विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
DevanagariSanskritpublished392 पृष्ठ
पृष्ठ 125, कुल 392 में से
संदर्भ में पढ़ेंपृष्ठ 125
॥ विष्णुस्मृतौ ५१ ॥ ११७
एकशफोभयदन्ताशने च । ३० । तित्तिरिकपिञ्जल-
लावकवर्तिकामयूरवर्जं सर्वपक्षिमांसाशने चाहोरा-
त्रम् । ३१ । कीटाशने दिनमेकं ब्रह्मसुवर्चलां पिबेत् ।
३२ । शुनां मांसाशने च । ३३ । छत्राककवकाशने
सांतपनम् । ३४ । यवगोधूमपयोविकारं स्नेहाक्तं सक्तून्
खाण्डवं च वर्जयित्वा पर्युषितं तन्नाश्योपवसेत् । ३५ ।
व्रश्चनामेध्यप्रभवांल्लोहितांश्च वृक्षनिर्यासान् । ३६ । शालू-
ककृशरासरसंयावपायसापूपशष्कुलीदेवान्नानि हवींषि
च । ३७ । गोऽजामहिषीवर्जं सर्वपयांसि च । ३८ ।
अनिर्देशाहानि तान्यपि । ३९ । स्यन्दिनीसंधिनीवि-
31. ॰कपिञ्जल॰ V⁴v Ap; ॰कापि