उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
४-२२ ] उत्तररामचरितं १०३
: लवः—एतावदेव जानामि।
(नेपथ्ये) भो भोः सैनिकाः। एष खलु कुमारश्चन्द्रकेतुराज्ञापयति न केनचिदाश्रमपर्यन्तभूमय आक्रमितव्या इति।
अरुन्धतीजनकौ—अये मेध्याश्वरक्षाप्रसङ्गादुपगतो वत्सश्चन्द्रकेतुरप्य द्रष्टव्य इत्यहो सुदिवसः।
कौसल्या—वच्छलक्खणस्स पुत्तओ आणवेदित्ति अमिविन्दुसुन्दराई अक्खराई सुणीअन्ति। वत्स लक्ष्मणस्य पुत्रक आज्ञापयतीत्यमृतबिन्दुसुन्दराण्यक्षराणि श्रूयन्ते।
लवः—आर्य क एष चन्द्रकेतुर्नाम।
जनकः—जानासि रामलक्ष्मणौ दाशरथी।
लवः—एतावेव रामायणकथापुरुषौ।
जनकः—अथ किम्।
लवः—तत्कथं न जानामि।
जनकः—तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः।
लवः—ऊर्मिलायाः पुनस्तर्हि मैथिलस्य राजर्षेर्दौहित्रः।
अरुन्धती—(विहस्य।) आविष्कृतं कथाप्रावीण्यं वत्सेन।
जनकः—(विचिन्त्य।) यदि त्वमीदृशः कथायामभिज्ञस्तर्हि तावद्ब्रूह्याचक्ष्वैषां दशरथात्मजानां कियन्ति किंनामधेयान्यपत्यानि केषु केषु दारेषु प्रसूतानीति।
लवः—नायं कथाप्रविभागोऽस्माभिरन्येन वा श्रुतपूर्वः।
जनकः—किं न प्रणीत एव कविना।
लवः—प्रणीतो न प्रकाशितः। तस्यैव कोऽप्येकदेशः सन्दर्भान्तरेण रसवानभिनेयार्थः कृतः। तं च स्वहस्तलिखितं मुनिर्भगवान्व्यसृजद्भगवतो भरतस्य मुनेस्तौर्यत्रिकसूत्रकारस्य।
जनकः—किमर्थम्।
लवः—स किल भगवांस्तमप्सरोभिः प्रयोजयिष्यतीति।
जनकः—सर्वमिदमाकूतेतरमस्माकम्।
१ 'प्रबन्धान्तरेण' न. २ 'आहूतकरम्' घ-घ.
१०२ उत्तररामचरितं [४-२२
लवः—महती पुनस्तस्मिन्भगवतो वाल्मीकेरास्था । यतः केषांचिदन्ते-
वासिनां हस्तेन तद्युग्मं भरताचार्यं प्रति प्रेषितम् । तेषामनुयात्रिकश्चाप-
पाणिः प्रमादापनोदनार्थमस्मद्ध्राता प्रेषितः ।
कौसल्या—जाद भादावि दे अत्थि । जात भ्रातापि तेऽस्ति ।
लवः—अस्त्यार्यः कुशो नाम ।
कौसल्या—जेट्ठोत्ति भणिदं होदि । ज्येष्ठ इति भणितं भवति ।
लवः—एवमेतत् । प्रसवक्रमेण स किल ज्यायान् ।
जनकः—किं यमजावायुष्मन्तौ ।
लवः—अथ किम् ।
जनकः—वत्स कथय कथाप्रबन्धस्य कीदृशः पर्यन्तः ।
लवः—अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवीं देवयजनसं-
भवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनि-
वृत्त इति ।
कौसल्या—हा वच्छे मुद्धचन्दमुहि को दाणिं दे शरीरकुसुमस्स झत्ति
देव्वदुव्विलासपरीणामो एकलिभाए णिवडिदो । हा वत्से मुग्धचन्द्रमुखि क
इदानीं ते शरीरकुसुमस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः ।
टोर कमलगर्भपक्ष्मल शिशिरशौचेऽपि तादृश इति शेषः । तं एकदेशम् ।
आतङ्कः पीडा । तस्मिन् भरताचार्ये । आस्था अभिनिवेशः प्रीतिर्वा ।
अभीक्ष्णं दृश्यमानानामिति ध्वनिः । आधमं उद्दिश्येति शेषः । आधमं प्रतीति
वा पाठः । अनुयात्रिकः अनुप्रस्थानदक्षः । भ्राताऽपि शेषि । आर्यपदस्वार-
स्यादाह—जेट्ठ इति । ज्येष्ठ इति गणितं ( भणितं २) भवति । 'ज्येष्ठस्तु मासभे-
देच पूर्वजे च' इति नग्दी । मासभेदे तु ज्येष्ठ एवेति केचित् । तन्न, त्रिण्येष्टमिलन
विरोधात् । अत एव ज्येष्ठो ज्येष्टश्चेति द्विरूपेभिधानात् । मासभेदे ज्येष्ठोऽपीति
नन्दार्जुनो व्याचखारेति दिक् ॥ 'परिपाटिरनुक्रम' इत्यमरः । प्रसवक्रमात्,
'अनुजः पूर्वजो ज्येष्ठस्तनुजो यमलौ यमौ' इति वस्तुनिर्णयः । कथायाः
चरितस्य । प्रबन्धः गु(म्फ)नम् । 'प्रबन्धो गुम्फने ग्रन्थे' इति शब्दमाला ।
पर्यन्तः पूर्तिः ॥ हा वत्से मुग्धचन्द्रमुखि क इदानीं ते कुसुमभूतस्य शरी-
रस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः । 'एकलिआ' इति
१ 'प्रमादच्छेदनार्थम्' न; 'अप्रमादार्थम्' घ. २ 'प्रशस्त-' न. ३ 'क्रियान्' न.
४ 'पौरपवादोद्विग्नेन' य-प.
४-२५] उत्तररामचरितं १०३
जनकः—हा वत्से
नूनं त्वया परिभवं च धैमं च घोरं
तां च व्यथां प्रसवकालकृतामवाप्य ।
क्रव्याद्गणेषु परितः परिवारयत्सु
संत्रस्तया शरणमित्यसकृत्स्मृतोऽस्मि ॥ २३ ॥
लवः—( अरुन्धतीं प्रति ) आर्ये कावेतौ ।
अरुन्धती—इयं कौशल्या । अयं च जनकः ।
लवः—( सबहुमानखेदकौतुकं पश्यति ।)
जनकः—अहो निर्दयता दुरात्मनां पौराणाम् । अहो रामस्य राज्ञः
क्षिप्रकारिता ।
एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पद्यतः
क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा ।
कौसल्या—( सभयकम्पम् ) भयवदि परित्ताहि परित्ताहि । पसादेहि
कुविदं राएसिम् । भगवति परित्रायस्व परित्रायस्व । प्रसादय कुपितं रा-
जर्षिम् ।
लवः—ऐतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम् ।
अरुन्धती—राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः ॥ २५ ॥
देशीयशब्दः । 'एकती' इति महाराष्ट्राः । नूनं त्वया परिभवमिति
॥ २२ ॥ परिभवं परित्यागरूपतिरस्कारम् । क्रव्याद्गणेषु मांसाशनसङ्घेषु ।
भयमुपस्थितम् । कालेति ध्वनिः ॥ २३ ॥ कथाप्रविष्टविति बहुमानः ।
कथं दीनाविति खेदः । देवात्पश्यामीति कौतुकम् । क्षिप्रमिति अविचार्य
क्षिप्रकारित्वेति यावत् ॥ एतद्वैशसवज्रघोरमिति ॥ २४ ॥ वैशसमेव
वज्रं तस्य । घोरपतनं दारुणपातः । 'अपिये द्रोहे त्वपवादे च वैशसम्'
इति सारस्वतः । शश्वत् मुहु । उत्पद्यतः उत्प्रेक्षमाणस्य । विचार-
यत इति यावत् । मम क्रोधस्य चापेन शापेन वा करणेन झटिति
ज्वलितुमवसरः समयः ॥ भगवति परित्रायस्व । प्रसादय कुपितं राज-
र्षिम् ॥ एतद्धि परिभूतानामिति ॥ २५ ॥ एतत् प्रदानमित्यर्थः ।
अपत्यं पुत्रः । यथा दशरथस्य सीता दुहिता तथा तव रामः पुत्र
१ 'भव' ब-घ. २ 'स्मृतोऽहम्' न. ३ 'दुर्मर्यादाना' ब-घ. ४ 'इति-
लव०' क-घ-ज ५ एतदरुन्धतीवाक्यं व-घ-पुस्तके.
