सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 136, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 136

१२८ ॥ विष्णुस्मृतौ ५५ ॥
ऽन्ते पयस्विनीं गां दद्यात् । ३ । व्रतेनाघमर्षणेन च
सुरापः पूतो भवति । ४ । गायत्रोदशसाहस्रजपेन सुव-
र्णस्तेयकृत् । ५ । त्रिरात्रोपोषितः पुरुषसूक्तजपहो-
माभ्यां गुरुतल्पगः । ६ ।
यथाश्वमेधः क्रतुराट्सर्वपापापनोदकः ।
तथाघमर्षणं सूक्तं सर्वपापापनोदकम् ॥ ७ ॥
प्राणायामं द्विजः कुर्यात्सर्वपापापनुत्तये ।
दह्यन्ते सर्वपापानि प्राणायामैर्द्विजस्य तु ॥ ८ ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ९ ॥
अकारं चाप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयान्निरदुहद्भूर्भुवःस्वरितीति च ॥ १० ॥
त्रिभ्य एव तु