उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 131, कुल 439 में से
संदर्भ में पढ़ें११२ उत्तररामचरितं [५-१२]
अत्यद्भुतादसि गुणातिशयात्प्रियो मे
तस्मात्सखा त्वमसि यन्मम तत्तवैव ।
तत्किं निजे परिजने कदनं करोषि
नन्वेष दर्पनिकषस्तव चन्द्रकेतुः ॥ १० ॥
लवः—(सहर्षसंभ्रमं परावृत्य ।) अहो महानुभावस्य प्रसन्नकर्कशा
वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य । तत्किमेभिरेवमेव सावष्टम्भाव-
यामि । (पुनर्नेपथ्ये कलकलः ।)
लवः—(सक्रोधनिर्वेदम् ।) आः कदर्यितोऽहमेभिर्गौरसंवादविघ्नका-
रिभिः पापैः । (तदभिमुखं परिक्रामति ।)
चन्द्रकेतुः—आर्य आर्य दृश्यतां द्रष्टव्यमेतत् ।
दर्पेण कौतुकवता मयि बद्धलक्ष्यः
पश्चाद्वलेऽनुसृतोऽयमुदीर्णधन्वा ।
द्वेधा समुद्धतमरुत्तरलस्य धत्ते
मेघस्य माधवतचापधरस्य लक्ष्मीम् ॥ ११ ॥
सुमन्त्रः—कुमार एवेनं द्रष्टुमपि जानाति । वयं तु केवलं परवन्तो वि-
स्मयेन ।
चन्द्रकेतुः—भो भो राजानः ।
संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता-
वद्यैकस्मिन्कवचनिचितैर्मध्येचर्मोत्तरीये ।
कालज्येष्ठैरभिनवयवयःकाम्यकाये भवद्भि-
र्योऽयं बद्धो युधि समभरेस्तेन धिग्वो धिगस्मान् ॥ १२ ॥
लवः—(सोत्प्रासम् ।) आः कथमन्वुकम्पते नाम । (विचिन्त्य ।)
भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि ।
(इति ध्यानं नाटयति ।)
मर । निचयः समूह । 'अतुलं (तुमुलं?) रणसङ्कुले' इति, 'हेला विलास',
इति, 'ओघ प्रवाहजवयो' इति चामरः । आस्फालितः उद्धृतः ॥ ९ ॥
अत्यद्भुतादसीति ॥ १० ॥ कदनं व्यापादनम् ॥ १० ॥ कदर्यित व्यर्थी-
कृत इति यावत् ॥ दर्पेण कौतुकवतेति ॥ ११ ॥ उदीर्णं उद्धृतम् ।
माधवतं ऐन्द्रम् । लक्ष्मीं शोभाम् ॥ ११ ॥ परवन्तः पराधीनाः ।
संख्यातीतैरिति ॥ १२ ॥ 'पदाती पदातयः' इत्यमरः । तत्र तस्मिन्
छवे । निचितैः । 'बालो वत्सरडेऽपि' इति केशवः । अपरं बाल्यं । हेत्व-
१ 'नद' ग. २ 'अपरवयसि ख्यातिरामैः' न. ३ 'परिकर' इति क-घ-च.