१०४ उत्तररामचरितं [ ४–२६
जनकः—शान्तं धा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे
भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः॥ २५ ॥
(प्रविश्य ।) संभ्रान्ता बटवः—कुमार कुमार अश्वोऽश्व इति कोऽपि
भूतविशेषो जनपदेष्वनुश्रूयते सोऽयमधुनाऽस्माभिः प्रत्यक्षीकृतः ।
लवः—अश्व इति पशुसमाम्नाये साङ्ग्रामिके च पठ्यते । तद्ब्रूत कीदृशः।
बटवः—श्रूयताम् ।
पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्रं
दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव ।
शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्नमात्रा-
न्किं वाऽऽरैर्या तैर्व्रजति स पुनर्द्रूरमेहोहि यामः॥ २६॥
( इत्यजिने हस्तयोराकर्षन्ति । )
लवः—( सकौतुकापराधविनयम् । ) आर्याः पश्यत पश्यत । एभिर्नी-
तोऽस्मि । ( इति त्वरितं परिक्रामति । )
अरुन्धतीजनकौ—पैरयतु कौतुकं वत्स ।
कौसल्या—अरष्णगब्भरूवाणवेहिं शुद्दे तोसिदा अह्मे अ। भयवदि
इति भावः । 'कृपणः क्षुद्रः' इत्यमरः ॥ २५ ॥ शान्तं गतमिति यावत् ।
क्षाम्तमिति च पाठः । न दधे न दधामि । यत् यस्मात् । तत् प्रसिद्धम् ।
उभयं सीतारामौ । मे मम । पुत्री च पुत्रश्च पुत्रौ तावेव भाण्डे पुत्रभा-
ण्डम् । 'भाण्डं मूलवनिग्धने' इति रूपितः । वणिजा मूलधनं यथा रक्ष्यते
तथा मया सीतारामौ रक्षणीयौ इति भावः । ननु अपवादप्रवृत्तेषु जनेषु
कोपो युक्त इत्याशङ्कय सोऽपि दयनीय इत्यत्र हेतुमाह—भूयिष्ठेति । भूयि-
ष्ठानि भूयांसि द्विजबालवृद्धविकलस्त्रैणानि यस्मिन् । विकलाः अङ्गहीना-
दयः । 'स्त्रैणं स्त्रीसमूहः' इति नन्दी ॥ २४ ॥ पशुसमाम्नाये पशुविधा-
यकवेदे । साङ्ग्रामिके सङ्ग्रामसंबन्धिाने प्रकरणे इति शेषः । पश्चात्पुच्छं
वहतीति ॥ २६ ॥ धूनोति कम्पयति । शष्पाणि बालतृणानि । आम्र-
मात्रान् आम्रप्रमाणान् । शकृत्पिण्डकान् मलगोलकान् ॥ २६ ॥ अ-
श्वाददर्शने कौतुकम्, सहसागमनप्रसङ्गेनापराधः तत्क्षमापने या सहजो वा
विनयः । एवं सर्वतो यथोचितमूह्यम् ॥ एभिर्नीतोऽस्मीति शिद्रत्कारेण सं-
चमत्कारकथनाद्भवस्य गमने महानभिनिवेश इति बोध्यम् ॥ अरण्यगंभी-
१ 'तत्पुत्र' ख-घ. २ 'प्यारुडानी.' ग. ३ 'महत्कौतुकं वत्सस्य' ग.
४ 'अरण्ण...अह्मे अ' एतन्नास्ति क-च-य-पुस्तकेषु.
४-२६ ] उत्तररामचरितं १०५
जाणामि एदं अत्ताणेअभन्तो वञ्चिदा विअ ता अणग्घदो भविअ पेक्खम्ह
दाव पलाअन्तं दीहाउअं । अरण्यगर्भरूपालापैर्पूर्यं तोषिता वयं च । भगवति
जानाम्येतमनालोकयन्ती वञ्चितेव । तदन्यतो भूत्वा प्रेक्षामहे तावत्पलायमानं
दीर्घायुषम् ।
अरुन्धती—अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते ।
( प्रविश्य । ) कञ्चुकी—भगवान्वाल्मीकिराह ज्ञातव्यमेतदवसरे भव-
द्भिरिति ।
जनकः—अतिगम्भीरमेतत्किमपि। भगवत्यरुन्धति सखि कौसल्ये आये
गृष्टे स्वयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः ।
( इति निष्क्रान्तो वृद्धवर्गः )
( प्रविश्य । ) वटवः—पश्यतु कुमारस्तदाश्चर्यम् ।
लवः—दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः ।
वटवः—कथं ज्ञायते ।
लवः—ननु मूर्खाः पठितमेव हि युष्माभिरपि १तत्काण्डम् । किं न प-
श्यथ प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः, २तत्प्राये-
मेव बलमिदं दृश्यते । यदिह न प्रत्ययस्तद्गत्वा पृच्छत ।
वटवः—भो भोः किंप्रयोजनोऽयमश्वः परिरुतः पर्यटति ।
लवः—( सस्नेहमात्मगतम् । ) अये अश्वमेध इति नाम विश्वविजयिनां
क्षत्रियाणांमूर्जस्वलः सर्वक्षत्रपरिभावी महानुत्कर्ष३निकषः ।
( भैरूपा ? ) लापैर्पूर्यं तोषिताः, वयं च सन्तोषिताः विस्मिताश्च । भगवति
जानामि एतमन्वेक्षमाणा वञ्चितेव तस्मादन्यतो भूत्वा पश्यामस्तावत् पला-
यमानं दीर्घायुषम् । अरण्यगर्भस्य वनमध्यस्य रूपं शोभा येन यस्माद्वा
सोऽरण्यगर्भरूपो लवः । तस्य लापैः ऽङ्किभिरित्यर्थः । 'अमृतं चात-
भाषितम्' इति स्मरणात् । 'रूपमाकृतिसौन्दर्यशोभासु' इति समाशावनेः ।
एतं लवम् । कञ्चुकीति—पूर्वं जनकेन वाल्मीकिं प्रति प्रेषितो यः स ए-
वात्रमिति भेदम् । आह वदति । तदिति लवस्य वृत्तमिति विवेकः । अवसर
एव ज्ञातव्यम्, न त्विदानीमिति भाव । किमपीति क्रमेण विशदीभविष्य-
तीति यावदशेषः । शतं संख्या येषां निषङ्गिणः तूणीधरा । तत्प्राय-
मिति । तेषां कवचिसुखानां प्रायः भूम्ना यस्मिन् तत् तत्प्रायम् । 'प्रायो
-भूम्नि' इत्यमरः । इदं रक्षकसैन्यमिति यावत् । किं प्रयोजनं यस्य किंप्र-
१ 'तत्काण्डे' क-घ-च. २ 'तत्प्रायमेवान्यदपि' च. ३ 'निकर्षः' क-घ-च.
