सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 127, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 127

३०८ उत्तररामचरितं [ ५-२
पञ्चमोऽङ्कः ।
( नेपथ्ये । ) भो भोः सैनिका जातं जातमवलम्बनमस्माकम् ।
नन्वेष त्वरितसुमन्त्रनुद्यमान-
प्रोद्वेल्लत्प्रजवितवाजिना रथेन ।
उत्खातं प्रचलितकोविदारकेतुः
श्रुत्वा नः प्रधनमुपैति चन्द्रकेतुः ॥ १ ॥
( ततः प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसम्भ्रमश्चन्द्रकेतुः
चन्द्रकेतुः —आर्य सुमन्त्र पश्य पश्य ।
किरति कलितकिञ्चित्कोपरज्यन्मुखश्री-
रविरतगुणगुञ्जत्कोटिना कार्मुकेन ।
समरशिरसि चञ्चत्पञ्चचूडश्चमूर्नः
मुपरि शरतुषारं कोऽप्ययं वीरपोतः ॥ २ ॥
अथ कविरिह पञ्चमाङ्के लवचन्द्रकेतुसंवादं वर्णयिष्यन् शाकुन्तलादिकति-
पयाङ्कस्थलबत् कथागाढान्याभावात्प्रवेशादिकमङ्गमन्तरेणैव चतुर्थाङ्कपूर्तिसन्न-
ड्डलयसमारम्भसङ्गतिसमुचितेन तदनुरूप, ‘साक्षात्पात्रप्रवेशो वा नेपथ्याकाश-
भाषितं’ इति रूपकादर्शोक्तन्यायानुसारेण चन्द्रकेतुप्रवेशसूचनमङ्कुरयति—
नेपथ्ये इति । अस्माकमिति अस्मत्सेनाया इति च पाठौ साधीयांसौ ।
अस्मत्सैनिकानामिति भ्रान्तः पाठः । भो भोः सैनिका इति सम्बोधनास-
ङ्गतेः ॥ कथमवलम्बनमित्याशङ्क्याह—नन्वेष त्वरितेति ॥ १ ॥ सुमन्त्रेण
नुद्यमानः प्रेर्यमाणः । प्रोद्वेल्लन् कम्पमानः प्रकर्षेण जविताः सञ्जात-
जवा वाजिनः यस्य । तथा च नुद्यमानस्तन् प्रोद्वेल्लद्वाजी प्रजवितवाजी च
तेन रथेन उपलक्षितः । उत्खाते प्रचलितः तरलितः कोविदार एव
केतुः ध्वजः यस्य । 'उत्खाते विषमे देशे' इति 'कोविद्वारे चमदक' इति
शब्दमालाधन्वन्तरी । सपदि झटिति । 'पाले च युवराजे च कुमार'
इति संसारवर्तः । पूर्वार्धे यमकभङ्ग एकाक्षरप्रासः ॥ १ ॥ सुमन्त्रः सारथि-
र्यस्मिन् ॥ किरति कलितकिञ्चिदिति ॥ २ ॥ कलितः प्राप्तप्रायो
किञ्चित्कोपः अल्पक्रोधः तेन रज्यन्ती मुखश्रीः यस्य । प्रविततः
गुणः मौर्वी यस्य । घण्टाभिर्गुञ्जन्ती शब्दायमाना कोटिः यस्य । प्रवि-
१ 'स्यात्सञ्जातप्रजवन' क-घ-च, 'प्रोल्लसद्' न. २ 'उद्वात' क-घ-च.
३ 'अनवरतनिगुञ्जद्' घ-च, 'प्रवितत' टी.