उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 139, कुल 439 में से
संदर्भ में पढ़ें१२० उत्तररामचरितं [ ५-३३
सुमन्त्रः—परिपूतस्वभावोऽयं यत कुमारः प्राचेतसान्तेवासी । यद्यत्-
थैमभिसंपन्नमार्षेण संस्कारेण ।
लवः—यत्पुनश्चन्द्रकेतो वदसि किं नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्ष
इति तत्पृच्छामि किं व्यवस्थितविषयः क्षत्रधर्म इति ।
सुमन्त्र.—नैव खलु जानासि देवमैक्ष्वाकं येनैवं वदसि । तद्विरमाति-
प्रसङ्गात् ।
सैनिकानां प्रमाथेन सत्यमोजायितं त्वया ।
जामदग्न्यस्य दमने नै हि निर्बन्धमर्हसि ॥ ३१ ॥
लवः—( सहासम् । ) आर्य जामदग्न्यस्य दमन स राजेति कोऽयमु-
च्चैर्वादः ।
सिद्धं ह्येतद्वाचि वीर्ये द्विजानां
बाहोर्वीर्यं यत्तु तत्क्षत्रियाणाम् ।
शस्त्रग्राही ब्राह्मणो जामदग्न्य-
स्तस्मिन्दांते का स्तुतिस्तस्य राज्ञः ॥ ३२ ॥
चन्द्रकेतुः—( सोन्मादमिव । ) आर्य सुमन्त्र कृतमुत्तरोत्तरेण ।
कोऽप्येष संप्रति नवः पुरुषावतारो
धीरो न यस्य भगवान्भृगुनन्दनोऽपि ।
पर्याप्तसप्तभुवनाभयदक्षिणानि
पुण्यानि तातचरितान्यपि यो न वेद ॥ ३३ ॥
लवः—को हि रघुपतेश्चरितं महिमानं च न जानाति । यदि नाम किं-
चिदस्ति वक्तव्यम् । अथवा शान्तम् ।
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु किं वर्ण्यते
सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते ।
अभिसंपन्नं सुसत्कृतं यथा तथा । संस्कारेण संप्रदायेन । व्यनिथ । इति
यद्वदसि ॥ सैनिकानां प्रमाथेनेति ॥ ३१ ॥ दमने निग्रहीतारे रामभद्रे तु
विषये निर्बन्धं कर्तुम् ॥३१॥ सिद्धं ह्येतदिति ॥३२॥ 'वीर्ये बले प्रभावे च'
इत्यमरः । ध्वनिश्च ॥ ३२ ॥ उन्मादः चित्तविभ्रमः । कोऽप्येष संप्रतीति
॥ ३३ ॥ यस्य स्वस्य भृगुनन्दनोऽपि धीरो न । पर्याप्तं यथेप्सितं
सप्तभुवनेभ्य अभयदक्षिणा येभ्यः । पुण्यानि पूतानि रम्याणि च
तातः राम तस्य चरितानि । यः रव. ॥ ३३ ॥ यदिः संभावनायाम् ॥
वृद्धास्ते इति ॥ ३४ ॥ ते रामपादा वन्द्या इत्यर्थ । तर्के । वर्तते चरित-
१ 'परिपूतोऽय' न २ 'अभ्युपपन्नामार्षेण' न; 'अभ्युपपन्नम्' क ३ नातिनिर्वैक्त-
मर्हसि'प-घ. ४ 'श्राप्य ' घ. ५ 'दु वर्तते' न. ६ 'दमनेऽप्यखण्डयशस.' घ-प.