१०६ उत्तररामचरितं [४-२८
(नेपथ्ये ।) योऽयमश्वः पताकेयमथवा वीरघोषणा ।
सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः ॥ २७ ॥
लवः—( सगर्वमिव । ) अहो सन्दीपनान्यक्षराणि ।
बटवः—किमुच्यते । प्राह खलु कुमारः ।
लवः—भो भोः, तत्किमक्षत्रिया पृथिवी यदेवमुद्घोष्यते ।
( नेपथ्ये । ) रे रे महाराजं प्रति कुतः क्षत्रियाः ।
लवः—धिग्जाल्मान् ।
यदि ते सन्ति सन्त्येव केयमद्य विभीषिका ।
किमुत्कैरेभिरधुना तां पताकां हरामि वः ॥ २८ ॥
भो भो बटवः परिवृत्य लोष्टैरभिघ्नन्तो नयतैनमश्वम् । एष रोहितानां
मध्ये वराकश्चरतु ।
( प्रविश्य सक्रोधदर्प ) पुरुषः—धिक्चापलं किमुक्तवानसि । तीक्ष्णतरा ह्या-
युधीयश्रेणयः शिशोरपि दृसां वाचं न सहन्ते । राजपुत्रश्चन्द्रकेतुर्दुर्दाम्तः ।
सोऽप्यपूर्वारण्यदर्शनविक्षिप्तहृदयो न यावदायाति तावत्त्वरितमनेन तरुगह-
नेनापसर्पत ।
बटवः—कुमार कृतमनेनाश्वेन । तर्जयन्ति विस्फुरितशस्त्राः कुमार-
मायुधीयश्रेणयः । दूरे चाश्रमपदमितस्तदेहि हरिणप्लुतैः पलायामहे ।
योजनः । स्पृहा समरेच्छा । ऊर्जस्वलः ऊर्जोतिशयान्वितः । सर्वे
ख्रसादितेरे च ते क्षत्रियाः । निकषः शाण , घर्षणसाधनशिला । 'सहाण'
इति महाराष्ट्राः । योऽयमश्वः पताकेति ॥ २७ ॥ योऽश्वः अयं ।
इयमिति वीरघोषणाया च योज्यम् । 'वीरवादामंटी वीरघोषणा' इति हैमः ।
अधो विद्यमाना सप्तलोकाः ऊर्ध्वं च सप्त लोका इत्येत्य चतुर्दशभुवना-
नीति भाव ॥ २७ ॥ सन्दीपनानि सन्तापकारीणि इति यावत् । 'हीन-
संबोधने तु रे' इत्यमर । 'भयोत्पादनहेतुर्या प्रतिमा सा विभीषिका' इति
केदार । अभिघ्नन्तः पशुसाधारणमिति भाव । रोहितानां मृगविशे-
षाम् । पृष्ठत मध्ये वा । वराकः अधम । पुरुष राक्षससैन्यस्य इति
बोध्यम् । आयुधीयानां शस्त्राजीवानाम् । 'श्रेणिः श्रेणी' इति द्विरूप. ।
१ 'अदन्वश्व' क-घ-च. २ 'सम्बन्धमिव' घ-म. ३ 'नो' न. ४ 'केयमन्त्या'
घ-च. ५ 'विमुक्ते. संनिपत्येव' ग, 'विमुक्ते. शरसम्पातात्' घ. ६ 'नीरमा.'
क-घ-च. ७ 'मायुष' न. ८ 'अविविमर्दन' क-घ-च. ९ 'सोन्द्यपूर्वारण्य०'
घ-घ. १० 'विम्फारितशरासना' न.
४-२९] उत्तररामचरितं १०७
लवः-(विहस्य) किं नाम विस्फुरन्ति शस्त्राणि । (इति धनुराटो-
पयन्।)
ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र-
मुद्गारिघोरघनघर्घरघोषमेतत् ।
ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्र-
जृम्भारिडम्बि विकटोदरमस्तु चापम् ॥ २९॥
(इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे।)
चतुर्थोऽङ्कः ।
'कुद्दण्ड(न्त?)मण्डलीकृतं' इति हेमचन्द्रः । न परापतन्ति नाभिभवन्ते ।
'तरभिगहनं कलिते वने' इति ध्वनिमञ्जरी । द्रुतेः उद्दीनविशेषे शस्त्राणि
आयुधानि । करुणरसातिशयेन विराद्विसंकोचं महत्कविः प्रकरणवशादेव
वीररससमुद्भवमुद्भावयति—ज्याजिह्वया वलयितेति ॥ २९ ॥ ज्यैव जिह्वा
तया वलयिते आवेष्टिते उत्कटे मत्ते कोटी अग्रे एव दंष्ट्रे यस्य । उ-
द्घा(द्भा?)री उद्गयन् घोरः भयङ्करः घनः सान्द्रः घर्घरः घोषः यस्य ।
गम्भीरो घर्घर इति भावः । विकटं कुटिलं दुर्मरमिति यावत् । उदरं अ-
न्तरालं यस्य । एतद् चापम् । 'धन्वकार्मुकचापनि' इति जयः । ग्रासे
जगतकवलने प्रसक्तः तत्परः । हसन् अट्टहास कुर्वन् यः अन्तकः तस्य
वक्त्रमेव यन्त्रं विभीषिकामुखम् तस्य जृम्भा तां विडम्बयतीति विडम्बि ।
'शृम्भास्तु त्रिषु' इत्यमरः । अस्तु । तथा च एतेषामायुधीयानां शस्त्रविस्फारः
मम ईदृशस्य चापस्य पुरतः कियानिति भाव इत्यलमतिविस्तरेण ॥ २९ ॥
इति महाराजपद + उत्तररामचरितसञ्जीवनाख्यटिप्पणे चतुर्थोऽङ्कः समाप्तः ॥
॥ इति चतुर्थोऽङ्कः ॥
१ 'उङ्कारी' न. + प्रथमावृत्तीकारान्ततो दीर्घादृष्ट्वा दशापहृतं निर्देर्हितं तद-
त्राप्यनुकल्प्यम् ।
३०८ उत्तररामचरितं [ ५-२
पञ्चमोऽङ्कः ।
( नेपथ्ये । ) भो भोः सैनिका जातं जातमवलम्बनमस्माकम् ।
नन्वेष त्वरितसुमन्त्रनुद्यमान-
प्रोद्वेल्लत्प्रजवितवाजिना रथेन ।
उत्खातं प्रचलितकोविदारकेतुः
श्रुत्वा नः प्रधनमुपैति चन्द्रकेतुः ॥ १ ॥
( ततः प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसम्भ्रमश्चन्द्रकेतुः
चन्द्रकेतुः —आर्य सुमन्त्र पश्य पश्य ।
किरति कलितकिञ्चित्कोपरज्यन्मुखश्री-
रविरतगुणगुञ्जत्कोटिना कार्मुकेन ।
समरशिरसि चञ्चत्पञ्चचूडश्चमूर्नः
मुपरि शरतुषारं कोऽप्ययं वीरपोतः ॥ २ ॥
अथ कविरिह पञ्चमाङ्के लवचन्द्रकेतुसंवादं वर्णयिष्यन् शाकुन्तलादिकति-
पयाङ्कस्थलबत् कथागाढान्याभावात्प्रवेशादिकमङ्गमन्तरेणैव चतुर्थाङ्कपूर्तिसन्न-
ड्डलयसमारम्भसङ्गतिसमुचितेन तदनुरूप, ‘साक्षात्पात्रप्रवेशो वा नेपथ्याकाश-
भाषितं’ इति रूपकादर्शोक्तन्यायानुसारेण चन्द्रकेतुप्रवेशसूचनमङ्कुरयति—
नेपथ्ये इति । अस्माकमिति अस्मत्सेनाया इति च पाठौ साधीयांसौ ।
अस्मत्सैनिकानामिति भ्रान्तः पाठः । भो भोः सैनिका इति सम्बोधनास-
ङ्गतेः ॥ कथमवलम्बनमित्याशङ्क्याह—नन्वेष त्वरितेति ॥ १ ॥ सुमन्त्रेण
नुद्यमानः प्रेर्यमाणः । प्रोद्वेल्लन् कम्पमानः प्रकर्षेण जविताः सञ्जात-
जवा वाजिनः यस्य । तथा च नुद्यमानस्तन् प्रोद्वेल्लद्वाजी प्रजवितवाजी च
तेन रथेन उपलक्षितः । उत्खाते प्रचलितः तरलितः कोविदार एव
केतुः ध्वजः यस्य । 'उत्खाते विषमे देशे' इति 'कोविद्वारे चमदक' इति
शब्दमालाधन्वन्तरी । सपदि झटिति । 'पाले च युवराजे च कुमार'
इति संसारवर्तः । पूर्वार्धे यमकभङ्ग एकाक्षरप्रासः ॥ १ ॥ सुमन्त्रः सारथि-
र्यस्मिन् ॥ किरति कलितकिञ्चिदिति ॥ २ ॥ कलितः प्राप्तप्रायो
किञ्चित्कोपः अल्पक्रोधः तेन रज्यन्ती मुखश्रीः यस्य । प्रविततः
गुणः मौर्वी यस्य । घण्टाभिर्गुञ्जन्ती शब्दायमाना कोटिः यस्य । प्रवि-
१ 'स्यात्सञ्जातप्रजवन' क-घ-च, 'प्रोल्लसद्' न. २ 'उद्वात' क-घ-च.
