापत्यं कुर्यात् । १ । परदारगमने च । २ ।
गोव्रतं गोगमने च । ३ । पुंस्ययोनावाकाशेऽप्सु दिवा
गोयाने च सवासाः स्नानमाचरेत् । ४ । चण्डालीग-
मने तत्साम्यमाप्नुयात् । ५ । अज्ञानतश्चान्द्रायणद्वयं
कुर्यात् । ६ । पशुवेश्यागमने च प्राजापत्यम् । ७ ।
सकृद्दुष्टा स्त्री यत्पुरुषस्य परदारे तद्व्रतं कुर्यात्
। ८ ।
यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ।
तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ ९ ॥ ५३ ॥
15. परेभ्य व्यादद्यात् C$^{1, v}$. LIII, 7. च om. C$^{1, 2}$.
LIII, 1... तत्रागम्या शूद्रा पितृभार्या । तस्यामकामतोगमने...
2. गुरुतल्पतत्समव्यतिरिक्तस्वस्वजातिपरदारगमने ऽपि... 3... आकाशे
ऽन्तरिक्षे वारव्यापारादिना । अप्सु जलमध्ये ।... 5. कामतश्चण्डालीगमन
ग्राह्यं ।... 7. पशवो ऽश्वादयः ।... कामतश्चेदम् ।... 8. सकृदेकवारं
व्यभिचारिता स्त्री... 9... भैक्षं भुञ्जानो गायत्रीं जपन्...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry