सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 135, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 135

११६ उत्तररामचरितं [ ५-२४ ]
सुमन्त्र —तत्कस्य हेतोः ।
चन्द्रकेतु —एकेतस्तावदय वीरपुरुष पूजितो भवति । अपि च स्व-
त्वार्थं क्षात्रधर्मं समनुगतो भवति । न रथिनः पादचारमभियुञ्जन्तीति
शास्त्रविदः परिभाषन्ते ।
सुमन्त्र —( स्वगतम् । ) आः कष्टा दशामनुप्रपन्नोऽस्मि ।
कथं न्याय्यमनुष्ठानं मादृशः प्रतिषेधतु ।
कथं वाभ्यनुजानातु साहसरैकरसां क्रियाम् ॥ २१ ॥
चन्द्रकेतु —यदा तातमिश्रा अपि पितुः प्रियसखधर्मसंशयेष्वार्यमेव
पृच्छन्ति तत्किमार्यो विमृशति ।
सुमन्त्र —आयुष्मन्, एव यथार्थमभिमन्यसे ।
एष साङ्ग्रामिको न्याय एष धर्मः सनातनः ।
इयं हि रघुसिंहानां वीरचारित्रपद्धतिः ॥ २२ ॥
चन्द्रकेतु —अप्रनिरूपं वचनमार्यस्य ।
इतिहास पुराणं च धर्मप्रवचनानि च ।
भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥ २३ ॥
सुमन्त्र —( सस्नेहास्रं परिष्वज्य )
जातस्य ते पितुरपीन्द्रजितो निहन्तु-
र्धैत्सस्य वत्स कति नाम दिनान्यमूनि ।
तस्याप्यपत्यमनुतिष्ठति वीरधर्मं
दिष्ट्या गतं दशरथस्य कुलं प्रतिष्ठाम् ॥ २४ ॥
पादाभ्यां चारः संचारो यस्य ॥ कथ हीदमनुष्ठानमिति ॥ २१ ॥
अनुष्ठानं आचरणम् । मादृशः अनभिज्ञः इति यावत् । प्रवीते समानयु-
द्धस्य न्याय्यत्वादिति भावः । रणमुखे यानादवतरणमेव साहसमिति भावः ।
अनुष्ठान क्रियामिति च ध्वनी । अत्र द्विारावजागलस्तनी ॥ २१ ॥ मिश्रा
इत्यत्र पादा इति च पाठः । रामादयः इत्यर्थः । पितुः दशरथस्य । विमृ-
शति विचारयति । अनुरूध्यसे अनुवर्तसे ॥ एष साङ्ग्रामिक इति
॥ २२ ॥ सनातनः नित्यः । 'चरितमपि चारित्रम्' इति द्विरूपः ॥ २२ ॥
अप्रतिरूपं असमानम् ॥ इतिहास पुराणमिति ॥ २३ ॥ इतिहास
पुरातनम् ॥ २३ ॥ जातस्य ते पितुरिति ॥ २४ ॥ तस्य लक्ष्मणस्य ।
१ 'एकस्तावद्' ग, 'यतस्तावद्' घ-च २ 'परिभाषित' न; 'सम्यगनुगतः'
घ; 'अनुगृहीत' प ३ 'कथ हीद' न ४ 'प्रतिरूप' घ-प ५ 'विजेतुः'
घ-च ६ 'कुल' प-प