३ 'अनवरतनिगुञ्जद्' घ-च, 'प्रवितत' टी.
५-५] उत्तररामचरितं १०९
आश्चर्यमाश्चर्यम् ।
मुनिजनशिशुरेकः सर्वतः सैन्यकाये
नव इव रघुवंशस्याप्रसिद्धः प्ररोहः ।
दलितकरिकपोलग्रन्थिदङ्कारघोरै-
र्ज्वलितशरसहस्रः कौतुकं मे करोति ॥ ३ ॥
सुमन्त्रः—आयुष्मन्
अतिशयितसुरासुरप्रभावं
शिशुमवलोक्य तथैव तुल्यरूपम् ।
कौशिकसुतमखद्विषां प्रमाथे
धृतधनुषं रघुनन्दनं स्मरामि ॥ ४ ॥
चन्द्रकेतुः—सैन्यमेकमुद्दिश्य भूपसामारम्भ इति हृदयमपत्रपते ।
अयं हि शिशुरेकको मदभरेण भूरिस्फुर-
त्करालकरकन्दलीजटिलशस्त्रजालैर्बलैः ।
तद्गुणं च तत् गुणोत्कोटि च । चञ्चन्त्यः चञ्चला पञ्च चूडाः संयत-
केशाः यस्य । 'पञ्चचूडे वटुरिति' इति मुक्तः । शरा एव तुषाराः नी-
हाराः । वीरस्य पोतः अर्भकः । वीरथासो वा । सप्रचोपादित्यत्र उपसर्गो
पादपूरकौ इति केचित् । वृथेत्यन्ये । हन्त क्रोपादिति वा पाठः ॥ २ ॥
मुनिजनशिशुरिति ॥ ३ ॥ प्ररोहः अङ्कुरः । दलिता भेदिताः करिकपो-
लग्रन्थय ये । 'ग्रन्थिर्मर्मनि च' इति हैमः । टङ्कारा घोरा येषु । दलितक-
रिकपोलग्रन्थय एव टङ्कारघोराः सन्तः । ज्वलिताश्च ते शराश्च येषाम्
॥ ३ ॥ अतिशयितसुरासुरेति ॥ ४ ॥ अतिशयितः सुरासुरेभ्यो-
ऽपि प्रभावः यस्य । तथैव रामस्येति भाव । द्विषां मारीचादीनाम् ।
प्रमाथे हिंसने ॥ ४ ॥ अयं हि शिशुरिति ॥ ५ ॥ एककः एक । भूरि
स्फुरन्त्यः वीरक्ष्म्या भूय शोभमानाः करालाः दुर्प्रेक्षाः याः कर-
कन्दल्यः करचपुडानि तेषु जटिलानि निबिडानि शस्त्राणां आयुधानां
जालानि समूहाः येषाम् । 'दुर्दर्शे कराल' इति, 'कदली संपुटे पुटे कन्दः'
इति, 'जटिलो निबिडार्थे' इति हारावलीकपिलशब्दांणवे । किङ्किणीभिः
१ 'सप्रत्नोपाद्' न-टी. २ 'प्रसिद्धप्ररोहः' म. ३ 'घोर' घ. ४ 'द्व-
षेव' घ-घ. ५ 'इममेव०' घ-घ. ६ 'समरभारभूमि०' क-घ-घ. ७ 'क-
न्दित' क-घ-घ.
११० उत्तररामचरितं [ ५-६ ]
क्वणत्कनककिङ्किणीझणझणायितस्यन्दनै-
रमन्दमददुर्दिनद्विरदडामरैरावृतः ॥ ५ ॥
सुमन्त्रः-यत्स एमि. समस्तैरपि किमस्य किं पुनर्व्यस्तैः ।
चन्द्रकेतुः-आर्य त्वर्यतां त्वर्यताम् । अनेन हि महानाधितजनप्रमा-
रोऽस्माकमारब्धः । तथा हि ।
आगर्जद्विरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वरं
ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुत्तम्भयन् ।
वेल्लद्वैरधरण्डमुण्डनिकरैर्वीरो विधत्ते भुवं
तृप्यत्कालकरालवक्त्रविघसब्याकीर्यमाणामिव ॥ ६ ॥
सुमन्त्र -( स्वगतम् । ) कथमीदृशेन सह वत्सस्य चन्द्रकेतोर्द्वन्द्वसंप्र-
हारमनुजानीम । ( विचिन्त्य । ) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम् ।
प्रत्युपस्थिते रणे च का गतिः ।
चन्द्रकेतुः-( सविस्मयत्वरासभ्रमम् । ) हन्त धिक् । अपावृत्तान्येव
सर्वतः सैन्यानि मम ।
क्षुद्रघण्टाभि क्वणघणायिताः स्यन्दनाः रथा येषाम् । अमन्दं महत् ।
मदा एव दुर्दिनं येषां ते च ते द्विरदाः गजा तै डामराणि उद्ध-
तानि । दुर्दिनमिति नित्यधाराक्षरणनात्मकवार्थद्वयाभिप्रायकम् । 'मेघच्छन्नेऽह्नि
दुर्दिनम्' इति, 'उद्धते डामर त्रिषु' इत्यमरविमर्शौ । बलैः सैन्यैः ।
'तुल्यबुद्धौ समभर' इति नन्दी । आवृतः आक्रान्त । सादिनोऽप्येतद-
न्तर्भूता इति भाव । त्रिपुरैरिति ध्वनि ॥ ५ ॥ समस्तैर्मिलितैः । व्यस्तैः
भिन्नै । एमि. यंह । आधितजनाः अनुचरलोका तेषां प्रमादः प्रसर्पेण
मारणम् ॥ आगर्जद्विरीति ॥ ६ ॥ आ समन्तात् । घटासु निस्तीर्णः
अवतीर्ण । कर्णेभ्य. ज्वरः असम्भवत्वप सन्ताप येन । विस्तीर्ण इति
पाठे विशाल इत्यर्थ । आध्मातं पूरितम् । वेल्लिदिति । 'प्रेङ्गद्धारणदण्डानां
अक्यन्ध शिरोषण्डम्' इति समास । तृप्यन् य कालः यम तस्य क-
रालवक्त्रस्य विघसेन । 'करालो दन्तुरे तुङ्गे' इति, 'विघसो भोजनशेषः'
इत्यमरशेषात् ॥ ६ ॥ संप्रहारं युद्ध । केनि रण कर्तव्यमेवेति भावः ।
लवस्य पराक्रमाधिक्याद्विलयत्वरासभ्रमा । अपावृत्तानि परावृत्तानि ।
१ 'वारिदै.' क-घ-च. २ 'प्रमाथ' क-घ-च. ३ 'आगृञ्जन्' घ-घ.
४ 'विस्तीर्ण' ख-घ. ५ 'ज्वरग्दा०' न. ६ 'रण्डं' न. ७ 'भुव' प-य.
८ 'तृप्यत्' न-क.
