सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 133, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 133

॥ विष्णुस्मृतौ ५४ ॥ १२५

तदाक्षेपणे च मासं पयसा वर्तेत । १४ । नास्तिको
नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नश्चैते
संवत्सरं भैक्षेण वर्तेरन् । १५ । परिवित्तिः परिवेत्ता
यया च परिविद्यते दाता याजकश्च चान्द्रायणं कुर्यात्
। १६ । प्राणिभूपुण्यसोमविक्रयी तप्तकृच्छ्रम् । १७ ।
आर्द्रौषधिगन्धपुष्पफलमूलचर्मवेणुविदळतुषकपालकेश-
भस्मास्थिगोरसपिण्याकतिलतैलविक्रयी प्राजापत्यम् ।
१८ । श्लेष्मातजतुमधूच्छिष्टशङ्खशुक्तिचपुसीसकृष्णलोहा-
दुम्बरखड्गपात्रविक्रयी चान्द्रायणं कुर्यात् । १९ । रक्त-
वस्त्ररङ्गरत्नगन्धगुड़मधुरसोर्णाविक्रयी चिराचमुपवसेत्
। २० । मांसलवणलाक्षाक्षीरविक्रयी चान्द्रायणं कुर्यात्

  1. या च परिविद्यते V¹⁻³ C¹v ; या च परिवेत्ता या च परिविद्यते C².

  2. ॰लोमविक्रयी C². C¹,² Ap. add कुर्यात् at the end. 18.
    ॰वैदल॰ C¹,².

  3. नास्तिकवृत्तिर्बाह्याचारोपजीवी। नास्तिकेभ्यो वृत्तिजीवनं यस्येति
    वा। ... कूटव्यवहारी कूटेन कपटेन तुलामानादिक्कृतेन क्रयविक्रयकर्ता।
    ब्राह्मणवृत्तिघ्नो राजादिदत्तशासनाद्यपहर्ता। 16. परिवित्त्यादयः पञ्चापि
    चान्द्रायणं कुर्युः। ... 17. प्राणिनो गोमनुष्यादयः। ... पुण्यं यागादिजन्यो
    धर्मः। ... 18. आर्द्रमार्द्रकम्। ओषध्यो यवव्रीह्यादयः। ... विदलं... शूर्प-
    व्यजनादि। ... गोरसो क्षीरदध्यादिः। 19. श्लेष्माणि श्लेष्मातकफलानि।
    जतु लाक्षा! कृष्णलोहमायसम्। औदुम्बरं ताम्रम्। खड्गपात्रं खड्ग-
    शृङ्गमयं पात्रं पितृतर्पणासाध्यम्। ... 20. रक्तवस्त्रमञ्जिष्ठादिरञ्जितम्।
    रङ्गं धातुविशेषः। ... रसा गुडळवणादिव्यतिरिक्तास्तिक्ताकटुकादयः। ...