सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 121, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 121

१०२ उत्तररामचरितं [४-२२
लवः—महती पुनस्तस्मिन्भगवतो वाल्मीकेरास्था । यतः केषांचिदन्ते-
वासिनां हस्तेन तद्युग्मं भरताचार्यं प्रति प्रेषितम् । तेषामनुयात्रिकश्चाप-
पाणिः प्रमादापनोदनार्थमस्मद्ध्राता प्रेषितः ।
कौसल्या—जाद भादावि दे अत्थि । जात भ्रातापि तेऽस्ति ।
लवः—अस्त्यार्यः कुशो नाम ।
कौसल्या—जेट्ठोत्ति भणिदं होदि । ज्येष्ठ इति भणितं भवति ।
लवः—एवमेतत् । प्रसवक्रमेण स किल ज्यायान् ।
जनकः—किं यमजावायुष्मन्तौ ।
लवः—अथ किम् ।
जनकः—वत्स कथय कथाप्रबन्धस्य कीदृशः पर्यन्तः ।
लवः—अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवीं देवयजनसं-
भवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनि-
वृत्त इति ।
कौसल्या—हा वच्छे मुद्धचन्दमुहि को दाणिं दे शरीरकुसुमस्स झत्ति
देव्वदुव्विलासपरीणामो एकलिभाए णिवडिदो । हा वत्से मुग्धचन्द्रमुखि क
इदानीं ते शरीरकुसुमस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः ।
टोर कमलगर्भपक्ष्मल शिशिरशौचेऽपि तादृश इति शेषः । तं एकदेशम् ।
आतङ्कः पीडा । तस्मिन् भरताचार्ये । आस्था अभिनिवेशः प्रीतिर्वा ।
अभीक्ष्णं दृश्यमानानामिति ध्वनिः । आधमं उद्दिश्येति शेषः । आधमं प्रतीति
वा पाठः । अनुयात्रिकः अनुप्रस्थानदक्षः । भ्राताऽपि शेषि । आर्यपदस्वार-
स्यादाह—जेट्ठ इति । ज्येष्ठ इति गणितं ( भणितं २) भवति । 'ज्येष्ठस्तु मासभे-
देच पूर्वजे च' इति नग्दी । मासभेदे तु ज्येष्ठ एवेति केचित् । तन्न, त्रिण्येष्टमिलन
विरोधात् । अत एव ज्येष्ठो ज्येष्टश्चेति द्विरूपेभिधानात् । मासभेदे ज्येष्ठोऽपीति
नन्दार्जुनो व्याचखारेति दिक् ॥ 'परिपाटिरनुक्रम' इत्यमरः । प्रसवक्रमात्,
'अनुजः पूर्वजो ज्येष्ठस्तनुजो यमलौ यमौ' इति वस्तुनिर्णयः । कथायाः
चरितस्य । प्रबन्धः गु(म्फ)नम् । 'प्रबन्धो गुम्फने ग्रन्थे' इति शब्दमाला ।
पर्यन्तः पूर्तिः ॥ हा वत्से मुग्धचन्द्रमुखि क इदानीं ते कुसुमभूतस्य शरी-
रस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः । 'एकलिआ' इति
१ 'प्रमादच्छेदनार्थम्' न; 'अप्रमादार्थम्' घ. २ 'प्रशस्त-' न. ३ 'क्रियान्' न.
४ 'पौरपवादोद्विग्नेन' य-प.