५-९ ] उत्तररामचरितं १११
सुमन्त्रः—( रथवेगमभिनीय । ) आयुष्मन्, एष ते बाग्विषयीभूतः
स वीरः ।
चन्द्रकेतुः—( निस्सृष्टिमभिनीय । ) आर्य किमस्य नामधेयतारपात-
मोहायकैः ।
सुमन्त्रः—लव इति ।
चन्द्रकेतुः—भो भो लव महाबाहो किमेभिस्तव सैनिकैः ।
एषोऽहमेहि मामेव तेजस्तेजसि शाम्यतु ॥ ७ ॥
सुमन्त्रः—कुमार पश्य पश्य ।
प्रिनिवर्तित एष धीरपोतः
पृतनानिर्भयनादवद्योपहृतः ।
स्तनयित्नुरवादिभारलीना
मवमर्दार्तिच दृप्तसिंहशावः ॥ ८ ॥
( ततः प्रविशति धीरोद्धतपरिक्रमो लवः । )
लवः—साधु राजपुत्र साधु । सत्यमैक्ष्वाकः खल्वसि । तदहं परागत
एवास्मि ।
( नेपथ्ये महान्कलकलः । )
लवः—( सावष्टम्भं परावृत्य । ) आः कथमिदानीं भङ्गेऽपि प्रतिनि-
कृत्य युद्धनिवारिणः पर्यवष्टम्भवन्ति मा चमूपतयः । धिग् जाल्मान् ।
अयं शैलाघातक्षुभितवडवावक्त्रहुतभु
क्प्रचण्डक्रोधार्चिर्निचयरुचलत्वं भजतु मे ।
समन्तादुत्सर्पन्घेनतुमुलहेलोत्कलरुतः
पयोराशेरोघः प्रलयपवनास्फालित इव ॥ ९ ॥
( सवेगं परिक्रामति । )
चन्द्रकेतुः—भो भो कुमार ।
वागिति-सत्त्वेति सप्तापाय सन्दिष्ट इत्यर्थः । इतिकार आप्रा(प्तो?)पृक्त इति
विद्वान्दौ ॥ पिनिवर्तित एष इति ॥ ८ ॥ पृतना सेना । स्तनयित्नुः
मेघः । अवमर्दः मर्दनम् । शावः शिशुः ॥ ८ ॥ परागतः प्रतिनिरा-
गत इति यावत् । 'अवष्टम्भो गर्वः' इति रत्नमाला । परितः स्थिरीभवन्तीति
यावत् । मामुद्दिश्य । 'जाल्मोऽसमीक्ष्यकारी' इत्यमरः । अयं शैलाघात इति
॥ ९॥ आघातः आपतनम् । तेन क्षुभिता या वडवा, 'अश्वा वडवा'इत्य-
१ 'भारवापकैः' व-घ. २ 'न्यदवउंत' व-प. ३ 'वल' व-घ. ४ 'सेना' क-द.
११२ उत्तररामचरितं [५-१२]
अत्यद्भुतादसि गुणातिशयात्प्रियो मे
तस्मात्सखा त्वमसि यन्मम तत्तवैव ।
तत्किं निजे परिजने कदनं करोषि
नन्वेष दर्पनिकषस्तव चन्द्रकेतुः ॥ १० ॥
लवः—(सहर्षसंभ्रमं परावृत्य ।) अहो महानुभावस्य प्रसन्नकर्कशा
वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य । तत्किमेभिरेवमेव सावष्टम्भाव-
यामि । (पुनर्नेपथ्ये कलकलः ।)
लवः—(सक्रोधनिर्वेदम् ।) आः कदर्यितोऽहमेभिर्गौरसंवादविघ्नका-
रिभिः पापैः । (तदभिमुखं परिक्रामति ।)
चन्द्रकेतुः—आर्य आर्य दृश्यतां द्रष्टव्यमेतत् ।
दर्पेण कौतुकवता मयि बद्धलक्ष्यः
पश्चाद्वलेऽनुसृतोऽयमुदीर्णधन्वा ।
द्वेधा समुद्धतमरुत्तरलस्य धत्ते
मेघस्य माधवतचापधरस्य लक्ष्मीम् ॥ ११ ॥
सुमन्त्रः—कुमार एवेनं द्रष्टुमपि जानाति । वयं तु केवलं परवन्तो वि-
स्मयेन ।
चन्द्रकेतुः—भो भो राजानः ।
संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता-
वद्यैकस्मिन्कवचनिचितैर्मध्येचर्मोत्तरीये ।
कालज्येष्ठैरभिनवयवयःकाम्यकाये भवद्भि-
र्योऽयं बद्धो युधि समभरेस्तेन धिग्वो धिगस्मान् ॥ १२ ॥
लवः—(सोत्प्रासम् ।) आः कथमन्वुकम्पते नाम । (विचिन्त्य ।)
भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि ।
(इति ध्यानं नाटयति ।)
मर । निचयः समूह । 'अतुलं (तुमुलं?) रणसङ्कुले' इति, 'हेला विलास',
इति, 'ओघ प्रवाहजवयो' इति चामरः । आस्फालितः उद्धृतः ॥ ९ ॥
अत्यद्भुतादसीति ॥ १० ॥ कदनं व्यापादनम् ॥ १० ॥ कदर्यित व्यर्थी-
कृत इति यावत् ॥ दर्पेण कौतुकवतेति ॥ ११ ॥ उदीर्णं उद्धृतम् ।
माधवतं ऐन्द्रम् । लक्ष्मीं शोभाम् ॥ ११ ॥ परवन्तः पराधीनाः ।
संख्यातीतैरिति ॥ १२ ॥ 'पदाती पदातयः' इत्यमरः । तत्र तस्मिन्
छवे । निचितैः । 'बालो वत्सरडेऽपि' इति केशवः । अपरं बाल्यं । हेत्व-
१ 'नद' ग. २ 'अपरवयसि ख्यातिरामैः' न. ३ 'परिकर' इति क-घ-च.
९-१४ ] उत्तररामचरितं ११३
सुमन्त्रः—एतस्मिन्कस्मादुभयसैन्ययोधः प्रशाम्यति ।
लवः—पश्याभ्येनमधुना प्रगल्भम् ।
सुमन्त्रः—( ससंभ्रमम् । ) वत्स मन्ये कुमारकेणानेन जृम्भकास्त्रमाम-
न्त्रितमिति ।
चन्द्रकेतुः—अत्र कः सन्देहः ।
व्यतिकर इव भीमस्तामसो वैद्युतश्च
प्रणिहितमपि चक्षुर्व्रस्तमुक्तं हिनस्ति ।
अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते
नियतमजितवीर्यै जृम्भते जृम्भकास्त्रम् ॥ १३ ॥
आश्चर्यमाश्चर्यम् ।
पातालोदरकुञ्जपुञ्जिततमःश्यामैर्नभो जृम्भकै-
रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः ।
कल्पाक्षेपकठोरभैरवमरुद्व्यस्तैरवस्तीर्यते
मीलन्मेघतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ १४ ॥
सुमन्त्रः—कुतः पुनरस्य जृम्भकास्त्राणामागमः स्यात् ।
चन्द्रकेतुः—भगवतः प्राचेतसादिति मन्यामहे ।
सुमन्त्रः—तात नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः ।
सम (भ ?)रेण तुल्यबुद्धा ॥ १२ ॥ उन्मादः चित्तविभ्रमः । कालहरणं
विलम्बः । तस्य प्रतिषेधः निषेधः । अकस्मात् अहेतोः । सहसा वा ।
एनं चन्द्रकेतुम् । परिहामोचितिमम् । तदेव स्पष्टयति—व्यतिकर इव
भीम इति ॥ १३ ॥ भीमः घोरः तमसोऽयं तामसः । विद्युत अयं
वैद्युतः । व्यतिकरः सवन्धः । प्रणिहितं प्रणिधानगतं विमर्शकानिष्ठमपीति
यावत् । चक्षुः कर्म । ग्रस्तमुक्तं तामसो व्यतिकरः ग्रस्तं सत् खने(?)मुक्त-
मत्र शेषः । वैद्युतः मुक्तं सत् हिनस्ति चेति बोध्यम् । अस्पन्दं निश्चलम् ।
आस्ते तस्मादिति शेषः ॥ १३ ॥ पातालोदरेति ॥ १४ ॥ पातालोदरे
श्यामतातिशयद्योतकम् । जृम्भकैः जृम्भकास्त्रैः । पूजाया बहुत्वम् । 'रीतिः
स्त्रियामारकूटं' इति, 'कडारः कपिशः' इति चामरः । आरकूटं 'पित्तल' इति
महाराष्ट्राः । ज्योतिर्वत् ज्वलन्ती दीप्तिः येषां तानि । कल्पः प्रलयः
तस्य आक्षेपे आग्रेहे । दारुणमरुता व्यस्तैः भिन्नैः । तडिद्भिः कडा-
राणि कुहराणि बिलानि येषां ते । कूटैः शिखरैरिव । अवस्तीर्यते
१ 'मनेन' क. २ 'अभिनस्तीर्यते' ग; 'अवास्तीर्यते' घ.
