उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 128, कुल 439 में से
संदर्भ में पढ़ें५-५] उत्तररामचरितं १०९
आश्चर्यमाश्चर्यम् ।
मुनिजनशिशुरेकः सर्वतः सैन्यकाये
नव इव रघुवंशस्याप्रसिद्धः प्ररोहः ।
दलितकरिकपोलग्रन्थिदङ्कारघोरै-
र्ज्वलितशरसहस्रः कौतुकं मे करोति ॥ ३ ॥
सुमन्त्रः—आयुष्मन्
अतिशयितसुरासुरप्रभावं
शिशुमवलोक्य तथैव तुल्यरूपम् ।
कौशिकसुतमखद्विषां प्रमाथे
धृतधनुषं रघुनन्दनं स्मरामि ॥ ४ ॥
चन्द्रकेतुः—सैन्यमेकमुद्दिश्य भूपसामारम्भ इति हृदयमपत्रपते ।
अयं हि शिशुरेकको मदभरेण भूरिस्फुर-
त्करालकरकन्दलीजटिलशस्त्रजालैर्बलैः ।
तद्गुणं च तत् गुणोत्कोटि च । चञ्चन्त्यः चञ्चला पञ्च चूडाः संयत-
केशाः यस्य । 'पञ्चचूडे वटुरिति' इति मुक्तः । शरा एव तुषाराः नी-
हाराः । वीरस्य पोतः अर्भकः । वीरथासो वा । सप्रचोपादित्यत्र उपसर्गो
पादपूरकौ इति केचित् । वृथेत्यन्ये । हन्त क्रोपादिति वा पाठः ॥ २ ॥
मुनिजनशिशुरिति ॥ ३ ॥ प्ररोहः अङ्कुरः । दलिता भेदिताः करिकपो-
लग्रन्थय ये । 'ग्रन्थिर्मर्मनि च' इति हैमः । टङ्कारा घोरा येषु । दलितक-
रिकपोलग्रन्थय एव टङ्कारघोराः सन्तः । ज्वलिताश्च ते शराश्च येषाम्
॥ ३ ॥ अतिशयितसुरासुरेति ॥ ४ ॥ अतिशयितः सुरासुरेभ्यो-
ऽपि प्रभावः यस्य । तथैव रामस्येति भाव । द्विषां मारीचादीनाम् ।
प्रमाथे हिंसने ॥ ४ ॥ अयं हि शिशुरिति ॥ ५ ॥ एककः एक । भूरि
स्फुरन्त्यः वीरक्ष्म्या भूय शोभमानाः करालाः दुर्प्रेक्षाः याः कर-
कन्दल्यः करचपुडानि तेषु जटिलानि निबिडानि शस्त्राणां आयुधानां
जालानि समूहाः येषाम् । 'दुर्दर्शे कराल' इति, 'कदली संपुटे पुटे कन्दः'
इति, 'जटिलो निबिडार्थे' इति हारावलीकपिलशब्दांणवे । किङ्किणीभिः
१ 'सप्रत्नोपाद्' न-टी. २ 'प्रसिद्धप्ररोहः' म. ३ 'घोर' घ. ४ 'द्व-
षेव' घ-घ. ५ 'इममेव०' घ-घ. ६ 'समरभारभूमि०' क-घ-घ. ७ 'क-
न्दित' क-घ-घ.