सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 136, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 136

५-२६ ] उत्तररामचरितं ११७
चन्द्रकेतुः—( सरथम् )
अप्रतिष्ठे रघून्ज्येष्ठे का प्रतिष्ठा कुलस्य नः ।
इति दुःखेन तप्यन्ते अद्यो नः पितरोऽपरे ॥ २५ ॥
सुमन्त्रः—अहह हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि ।
लवः—हन्त मिश्रीकृतो रसक्रमो वर्तते ।
यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी
तथैवास्मिन्दृष्टिर्मम कलहकामः पुनरयम् ।
रणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु-
र्धृतप्रेमा बाहुर्विकचविकरालोल्बणरसः ॥ २६ ॥
चन्द्रकेतुः—(अवतरणं रूपयन् ।) आर्य सौमित्रिश्चन्द्रकेतुरभिवादयते ।
सुमन्त्रः—अहितस्यैव पराजयाय महानादिवराहः कल्पताम् ।
अपि च ।
अपत्यं चन्द्रकेतु । प्रतिष्ठां कीर्त्तिम् । गतमिति ध्वनि ॥ २४ ॥ अप्रतिष्ठे
कुलज्येष्ठे इति ॥ २५ ॥ रघवः दशरथाय ज्येष्ठा यस्य । 'ज्येष्ठोऽतिशय.'
इत्यमर । रघुभ्य भरतलक्ष्मणशत्रुघ्नेभ्य इति वाऽर्थ । रघूश्रेष्ठे इति च पाठ ।
अप्रतिष्ठे अपवादिनि भावि । तुर्यपादे ध्वनि ॥ २५ ॥ रसयो शान्त-
वीरयो । क्रमो रीति । शान्तिं वर्णयति-यथेन्दावानन्दमिति ॥ २६ ॥
समुपोढे उदिते । अस्मिन् चन्द्रकेतौ । वीररस वर्णयति-कलहकाम
इति । अयमसौ । रणत्कारः शब्दानुकार । तेन क्रूरं क्वणितं शब्द यस्य
तादृग्गुण मौर्वी यस्य घण्टामाघनेन गुञ्जद् गुरु बलिष्ठु यत् धनुः गुणं च
तदनु । तस्मिन् धृतप्रेमा । विकचाः स्फुटा विकरालाः विशेषेण भय-
ङ्करा व्रणाः व्याघातसमयी मुखे तले यस्य । 'मार्गगभ्यस्तयो सन्धिरि-
शेयतलयोर्मुखम्' इति त्रिकाण्डशासनम् । बाहु स्फुरतीति शेष ॥ २६ ॥
अहितस्य शत्रो एवकारेण लवो व्यावत्र्त्यते । तस्याहितत्वाभावादिति दैव-
विज्ञं बोध्यम् । पराजयं भङ्गम् । महान् पूज्य । आदिवराहः वराहा-
वतारो विष्णु ॥ 'दाशमर्काविट्ठयं शकारसत्यं रामाहुरोमेतिम् । पराजयमनि-
१ 'कुलज्येष्ठे' क-घ-न. २ 'मिश्रीकृतक्रमो रसो' न, 'रम.' घ. ३ 'विक-
रालव्रणमुख.' न-टी. ४ 'रैश्यारु' न. ५ अस्य स्थाने 'अमिस पूज्यमूर्द्धन्वि
ककुत्स्थस्येव ते महः । श्रेयसे शाश्वतो देवो वराह. परिकल्पताम्' ॥ २७ ॥ इति
क-घ-च-पुस्तकेषु.