११४ उत्तररामचरितं [ ५-१६
कृशाश्वतनया होते कृशाश्वात्कौशिकं गताः ।
अथ तत्संप्रदायेन रामभद्रे स्थिता अपि ॥ १५ ॥
चन्द्रकेतुः—अपरेऽपि प्रैक्ष्यमानसत्त्वप्रकाशाः स्वयं सर्वं मन्त्रदृशः प-
श्यन्ति ।
सुमन्त्रः—वत्स सावधानो भव । परागतस्ते प्रतिवीरः ।
कुमारौ—( अन्योन्यं प्रति । ) अहो प्रियदर्शनः कुमारः । ( सस्नेहा-
नुरागं निर्वर्ण्य । )
यदृच्छासंवादः किमु किमु गुणानामतिशयः
पुराणो वा जन्मान्तरनिबिडवैद्धः परिचयः ।
निजो वा सम्बन्धः किमु विधिवशात्कोऽप्यविदितो
ममैतस्मिन्दृष्टे हृदयमवधानं रचयति ॥ १६ ॥
सुमन्त्रः—भूयसा जीविधर्म एष यद्रसमयी कस्यचित्क्वचित्प्रीतिः, यत्र
लौकिकानामुपचारस्तारामैत्रकं चक्षूराग इति । तमप्रतिसंख्येयमनिबन्धनं
प्रेमाणमाममनन्ति ।
आसीर्यते ॥ १४ ॥ आगमः प्राप्तिः । एते जृम्भकादयोऽप्यविशेषाः ॥
कृशाश्वतनया इति ॥ १५ ॥ कृशाश्वस्य ऋषेः । तस्मात् कौशिकात् ।
संप्रदायेन शिष्यक्रमेण । एकपदमेतत् ॥ १५ ॥ परं भृशम् । उपेति वर्ध-
मानव्याख्यार्थे(२) 'प्रकाशोऽतिप्रसिद्धेऽपि' इत्यमरः । 'ऋषिर्योगी च मन्त्रदृक्'
इति लिङ्गानुशासनम् । स्वयं सर्वे पश्यन्ति । एतेन कृशाश्वकौशिकादिवत्
प्रायेणसादोनामपि अस्त्रप्रवर्तरूपप्रकृतिकरण भवतीत्यवधेयम् । ते तुभ्यम् ।
कुमारौ लवचन्द्रकेतू ॥ यदृच्छासंवाद इति ॥ १६ ॥ यदृच्छया स्वैरम्
संवादः संलाप किमु । निजः नित्य परिचयो वेति पूर्वेण योज्यम् । अवि-
दितः सबन्ध किमु । कुत एवमत आह—ममेति । अवधानं अनन्यरति-
त्वम्, कर्म । हृदयं परवशीभवतीति भावः ॥ १६ ॥ 'द्वये रसः' इत्यमरः ।
प्रीतिरिति यत् एष धर्म इत्यन्वय । यत्र प्रीतिविषये । लौकिकानां वेदि-
कमार्गानभिज्ञानाम् । उपचारः आदरमात्रमित्यर्थ ॥ अथ वैदिकमर्थ विश्रृ-
णोति—तारेति । तारेव तारा । 'तारकाक्ष्ण कनीनिका' इति 'मैत्रं मैत्री
च सख्यं च' इत्यमररत्नकारौ । चक्षुषोः रागः । न राग उभयत्र दर्शनं
लक्ष्यते । तत् प्रसिद्धम् । अप्रतिसन्धेयं अवचनीयम् । निबन्धनं शास्त्रम् ।
१ 'भृशाश्व' न. २ 'परमोपचीदमान' घ-य. ३ '०गत प्रवीर 'क-घ-य.
४ 'किमु गुणगणानाम्' न ५ 'बन्ध' घ-घ. ६ 'भूयसा जीवितानामेष धर्मे एष
यत्र सरसमयी' ग. ७ 'स्वाहारः' य. ८ 'तदमतिसंख्येयनिबन्धन प्रमाणम्' न
५-२० ] उत्तररामचरितं ११५
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥ १७ ॥
कुमारौ—( अन्योन्यमुरिक्ष । )
एतस्मिन्मसृणितराजपट्टकान्ते -
मोक्तव्याः कथमिव सायकाः शरीरे ।
यत्प्राप्तौ मम परिरम्भणामिलाषा-
दुन्मीलत्पुलककदम्बमङ्कमास्ते ॥ १८ ॥
किं त्वाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना
शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येदृशः ।
किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे
वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥ १९ ॥
सुमन्त्रः—( लवं निर्वर्ण्य साश्रगात्मगतम् । ) हृदय किमन्यथा परि-
प्लवसे ।
मनोरथस्य यद्वीजं तद्देवेनाडितो हतम् ।
लतायां पूर्वलूनायां प्रसवस्योद्भवः कुतः ॥ २० ॥
चन्द्रकेतुः—अवतराम्यार्य सुमन्त्र स्यन्दनात् ।
प्रमाणमामनन्ति । वैदिका इति शेषः । 'प्रतिसन्धानमि(म?)निबन्धनं द्वे
बन्धनार्थके' इति रद्रः ॥ अहेतुः पक्षपात इति ॥ १७ ॥ पक्षपातः
ममता । मैथिलीपक्षपातेनेत्यक्षरसारूपादात्तधर्मा । प्रतिक्रिया आक्षेपः स
पक्षपात प्रेमस्वरूपम् । सूत्रं कर्तृ । भूतानि प्राणि कर्म । अन्तः आत्मनि
सीव्यति स्प्यूतान् करोतीत्यर्थ ॥ १७ ॥ एतस्मिन्मसृणितेति ॥ १८ ॥
मसृणितं च तत् राजपट्टाय साम्राज्यीय कान्तं मनोशं तस्मिन् । यस्य
शरीरम्ब । प्राप्तौ सङ्गे । उन्मीलत्पुलकानां कदम्ब्यं समूह यस्मिन् ।
उन्मीलन्ति पुलका एव कदम्बानि नीपपुष्पाणि यस्मिन्निति वा । 'अङ्गं वपु-
र्व्यवयवे' इति रत्नाकरः ॥ १८ ॥ ननु यथेच्छमालिङ्गयता, नास्तु शस्त्रयुद्धम्,
अस्तु वा बाहुयुद्धम्, इत्याशङ्क्याह किन्त्वाक्रान्तेति ॥ १९ ॥ किन्तु
आक्रान्ताः अभिभूता कठोरतेजसः शूराः येन तस्मिन् लव इति यावत् ।
यस्य शक्षस यस्य मनेति या शेष । ईदृश इति षष्ठीप्रथमैकवचनम् । 'सुडे-
तशपथाचारसिद्धान्ता समया' इति धनञ्जयः ॥ १९ ॥ परिप्लवसे चञ्चति ॥
मनोरथस्य यदिति ॥ २० ॥ बीजं सीतेत्यर्थ । प्रसवः फलादिः ॥ २० ॥
१ 'अन्तर्भूतानि' क-घ-च. २ 'परिरम्भणे' घ-घ-च. ३ 'हतम्' घ.
४ 'प्रसूनस्यागम.' ब-घ.
