उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 124, कुल 439 में से
संदर्भ में पढ़ें४-२६ ] उत्तररामचरितं १०५
जाणामि एदं अत्ताणेअभन्तो वञ्चिदा विअ ता अणग्घदो भविअ पेक्खम्ह
दाव पलाअन्तं दीहाउअं । अरण्यगर्भरूपालापैर्पूर्यं तोषिता वयं च । भगवति
जानाम्येतमनालोकयन्ती वञ्चितेव । तदन्यतो भूत्वा प्रेक्षामहे तावत्पलायमानं
दीर्घायुषम् ।
अरुन्धती—अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते ।
( प्रविश्य । ) कञ्चुकी—भगवान्वाल्मीकिराह ज्ञातव्यमेतदवसरे भव-
द्भिरिति ।
जनकः—अतिगम्भीरमेतत्किमपि। भगवत्यरुन्धति सखि कौसल्ये आये
गृष्टे स्वयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः ।
( इति निष्क्रान्तो वृद्धवर्गः )
( प्रविश्य । ) वटवः—पश्यतु कुमारस्तदाश्चर्यम् ।
लवः—दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः ।
वटवः—कथं ज्ञायते ।
लवः—ननु मूर्खाः पठितमेव हि युष्माभिरपि १तत्काण्डम् । किं न प-
श्यथ प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः, २तत्प्राये-
मेव बलमिदं दृश्यते । यदिह न प्रत्ययस्तद्गत्वा पृच्छत ।
वटवः—भो भोः किंप्रयोजनोऽयमश्वः परिरुतः पर्यटति ।
लवः—( सस्नेहमात्मगतम् । ) अये अश्वमेध इति नाम विश्वविजयिनां
क्षत्रियाणांमूर्जस्वलः सर्वक्षत्रपरिभावी महानुत्कर्ष३निकषः ।
( भैरूपा ? ) लापैर्पूर्यं तोषिताः, वयं च सन्तोषिताः विस्मिताश्च । भगवति
जानामि एतमन्वेक्षमाणा वञ्चितेव तस्मादन्यतो भूत्वा पश्यामस्तावत् पला-
यमानं दीर्घायुषम् । अरण्यगर्भस्य वनमध्यस्य रूपं शोभा येन यस्माद्वा
सोऽरण्यगर्भरूपो लवः । तस्य लापैः ऽङ्किभिरित्यर्थः । 'अमृतं चात-
भाषितम्' इति स्मरणात् । 'रूपमाकृतिसौन्दर्यशोभासु' इति समाशावनेः ।
एतं लवम् । कञ्चुकीति—पूर्वं जनकेन वाल्मीकिं प्रति प्रेषितो यः स ए-
वात्रमिति भेदम् । आह वदति । तदिति लवस्य वृत्तमिति विवेकः । अवसर
एव ज्ञातव्यम्, न त्विदानीमिति भाव । किमपीति क्रमेण विशदीभविष्य-
तीति यावदशेषः । शतं संख्या येषां निषङ्गिणः तूणीधरा । तत्प्राय-
मिति । तेषां कवचिसुखानां प्रायः भूम्ना यस्मिन् तत् तत्प्रायम् । 'प्रायो
-भूम्नि' इत्यमरः । इदं रक्षकसैन्यमिति यावत् । किं प्रयोजनं यस्य किंप्र-
१ 'तत्काण्डे' क-घ-च. २ 'तत्प्रायमेवान्यदपि' च. ३ 'निकर्षः' क-घ-च.