११६ उत्तररामचरितं [ ५-२४ ]
सुमन्त्र —तत्कस्य हेतोः ।
चन्द्रकेतु —एकेतस्तावदय वीरपुरुष पूजितो भवति । अपि च स्व-
त्वार्थं क्षात्रधर्मं समनुगतो भवति । न रथिनः पादचारमभियुञ्जन्तीति
शास्त्रविदः परिभाषन्ते ।
सुमन्त्र —( स्वगतम् । ) आः कष्टा दशामनुप्रपन्नोऽस्मि ।
कथं न्याय्यमनुष्ठानं मादृशः प्रतिषेधतु ।
कथं वाभ्यनुजानातु साहसरैकरसां क्रियाम् ॥ २१ ॥
चन्द्रकेतु —यदा तातमिश्रा अपि पितुः प्रियसखधर्मसंशयेष्वार्यमेव
पृच्छन्ति तत्किमार्यो विमृशति ।
सुमन्त्र —आयुष्मन्, एव यथार्थमभिमन्यसे ।
एष साङ्ग्रामिको न्याय एष धर्मः सनातनः ।
इयं हि रघुसिंहानां वीरचारित्रपद्धतिः ॥ २२ ॥
चन्द्रकेतु —अप्रनिरूपं वचनमार्यस्य ।
इतिहास पुराणं च धर्मप्रवचनानि च ।
भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥ २३ ॥
सुमन्त्र —( सस्नेहास्रं परिष्वज्य )
जातस्य ते पितुरपीन्द्रजितो निहन्तु-
र्धैत्सस्य वत्स कति नाम दिनान्यमूनि ।
तस्याप्यपत्यमनुतिष्ठति वीरधर्मं
दिष्ट्या गतं दशरथस्य कुलं प्रतिष्ठाम् ॥ २४ ॥
पादाभ्यां चारः संचारो यस्य ॥ कथ हीदमनुष्ठानमिति ॥ २१ ॥
अनुष्ठानं आचरणम् । मादृशः अनभिज्ञः इति यावत् । प्रवीते समानयु-
द्धस्य न्याय्यत्वादिति भावः । रणमुखे यानादवतरणमेव साहसमिति भावः ।
अनुष्ठान क्रियामिति च ध्वनी । अत्र द्विारावजागलस्तनी ॥ २१ ॥ मिश्रा
इत्यत्र पादा इति च पाठः । रामादयः इत्यर्थः । पितुः दशरथस्य । विमृ-
शति विचारयति । अनुरूध्यसे अनुवर्तसे ॥ एष साङ्ग्रामिक इति
॥ २२ ॥ सनातनः नित्यः । 'चरितमपि चारित्रम्' इति द्विरूपः ॥ २२ ॥
अप्रतिरूपं असमानम् ॥ इतिहास पुराणमिति ॥ २३ ॥ इतिहास
पुरातनम् ॥ २३ ॥ जातस्य ते पितुरिति ॥ २४ ॥ तस्य लक्ष्मणस्य ।
१ 'एकस्तावद्' ग, 'यतस्तावद्' घ-च २ 'परिभाषित' न; 'सम्यगनुगतः'
घ; 'अनुगृहीत' प ३ 'कथ हीद' न ४ 'प्रतिरूप' घ-प ५ 'विजेतुः'
घ-च ६ 'कुल' प-प
५-२६ ] उत्तररामचरितं ११७
चन्द्रकेतुः—( सरथम् )
अप्रतिष्ठे रघून्ज्येष्ठे का प्रतिष्ठा कुलस्य नः ।
इति दुःखेन तप्यन्ते अद्यो नः पितरोऽपरे ॥ २५ ॥
सुमन्त्रः—अहह हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि ।
लवः—हन्त मिश्रीकृतो रसक्रमो वर्तते ।
यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी
तथैवास्मिन्दृष्टिर्मम कलहकामः पुनरयम् ।
रणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु-
र्धृतप्रेमा बाहुर्विकचविकरालोल्बणरसः ॥ २६ ॥
चन्द्रकेतुः—(अवतरणं रूपयन् ।) आर्य सौमित्रिश्चन्द्रकेतुरभिवादयते ।
सुमन्त्रः—अहितस्यैव पराजयाय महानादिवराहः कल्पताम् ।
अपि च ।
अपत्यं चन्द्रकेतु । प्रतिष्ठां कीर्त्तिम् । गतमिति ध्वनि ॥ २४ ॥ अप्रतिष्ठे
कुलज्येष्ठे इति ॥ २५ ॥ रघवः दशरथाय ज्येष्ठा यस्य । 'ज्येष्ठोऽतिशय.'
इत्यमर । रघुभ्य भरतलक्ष्मणशत्रुघ्नेभ्य इति वाऽर्थ । रघूश्रेष्ठे इति च पाठ ।
अप्रतिष्ठे अपवादिनि भावि । तुर्यपादे ध्वनि ॥ २५ ॥ रसयो शान्त-
वीरयो । क्रमो रीति । शान्तिं वर्णयति-यथेन्दावानन्दमिति ॥ २६ ॥
समुपोढे उदिते । अस्मिन् चन्द्रकेतौ । वीररस वर्णयति-कलहकाम
इति । अयमसौ । रणत्कारः शब्दानुकार । तेन क्रूरं क्वणितं शब्द यस्य
तादृग्गुण मौर्वी यस्य घण्टामाघनेन गुञ्जद् गुरु बलिष्ठु यत् धनुः गुणं च
तदनु । तस्मिन् धृतप्रेमा । विकचाः स्फुटा विकरालाः विशेषेण भय-
ङ्करा व्रणाः व्याघातसमयी मुखे तले यस्य । 'मार्गगभ्यस्तयो सन्धिरि-
शेयतलयोर्मुखम्' इति त्रिकाण्डशासनम् । बाहु स्फुरतीति शेष ॥ २६ ॥
अहितस्य शत्रो एवकारेण लवो व्यावत्र्त्यते । तस्याहितत्वाभावादिति दैव-
विज्ञं बोध्यम् । पराजयं भङ्गम् । महान् पूज्य । आदिवराहः वराहा-
वतारो विष्णु ॥ 'दाशमर्काविट्ठयं शकारसत्यं रामाहुरोमेतिम् । पराजयमनि-
१ 'कुलज्येष्ठे' क-घ-न. २ 'मिश्रीकृतक्रमो रसो' न, 'रम.' घ. ३ 'विक-
रालव्रणमुख.' न-टी. ४ 'रैश्यारु' न. ५ अस्य स्थाने 'अमिस पूज्यमूर्द्धन्वि
ककुत्स्थस्येव ते महः । श्रेयसे शाश्वतो देवो वराह. परिकल्पताम्' ॥ २७ ॥ इति
क-घ-च-पुस्तकेषु.
११८ उत्तररामचरितं [ ५-२७
देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पिता
त्वां मैत्रावरुणोऽभिनन्दतु गुरुर्यस्ते गुरूणामपि ।
ऐन्द्रावैष्णवमाग्निमारुतमथो सौपर्णमोजोऽस्तु ते
देयादेव च रामलक्ष्मणधनुर्ज्याघोषमन्त्रो जयम् ॥ २७ ॥
लवः—कुमार अति हि नाम शोभसे रथस्थ एव । कृतं कृतमत्या-
दरेण ।
चन्द्रकेतुः—तर्हि महाभागोऽप्यन्यं रथमलङ्करोतु ।
लवः—आर्य प्रत्यारोपय रथोपरि राजपुत्रम् ।
सुमन्त्रः—त्वमप्यनुरुध्यस्व चन्द्रकेतोर्वचनम् ।
लवः—को विचारः स्वेषूपकरणेषु । किं त्वरण्यसदो वयमनभ्यस्तरथ-
चर्याः ।
सुमन्त्रः—जानासि वत्स दर्पसौजन्ययोर्यथोचितमाचरितुम् । यदि पुन-
स्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदा तस्य स्नेहेन हृदयमभिष्य-
न्देत ।
लवः—आर्य सुजनः स राजर्षिः श्रूयते । ( सलज्जमिव । )
त्राणा प्रार्थ्यदादिकाळत ॥' इति स्मरणात् ॥ देवस्त्वां सवितेति ॥ २७ ॥
धिनोति प्रीणयतीति माठरः । मैत्रावरुणः वसिष्ठ । ते तव गुरूणां
पित्रादीनाम् । गुरुः पुरोहित । 'अथागस्त्यवसिष्ठयोमैत्रावरुणिमैत्रावरुणः'
इति वैजयन्ती । 'मङ्गलेष्वथो अथ' इति धरणि । इन्द्राविष्णोरिदं ऐन्द्रावै-
ष्णवम् । अग्निमरुतोरिदं आग्निमारुतम् । सुपर्णस्येदं सौपर्णम् । ओजः
तेज । ते तुभ्यम् । अस्तु । इन्द्राविष्णू इत्यादिश्रुतिसिद्धा । ज्याघोष एव
मन्त्रः । जयं च देयादेव । रामलक्ष्मणेत्यनेन लवचन्द्रकेत्वोरुभयोरपि जय
इत्यर्थात् सिद्धम् । अत्र त्वामिति एन(१)ते चैकं पुनरुक्तम् ॥ २७ ॥ अतिशो-
भसे इति वक्तव्यमिति पृथक्कथनं प्रमाद इति कश्चित् । तन्न । 'अत्यन्तमति
चैकान्तमशर्थम्' इति शब्दमालायां सात्तण्डेनाभिधानादतीति पृथक्
प्रयोगो युज्यते । द्विगर उच्चारणव्रीडेर । नाम प्रसिद्धौ । रथमलमिति
ध्वनिः । उपकरणेषु रथादिषु । 'साधनमुपकरणं सामग्री च परिच्छदः' इति
रत्नाकर । अरण्ये सीदन्तीति अरण्यसदः । चर्या पदस्थिति । अनुपदे
वयमपीत्यात्मनैवात्मा स्तूयत इति सङ्कोचवशात् सलज्जमियेत्युक्तम् ॥ यदि
१ 'पतिः' न. २ 'ऐन्द्र वैष्णवम्' ग-घ. ३ 'यथाचरितम्' न.
वयमपि न खल्वेवं प्रायाः ऋतुप्रैतिघातिनः
क इह न गुणैस्तं राजानं जनो बहु मन्यते ।
तदपि खलु मे स व्याहारस्तुरङ्गमस्रक्षिणां
विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाकरोत् ॥ २८ ॥
चन्द्रकेतुः-( सस्मितम् ) किं नु भवतस्तातपादोत्कर्षेप्यमर्षः ।
लवः-अस्त्विहामर्षो मा भूद्वा । एतत्तु पृच्छामि । दान्तं हि राजानं
राघवं शृणुमः । स किल नात्मना दृप्यति नास्य प्रजा वा दृप्ता जायन्ते ।
तत्किं मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति ।
ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः ।
सा योनिः सर्ववैराणां सा हि लोकस्य निर्ऋतिः ॥ २९ ॥
इति ह स्म तां निन्दन्ति । अथेतररामिष्टुवन्ति ।
कामं दुग्धे विप्रकर्षत्यलक्ष्मीं
कीर्तिं सूते दुष्कृतं या हिनस्ति ।
तां चाप्येतां मातरं मङ्गलानां
धेनुं धीराः सूनृतां वाचमाहुः ॥ ३० ॥
च वयमपीति ॥ २८ ॥ वयमपि न खल्वेवमिति काकुः । एवं सुजना
एवेत्यर्थः । किं तम् इत्याह-शाम इति । प्रायः बहुधा । ऋतुद्विषतां असुर-
राक्षसानाम् । अरिं हन्तारम् । तदपि तथापि । 'सप्तलोकरैकवीरस्य' इति
तुरङ्गरक्षिणा व्याहारः उक्तिः । मे विकृतिं विकारम् । अकरोत् खलु
॥ २८ ॥ 'दमं क्लेशसहो दान्तः' इत्यमरः । 'दमशीलो बाह्यः इन्द्रियनिग्रहः'
इति भगवान् बोधायनः । अन अस्वरक्षशेगायाम् । तस्य राज्ञस्य मनु-
ष्याः ॥ ऋषयो राक्षसीमेति ॥ २९ ॥ सा वाक् योनिः कारणम् ।
लोकस्य बहुर्जनस्य । 'अलक्ष्मीस्तु निर्ऋतिः' इत्यमरः ॥ २९ ॥ इति ह स्म
इति कथनार्थः सम्प्रदायः । 'तु हि च स्म ह वै पूर्ती' इति केशवः । अत एव
'शारमहं ददर्श ह' इति प्राचेतसः ॥ कामं दुग्धे इति ॥ ३० ॥ कामं
मनोरथम् । दुग्धे दोग्धि विप्रकर्षति दूरयति । निष्कृदन्ति (१) निस्कृप
इति । सूनृतां प्रिताम् वाचं धेनुं कामधेनुम् । आहुः वदन्ति ॥ ३० ॥
-१ 'यदि च वयमप्येवं' न. २ 'ऋतुद्विषतामरी' न, 'ऋतुभति मत्सराः' घ.
३ 'निष्कृति.' न. ४ 'रामागदुग्धे' क-घ-व. ५ 'दुर्हदो निष्प्रदान्ति' न.
६ 'शुद्धो शान्ता' ग.
१२० उत्तररामचरितं [ ५-३३
सुमन्त्रः—परिपूतस्वभावोऽयं यत कुमारः प्राचेतसान्तेवासी । यद्यत्-
थैमभिसंपन्नमार्षेण संस्कारेण ।
लवः—यत्पुनश्चन्द्रकेतो वदसि किं नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्ष
इति तत्पृच्छामि किं व्यवस्थितविषयः क्षत्रधर्म इति ।
सुमन्त्र.—नैव खलु जानासि देवमैक्ष्वाकं येनैवं वदसि । तद्विरमाति-
प्रसङ्गात् ।
सैनिकानां प्रमाथेन सत्यमोजायितं त्वया ।
जामदग्न्यस्य दमने नै हि निर्बन्धमर्हसि ॥ ३१ ॥
लवः—( सहासम् । ) आर्य जामदग्न्यस्य दमन स राजेति कोऽयमु-
च्चैर्वादः ।
सिद्धं ह्येतद्वाचि वीर्ये द्विजानां
बाहोर्वीर्यं यत्तु तत्क्षत्रियाणाम् ।
शस्त्रग्राही ब्राह्मणो जामदग्न्य-
स्तस्मिन्दांते का स्तुतिस्तस्य राज्ञः ॥ ३२ ॥
चन्द्रकेतुः—( सोन्मादमिव । ) आर्य सुमन्त्र कृतमुत्तरोत्तरेण ।
कोऽप्येष संप्रति नवः पुरुषावतारो
धीरो न यस्य भगवान्भृगुनन्दनोऽपि ।
पर्याप्तसप्तभुवनाभयदक्षिणानि
पुण्यानि तातचरितान्यपि यो न वेद ॥ ३३ ॥
लवः—को हि रघुपतेश्चरितं महिमानं च न जानाति । यदि नाम किं-
चिदस्ति वक्तव्यम् । अथवा शान्तम् ।
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु किं वर्ण्यते
सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते ।
अभिसंपन्नं सुसत्कृतं यथा तथा । संस्कारेण संप्रदायेन । व्यनिथ । इति
यद्वदसि ॥ सैनिकानां प्रमाथेनेति ॥ ३१ ॥ दमने निग्रहीतारे रामभद्रे तु
विषये निर्बन्धं कर्तुम् ॥३१॥ सिद्धं ह्येतदिति ॥३२॥ 'वीर्ये बले प्रभावे च'
इत्यमरः । ध्वनिश्च ॥ ३२ ॥ उन्मादः चित्तविभ्रमः । कोऽप्येष संप्रतीति
॥ ३३ ॥ यस्य स्वस्य भृगुनन्दनोऽपि धीरो न । पर्याप्तं यथेप्सितं
सप्तभुवनेभ्य अभयदक्षिणा येभ्यः । पुण्यानि पूतानि रम्याणि च
तातः राम तस्य चरितानि । यः रव. ॥ ३३ ॥ यदिः संभावनायाम् ॥
वृद्धास्ते इति ॥ ३४ ॥ ते रामपादा वन्द्या इत्यर्थ । तर्के । वर्तते चरित-
१ 'परिपूतोऽय' न २ 'अभ्युपपन्नामार्षेण' न; 'अभ्युपपन्नम्' क ३ नातिनिर्वैक्त-
मर्हसि'प-घ. ४ 'श्राप्य ' घ. ५ 'दु वर्तते' न. ६ 'दमनेऽप्यखण्डयशस.' घ-प.